उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 123, कुल 439 में से
संदर्भ में पढ़ें१०४ उत्तररामचरितं [ ४–२६
जनकः—शान्तं धा रघुनन्दने तदुभयं यत्पुत्रभाण्डं हि मे
भूयिष्ठद्विजबालवृद्धविकलस्त्रैणश्च पौरो जनः॥ २५ ॥
(प्रविश्य ।) संभ्रान्ता बटवः—कुमार कुमार अश्वोऽश्व इति कोऽपि
भूतविशेषो जनपदेष्वनुश्रूयते सोऽयमधुनाऽस्माभिः प्रत्यक्षीकृतः ।
लवः—अश्व इति पशुसमाम्नाये साङ्ग्रामिके च पठ्यते । तद्ब्रूत कीदृशः।
बटवः—श्रूयताम् ।
पश्चात्पुच्छं वहति विपुलं तच्च धूनोत्यजस्रं
दीर्घग्रीवः स भवति खुरास्तस्य चत्वार एव ।
शष्पाण्यत्ति प्रकिरति शकृत्पिण्डकानाम्नमात्रा-
न्किं वाऽऽरैर्या तैर्व्रजति स पुनर्द्रूरमेहोहि यामः॥ २६॥
( इत्यजिने हस्तयोराकर्षन्ति । )
लवः—( सकौतुकापराधविनयम् । ) आर्याः पश्यत पश्यत । एभिर्नी-
तोऽस्मि । ( इति त्वरितं परिक्रामति । )
अरुन्धतीजनकौ—पैरयतु कौतुकं वत्स ।
कौसल्या—अरष्णगब्भरूवाणवेहिं शुद्दे तोसिदा अह्मे अ। भयवदि
इति भावः । 'कृपणः क्षुद्रः' इत्यमरः ॥ २५ ॥ शान्तं गतमिति यावत् ।
क्षाम्तमिति च पाठः । न दधे न दधामि । यत् यस्मात् । तत् प्रसिद्धम् ।
उभयं सीतारामौ । मे मम । पुत्री च पुत्रश्च पुत्रौ तावेव भाण्डे पुत्रभा-
ण्डम् । 'भाण्डं मूलवनिग्धने' इति रूपितः । वणिजा मूलधनं यथा रक्ष्यते
तथा मया सीतारामौ रक्षणीयौ इति भावः । ननु अपवादप्रवृत्तेषु जनेषु
कोपो युक्त इत्याशङ्कय सोऽपि दयनीय इत्यत्र हेतुमाह—भूयिष्ठेति । भूयि-
ष्ठानि भूयांसि द्विजबालवृद्धविकलस्त्रैणानि यस्मिन् । विकलाः अङ्गहीना-
दयः । 'स्त्रैणं स्त्रीसमूहः' इति नन्दी ॥ २४ ॥ पशुसमाम्नाये पशुविधा-
यकवेदे । साङ्ग्रामिके सङ्ग्रामसंबन्धिाने प्रकरणे इति शेषः । पश्चात्पुच्छं
वहतीति ॥ २६ ॥ धूनोति कम्पयति । शष्पाणि बालतृणानि । आम्र-
मात्रान् आम्रप्रमाणान् । शकृत्पिण्डकान् मलगोलकान् ॥ २६ ॥ अ-
श्वाददर्शने कौतुकम्, सहसागमनप्रसङ्गेनापराधः तत्क्षमापने या सहजो वा
विनयः । एवं सर्वतो यथोचितमूह्यम् ॥ एभिर्नीतोऽस्मीति शिद्रत्कारेण सं-
चमत्कारकथनाद्भवस्य गमने महानभिनिवेश इति बोध्यम् ॥ अरण्यगंभी-
१ 'तत्पुत्र' ख-घ. २ 'प्यारुडानी.' ग. ३ 'महत्कौतुकं वत्सस्य' ग.
४ 'अरण्ण...अह्मे अ' एतन्नास्ति क-च-य-पुस्तकेषु.