सामग्री पर जाएँ
सर्वकोश
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

पृष्ठ 138, कुल 439 में से

संदर्भ में पढ़ें
पृष्ठ 138

वयमपि न खल्वेवं प्रायाः ऋतुप्रैतिघातिनः
क इह न गुणैस्तं राजानं जनो बहु मन्यते ।
तदपि खलु मे स व्याहारस्तुरङ्गमस्रक्षिणां
विकृतिमखिलक्षत्राक्षेपप्रचण्डतयाकरोत् ॥ २८ ॥
चन्द्रकेतुः-( सस्मितम् ) किं नु भवतस्तातपादोत्कर्षेप्यमर्षः ।
लवः-अस्त्विहामर्षो मा भूद्वा । एतत्तु पृच्छामि । दान्तं हि राजानं
राघवं शृणुमः । स किल नात्मना दृप्यति नास्य प्रजा वा दृप्ता जायन्ते ।
तत्किं मनुष्यास्तस्य राक्षसीं वाचमुदीरयन्ति ।
ऋषयो राक्षसीमाहुर्वाचमुन्मत्तदृप्तयोः ।
सा योनिः सर्ववैराणां सा हि लोकस्य निर्ऋतिः ॥ २९ ॥
इति ह स्म तां निन्दन्ति । अथेतररामिष्टुवन्ति ।
कामं दुग्धे विप्रकर्षत्यलक्ष्मीं
कीर्तिं सूते दुष्कृतं या हिनस्ति ।
तां चाप्येतां मातरं मङ्गलानां
धेनुं धीराः सूनृतां वाचमाहुः ॥ ३० ॥
च वयमपीति ॥ २८ ॥ वयमपि न खल्वेवमिति काकुः । एवं सुजना
एवेत्यर्थः । किं तम् इत्याह-शाम इति । प्रायः बहुधा । ऋतुद्विषतां असुर-
राक्षसानाम् । अरिं हन्तारम् । तदपि तथापि । 'सप्तलोकरैकवीरस्य' इति
तुरङ्गरक्षिणा व्याहारः उक्तिः । मे विकृतिं विकारम् । अकरोत् खलु
॥ २८ ॥ 'दमं क्लेशसहो दान्तः' इत्यमरः । 'दमशीलो बाह्यः इन्द्रियनिग्रहः'
इति भगवान् बोधायनः । अन अस्वरक्षशेगायाम् । तस्य राज्ञस्य मनु-
ष्याः ॥ ऋषयो राक्षसीमेति ॥ २९ ॥ सा वाक् योनिः कारणम् ।
लोकस्य बहुर्जनस्य । 'अलक्ष्मीस्तु निर्ऋतिः' इत्यमरः ॥ २९ ॥ इति ह स्म
इति कथनार्थः सम्प्रदायः । 'तु हि च स्म ह वै पूर्ती' इति केशवः । अत एव
'शारमहं ददर्श ह' इति प्राचेतसः ॥ कामं दुग्धे इति ॥ ३० ॥ कामं
मनोरथम् । दुग्धे दोग्धि विप्रकर्षति दूरयति । निष्कृदन्ति (१) निस्कृप
इति । सूनृतां प्रिताम् वाचं धेनुं कामधेनुम् । आहुः वदन्ति ॥ ३० ॥
-१ 'यदि च वयमप्येवं' न. २ 'ऋतुद्विषतामरी' न, 'ऋतुभति मत्सराः' घ.
३ 'निष्कृति.' न. ४ 'रामागदुग्धे' क-घ-व. ५ 'दुर्हदो निष्प्रदान्ति' न.
६ 'शुद्धो शान्ता' ग.