ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
४८० ताण्ड्यमहाब्राह्मणे
स एतद्वात्सप्रमपश्यत्स श्रद्धामविन्दत श्रद्धा विन्दा-
महा इति वै सत्रमासते विन्दते श्रद्धाम् ॥ २५ ॥
(१)ऋषिः श्रद्धां सर्ववस्तुविषयामभिरुचिं नाऽविन्दत नाऽलभत ।
तल्लाभार्थं स ऋषिः तपस्तप्तवान् । तेन च तपसा स ऋषिरेतद्वात्सप्रं
सामाऽपश्यत् । तेन साम्ना साधनेन श्रद्धामप्यविन्दत श्रद्धां विन्दामहै
लभामहा इति खलु सत्रमासते द्वादशाहाख्यं यज्ञं कुर्वन्ति । तेनैतद्वा-
त्सप्रं प्रयुञ्जानाः श्रद्धामभिरुचिं सर्ववस्तुगोचरां विन्दते लभते ॥ २५ ॥
अथैतदीयस्य निधनस्य अह्ना सङ्गतिं दर्शयन् प्रशंसति-
ईनिधनं तथा ह्येतस्याऽह्नो रूपं निधनान्ताः पवमाना
भवन्त्यह्नो धृत्यै स्तोमः ॥ २६ ॥
ई इति निधनं यस्य तत्तथोक्तं वात्सप्रमपि ईकारानिधनम् । तथाहि
तथैव खल्वेतस्याऽह्नो रूपं पुरा विहितम् दिनिधनं तृतीयस्य निधनं
चतुर्थस्येति । किञ्च पवमानाः पवमानस्तोत्राणि निधनान्ताः
निधनं ऋगक्षरव्यतिरिक्तं ई सा वाक् ई इत्यादिकं येषां ते निध-
नान्ताः तादृशानि भवन्त्यह्नो धृत्यै पवमानस्तोत्रस्यैतस्याऽह्नो धार-
णार्थम् । स्तोत्रं हि पुरस्तात् क्रियमाणेन हिङ्कारेण ऋगक्षरव्यतिरिक्तेना-
वसानप्रयुक्तेन निधनेन उभयतः परिगृहीतत्वादृढं भवति। तद्वारा अह-
रपि अन्यथाऽभिधानस्थानेन निधनेन वियोगात् कृतमपि स्तोत्रं प्रशि-
थिलं स्यादित्यह्नोऽपि शैथिल्यं भवेत् । एवं सप्तसु सामसु तृचेषु क्रि-
यमाणेषु एकविंशतिस्तोत्रीया निष्पद्यन्ते । तथा च एकविंश एवाऽस्य
स्तोत्रस्य स्तोमो भवति ॥ २६ ॥
इति ताण्ड्यमहाब्राह्मणे सायणीये वेदार्थप्रकाशे
द्वादशाध्यायस्यैकादशः खण्डः ॥
अथ द्वादशः खण्डः ॥
अथोक्थानां प्रथमस्य स्तोत्रीयं तृचं दर्शयति-
'अग्निं वो वृधन्त'मिति ॥ १ ॥
अयं तृचः प्रथमस्य मैत्रावरुणस्योक्थस्य स्तोत्रीय इत्यर्थः ॥ १ ॥
अस्मिंस्तृचे वृधन्तमिति वृधि धातुः श्रूयते । तत्सूचितमर्थमाह-
अवर्धन्त ह्येतर्हि यजमानमेव तया वर्धयन्ति ॥ २ ॥
१. भालन्दनः भलन्दनस्य पुत्रः वत्सप्रीर्नाम ।
[Header] द्वादशाध्याये द्वादशः खण्डः । ४८१
एतर्हि एतस्मिन् काले तृतीयसवानावसाने अवर्द्धन्त । हि यस्माद्दे-
वाश्चरुपूरोडाशादिभिर्वृद्धाः समृद्धाः अभूवन्, तस्मादेतया वृद्धिधातु-
युक्तयर्चा यजमानमेव वर्द्धयन्त्युद्गातारः ॥ २ ॥
अथ द्वितीयस्य ब्रह्मण उक्थस्य स्तोत्रीयं तृचं दर्शयति-
“वयमु त्वामपूर्व्वयं”त्यपूर्व्वाँ॑ ह्ये॑तर्हि॑ प्रजापतेस्तनूमग-
च्छन्नपूर्व्वमेवैतया यजमानं गमयन्ति ॥ ३ ॥
'वयमु त्वा'मिति तृचो द्वितीयस्योक्थस्य स्तोत्रीयः कार्य्यः। तत्सम्ब-
न्धिना(१) अपूर्व्वशब्देन सूचितोऽर्थः प्रतिपाद्यते । एतर्ह्येतस्मिन् काले
अपूर्व्वां अदृष्टपूर्व्वां खलु प्रजापतेस्सर्वकारणभूतस्य विधातुस्तनं शरी-
रं हि अगच्छन् आप्नुवन् देवाः । तस्मादपूर्व्वशब्दयुक्तयैतया स्तोत्रीयया
अपूर्व्वं अभूतं दिव्यं फलमेव यजमानं गमयन्ति प्रापयन्ति ॥ ३ ॥
अथ तृतीयमच्छावाकोक्थस्य स्तोत्रीयं तृचं विधत्ते—
“इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदामि”ति ज्यैष्ठ्यँ॑ ह्ये-
तर्हि॑ वाचोऽगच्छन् ज्यैष्ठ्यमेवैतया यजमानं गमयन्ति ॥४॥
'इममिन्द्र सुतं पिबे'ति तृतीयस्योक्थस्य स्तोत्रीयस्तृचः कार्य्यः ।
एतर्ह्येतस्मिन्नन्तरे ज्यैष्ठ्यमतिशयितं प्राशस्त्यं वाचोऽगच्छन् स्तुत-
शस्त्ररूपाणां सर्व्वासां वाचां प्रयुक्तत्वात् । अतो ज्यैष्ठ्यलिङ्गयुक्तया स्तो-
त्रीयया यजमानं ज्यैष्ठ्यमतिशयितं प्राशस्त्यमेव गमयन्ति ॥ ४ ॥
अथ 'अग्निं व' इति प्रथमस्योक्थस्य विहिते तृचे गेयं साम दर्शयति-
सैन्धुक्षितं भवति ॥ ५ ॥
सिन्धुक्षिता दृष्टं सैन्धुक्षितम् । तत्साम तस्मिंस्तृचे कार्यम् ॥ ५ ॥
अथोक्तमृषिसम्बन्धं दर्शयन् विशिष्टफलहेतुतयैतत् स्तौति--
सिन्धुक्षितै राजन्य॑र्षिर्ज्यो॑गपरुद्धश्चरन् स एतत्
सैन्धुक्षितमपश्यत् सोऽवागच्छत् प्रत्यतिष्ठद्वगच्छति
प्रतितिष्ठति सैन्धुक्षितेन तुष्टुवानः ॥ ६ ॥
सिन्धुक्षिन्नाम राजन्यो राजपुत्रः ऋषिः ज्योक् चिरकालं अपरुद्ध
अज्ञानेनाऽऽवृतश्चरन् सञ्चरणशीलश्चाऽऽसीत्। स ऋषिरेतत् सैन्धुक्षितं
नाम सामाऽपश्यत् तपसो बलाद्दृष्टवान् । तदनन्तरमेतेन साम्ना साध्य-
नेन अवागच्छत् सर्वमजानात्, तथा प्रत्यतिष्ठत्(२) प्रतिष्ठातत्परोऽभव-
१. अपूर्वसम्बन्धेनेति. ग. पु. २. प्रतितिष्ठत्येति. क. ख. पु.
६१ ता० ब्रा०
४८२ ताण्ड्यमहाब्राह्मणे
द्राज्ये। अतोऽद्यतनोऽपि सैन्धुक्षितेन स्तुवन्नवगच्छति प्रतितिष्ठति च ॥
'वयसु त्वामपूर्व्वे'ति द्वितीयस्योक्थस्य विहिते तृचे गेयं साम दर्शयति-
सौभरं भवति बृहतस्तेजः ॥ ७ ॥
'बृहतो वा इन्द्रो वृत्राय वज्रं प्राहरत्तस्य तेजः परापतत् तत् सौभ-
रमभवदि'ति ब्राह्मणात् सौभरं साम बृहतस्साम्नस्तेजः। एतदस्मिन्
'वयमुत्वामि'ति तृचे कार्य्यम् ॥ ७ ॥
अथैतत् स्तौति--
पन्नमिव वै चतुर्थमहस्तदेतेन बृहतस्तेजसोत्त-
भ्नोति सौभरेण ॥ ८ ॥
पन्नं अधस्तात् पतितमिव खल्वेतत् चतुर्थमहरतीतेष्वहःसु(१)
बृहतीष्वेतत्पृष्ठस्तोत्रं क्रियते। बृहती च षट्त्रिंशदक्षरा। अस्मिन्नहनि
ततोन्यूना
अथ त्रयोदशः खण्डः ॥
इत्थं पञ्चदशस्तोत्राणि गतानि। अथैतस्य चतुर्थस्याह्नः षोडशि-
मत्वात् तत्र षोडशिस्तोत्रे बृहत्साम द्विपदासु स्तोतव्यमिति विधि-
त्सुराह—
इन्द्रश्च बृहच्च समभवतां तमिन्द्रं बृहदेकया तन्वा-
त्यरिच्यत तस्या अबिभेदनया माऽभिभविष्यतीति सो-
ऽब्रवीत् षोडशी तेऽयं यज्ञक्रतुरास्त्विति स षोडश्यभ-
वत्तदस्य जन्म ॥ १ ॥
देवानां मध्ये इन्द्रश्च साम्नां मध्ये बृहत्साम च समभवतां प्रजापते
रुरसो बाहुभ्याञ्च सम्भूतौ सहोत्पन्नावभूताम् । (१) एवं सहोत्पत्त्यन्तरं
तमिन्द्रं बृहत्साम एकया तन्वा एकेन (२) शरीराङ्गेनाऽत्यरि-
च्यत अतिरिक्तमधिकमभूत् । ततस्स इन्द्रः तस्या बृहतस्तन्वा अति-
रिक्ताया अबिभेत् भीतवान् । अनयाऽतिरिक्तया तन्वा मां बृहत्सामा-
ऽभिभविष्यति पराभविष्यतीति । एवं (३) भीतस्सन् इन्द्रोऽब्रवीत्—
हे बृहत् ते तव येयमतिरिक्ता तनूः अयं षोडशी नाम यज्ञक्रतुर-
स्त्विति षोडशस्तोत्राणि षोडश शस्त्राणि च यस्याऽसौ षोडशी
षोडश्याख्यः सोमयागो भवत्वित्यर्थः । एवमिन्द्रोक्ते तदनन्तरं
स षोडश्यभवत् उक्थस्तोत्रपञ्चदशापेक्षया अतिरिक्ता या बृहतस्तनूः
सा षोडशी षोडशस्तोत्रशस्त्रवान् यज्ञक्रतुरभवत् । अस्य षोडशिन-
स्तदेव जन्मोत्पत्तिर्बृहतः सम्बन्धिव्यतिरिक्ता तनूः विहितानां
पञ्चदशानां स्तोत्राणां यत् षोडशसंख्यापूरकं स्तोत्रं तदात्मना जा-
तेत्यर्थः ॥ १ ॥
तस्माद्बृहत्साम षोडशिस्तोत्रतया कार्यमित्याह—
अतिश्रिया भ्रातृव्यं॑रिच्यते यो गाय॒त्रीषु द्विपदा-
सु बृहता षोडशिना स्तुते ॥ २ ॥
यच्छब्दश्रवणात्तच्छब्दाध्याहारः । सोऽयं श्रिया सम्पदा भ्रातृव्यं
शत्रुमतिरिच्यते अधिको भवति । यो गायत्रीषु द्विपदासु बृहता षोड-
शिना षोडशिसाम्ना स्तुते स्तावयतीत्यर्थः ॥ २ ॥
१. सहोत्पन्नामिति. ग. पु. २. शरीरेणाऽनेनेति. ग. पु.
३. भूतस्स इन्द्र इति. क. ख. पु.
काः पुनस्ताः द्विपदा इत्यत आह—
“उप॑ नो॒ हरि॑भिः सु॒त”मित्ये॒ता वै गा॑य॒त्र्यो द्वि-
प॒दा ए॒तासु स्तोत॑व्यम् ॥ ३ ॥
“उप नो हरिभिः सुत”मित्याद्याः उत्तराग्रन्थे समाम्नाताः । एता एव
गायत्र्यो द्विपदाः। यद्यपि तास्त्रिपदा गायत्र्यः तथाप्यु‘प नो हरिभिः सु-
त’मिति प्रथमपाद एव तृतीयपादात्मना पुनः पुनरभ्यस्यते इति तासां
द्विपदात्वम् । एतासु द्विपदासु बृहता साम्ना स्तोतव्यमित्येकः पक्षः॥३॥
अथ पक्षान्तरं विधित्सुः सामान्तरस्योत्पत्तिमाह—
इन्द्रः॑ प्रजाप॑तिमुपाधावद्वृ॒त्रꣳ हनानीति॒ तस्मा॑
ए॒ताम॑नु॒ष्टुभ॑मपहरसं प्रायच्छत्तया नाऽस्तृणुत॒ यद॒स्तृ-
ता व्य॑नदत्तन्नानदस्य नानद॒त्वम् ॥ ४ ॥
इन्द्रः पुरा वृत्रं असुरं हन्तुं स्वयं(१) अशक्तस्सन् प्रजापतिं स्रष्टारं
(२)स्वपितरमुपाधावदुपागच्छत् । किं कुर्व्वन् ? वृत्रमसुरमहं हनानि हन-
नसमर्थो भवामि यथाऽहं हन्तुं शक्ष्यामि तथा मां कुर्व्विति ब्रुवन् । तस्मा
उपगतायेन्द्राय अपहरसं अपगतहरसं(३) तेजःप्रतिपादकेन हरशब्देन
विधुरामेतां प्रत्यस्मा इत्यादिकमनुष्टुभमृचं प्रायच्छत् प्रादात्-अनया
वृत्रं जहीति । तत इन्द्रस्तां तस्मिन् वृत्रे प्राक्षिपत् । तया स नाऽस्तृणुत
नाऽहिंस्यत । स्तृहिंसायामिति धातुः। स चाऽस्तृतोऽहिंसतः सन् यत्
व्यनदत् विशेषेण शब्दमकरोत् तन्नानदं सामाऽभवत् । यस्मादेवं नद-
नाज्जातं तत्तस्मान्नानदस्य साम्नो नानदत्वं नानदमिति नाम सम्पन्नम्॥४॥
इत्थं पक्षान्तरोपयुक्तं साम प्रदर्श्य अथ (४)तस्याऽऽधारभूताः स्तो-
त्रीया ऋचो विवक्षुराह—
तं पुन॑रुपाधावत्तस्मै॑ स॒प्तानाꣳ होत्रा॑णाꣳ हरो
निर्म्मा॑य॒ प्राय॑च्छत् तमस्तृणुत ॥ ५ ॥
तं प्रजापतिमिन्द्रः पुनरुपाधावत् उपागच्छत् त्वद्दत्तयाऽनुष्टुभा
नाऽसौ वृत्रो हत इति ब्रुवन् । ततस्तस्मै इन्द्राय प्रजापतिः सप्तानां हो-
त्राणां होतृमैत्रावरुणादयः सप्त वषट्कर्त्तारः तेषामार्त्विज्यनि होत्राश-
ब्देनोच्यन्ते सप्तसंख्यानां होतृमैत्रावरुणादिसम्बद्धानां कर्म्मणां हरस्ते-
जो निर्म्मायोत्पाद्य एकीकृत्य प्रायच्छत् । ततस्तेन हरसा तं वृत्रम-
१. अपराद्धस्सन्निति. ग. पु. २. स्वामिनमिति. क. पु.
३. कामः तेजप्रतिपादकेनेति. क. पु, ४. तत्साधनभूता इति. क. ख. पु.
स्तृणुत अवधीत् ॥ ५ ॥
एतद्वेदनफलमाह—
स्तृणुते तं यं तुस्तूर्षते य एवं वेद ॥ ६ ॥
यं शत्रुं तुस्तूर्षते हिंसितुमिच्छति तं स्तृणुते हिनस्ति स पुरु-
षः य एवं पूर्वोक्तमर्थं वेद जानाति ॥ ६ ॥
किन्तत इत्याह—
तस्माद्धरिवतीषु स्तुवन्ति हरिवतीः शंसन्ति हरि-
वतीषु ग्रहो गृह्यते हरो ह्यस्मै निम्माय प्रायच्छत् ॥ ७ ॥
यस्मादिन्द्रो हरसा प्रजापतिदत्तेन वृत्रमवधीत् तस्मात् कारणात्
हरिवतीषु हरिशब्दयुक्तासु एकदेशविकृतमनन्यवद्भवतीति न्यायेन
हरिशब्देन हरश्शब्दः प्रत्यभिज्ञायते । अत एतासु हरिवतीषु 'असावि
सोम इन्द्र' इत्याद्यासु नानदेन षोडशिसाम्ना स्तुवन्तीत्येतत्पक्षान्तरम्।
तथा हरिवतीः हरिशब्दयुक्ता एव ये होतारः शंसन्ति तथा हरिवतीषु
चक्षुरादिशत्रुहननमित्याद्यास्त्वृक्षु पठ्यमानासु अध्वर्युणा ग्रहः षोड-
श्याख्यो गृह्यते । तस्मादिन्द्राय हरो हि हरशब्दवाच्यं खलु तेजो नि-
र्म्माय पुरा प्रजापतिः प्रायच्छत् दत्तवान् ॥ ७ ॥
सप्तानां होत्राणां हरो निम्माय प्रायच्छदिति यदुक्तं तस्योपपादकं
लिङ्गं अस्मिन् षोडशिस्तोत्रे दर्शयति—
एकविंशायतनो वा एष यत् षोडशी सप्त हि प्रा-
तस्सवने होत्रा वषट्कुर्व्वन्ति सप्त माध्यन्दिने सवने
सप्त तृतीयसवने ॥ ८ ॥
यत् यष्षोडशी एषः एकविंशायतनो वा एकविंशस्तोमस्याऽऽयत-
नभूत आश्रयभूतः । तत् कुतो हेतोः ? प्रातस्सवने सप्तसंख्याकाः होत्राः
होतृमैत्रावरुणादयः ऋत्विजो वषट्कुर्व्वन्ति प्रस्थितयाज्याद्याभिर्वष-
ट्कृत्य यजन्ते । तथोत्तरयोस्सवनयोरपीत्येकविंशतिसंख्या होत्रा भ-
वन्ति । हि यस्मादेवं तस्मात् षोडशिन एकविंशायतनत्वम् ॥ ८ ॥
इत्थं बृहन्नानदाख्यं(१) सामद्वयं विकल्पेन षोडशिसाम कर्त्तव्यमि-
त्युक्तम्, अथ स्वाभिमतं पक्षान्तरं दर्शयति—
गौरीवितं भवति ॥ ९ ॥
गौरीवितं साम 'इन्द्रं जुषस्व प्रवहे'ति तृचे षोडशिसाम कार्य्यम् । ह।
१. सामद्वितयमिति. क. ख. पु.
४८६ ताण्ड्यमहाब्राह्मणे
अथाऽस्य साम्नः ऋषिसम्बन्धप्रदर्शनपुरस्सरमुत्पत्तिं दर्शयन्
स्तौति—
गौरीवितिर्वा एतच्छक्तयो ब्रह्मणोऽतिरिक्तमप-
श्यत्तद्गौरीवितमभवदतिरिक्तं वा एतदतिरिक्तेन स्तुव-
न्ति यद्गौरीवितेन षोडशिनᳵश्वस्तनवान् भवत्यपि प्र-
जाया उपक्लृप्तः ॥ १० ॥
अतिरिक्तं वा एतदित्यन्तं पूर्ववद्व्याख्येयम् : यद्गौरीवितेन साम्ना
षोडशिनं षोडशिस्तोत्रं प्रणयति अतिरिक्तेनाऽधिकेनैव तेन स्तुवन्ति
तस्मादाधिक्यवता साम्ना स्तवनात् श्वस्तनवान् श्वः परस्मिन् दिवसे
भवं श्वस्तनं तद्वान् प्रजायाः पुत्रपौत्रादिरूपायाः उपक्लृप्तः उपक-
ल्पितः उपभोग्यश्च भवति ॥ १० ॥
पूर्वं नानदं साम षोडशिस्तोत्रतया कार्य
द्वादशाध्याये त्रयोदशः खण्डः। ४८७
ष्टुभि नानदं कृत्वा गौरीवितेन षोडशिना स्तुतेऽञ्जसा
श्रियमुपैति न श्रिया अवपद्यते ॥ १२ ॥
एष वै एष खलु विशालं विस्तृतं विवृद्धया उपचितया भूत्या ऐ-
श्वर्येण अभिदधाति यो यजमानः अनुष्टुभि आनुष्टुभे तृचे नानदं
साम कृत्वा गौरीवितेन षोडशिना षोडशिसाम्ना स्तुते तदनन्तरमञ्ज-
साऽऽर्जवेन श्रियमुपगच्छति । न च तया श्रिया वियुज्यते ॥ १२ ॥
इत्थं सामद्वयं व्यवस्थाप्य षोडशिसाम्ना स्तोत्रीयाः कामना-
भेदेन विविधाः प्रदर्शयन्नेकं पक्षमाह—
शक्वरीषु षोडशिना स्तुवीत यः कामयेत वज्री
स्यामिति ॥ १३ ॥
षट्पञ्चाशदक्षरा ऋचः शक्वर्य्यः । शक्वरीषु षोडशिना षोडशि-
साम्ना स्तुवीत । यो यजमानः वज्री स्याम् (१)वज्रवान् वीर्य्यवान्
भवेयमिति स शक्वरीषु षोडशिना स्तुवीत ॥ १३ ॥
तदेतदुपपादयति—
वज्रो वै षोडशी वज्रः शक्वर्यो वज्रेणैवाऽस्मै वज्रꣳ
स्पृणोति वज्री भवति ॥ १४ ॥
षोडशिनः शक्वरीणाञ्च वज्रवद्वृत्रहननसाधनत्वाद्बज्रत्वम् । अत्र
च शक्वरीषु षोडशिसाम्ना स्तवनात् वज्रेण वज्रात्मकेनैव षोडशिना
शक्वर्य्याख्यं वज्रं अस्मै यजमानाय स्पृणोति बलयति संयोजयति त-
र्पयति वा । स्पृप्रीतिबलयोरिति धातुः । स च यजमानो वज्री वज्रवान्
भवति ॥ १४ ॥
अथ फलान्तराय स्तोत्रीयान्तरं विधत्ते—
अनुष्टुप्सु षोडशिना स्तुवीत यः कामयेत न मा
वागातिवदेत् ॥ १५ ॥
अनुष्टुप्सु अनुष्टुप्छन्दस्कासु ऋक्षु षोडशिसाम्ना स्तुवीत मा मां
वाक् परैः प्रयुज्यमानं वाक्यं नाऽतिवदेत् अतिक्रम्य न ब्रूयादिति यो
यजमानः कामयेत, सोऽनुष्टुप्सु षोडशिना स्तुवीत ॥ १५ ॥
अथैतदुपपादयति—
वज्रो वै षोडशी वागनुष्टुब्बज्रेणैवाऽस्मै वाचꣳ
१. वज्रवानिव भवेयमिति. क. ख. पु.
Here is the line-by-line transcription of the page into Devanagari:
४८८ ताण्ड्यमहाब्राह्मणे
स्पृणोति नैनं वागभिवदति ॥ १६ ॥
अस्मै यजमानाय वज्रेणैव वाचं स्पृणोति प्रीणयति । अत एनं वा-
ङ्नाऽतिवदति । शिष्टं लिङ्गम् ॥ १६ ॥
काः पुनस्ता अनुष्टुभ(१) इति तत्राऽऽह—
“असावि सोम इन्द्र त” इत्येतासु स्तोतव्यम् ॥ १७॥
‘असावि सोमं’ इत्याद्यास्तिस्रोऽनुष्टुभ एतासु गौरीवितेन षो-
डशिसाम्ना स्तोतव्यम् ॥ १७ ॥
अथाऽन्नाद्यकामस्य षोडशिस्तोत्रीया दर्शयति ।
विराट्सुवन्नाद्यकामः षोडशिना स्तुवीत वज्रो वै
षोडशी वैराजमन्नं वज्रेणैवाऽस्मा अन्नंᳵस्पृणोत्यन्नादो
भवति ॥ १८ ॥
विराट्छन्दस्कासु ऋक्षु अन्नाद्यकामः अन्नञ्च तदद्यं अन्
द्वादशाध्याये त्रयोदशः खण्डः । ४८९
प्रतिष्ठाय उत्कृष्टे स्थाने प्रतिष्ठितो भूत्वा ततः प्रजायते पुत्रादिरू-
पेणोत्पद्यते नो नैव च अन्तस्थाषां अन्तर्मध्ये अवस्थितायां प्रजायां जी-
र्यते हीयते अपक्षीयते । ज्यावयोहानार्विति धातुः । य एवमासु विरा-
ट्सु उक्तां प्रतिष्ठां प्रजातिञ्च वेद ॥ २१ ॥
एवं कामनाभेदेन स्तोत्रीयाणां विकल्पा उक्ताः । अथ नित्यप्रयोगे
'इन्द्र जुषस्वे'त्याद्यास्तिस्र ऋचो गौरीवितस्य षोडशिसाम्नस्तोत्रीयाः
कार्या इत्यभिप्रेत्य तद्गतानुपसर्गान्विदधाति—
अथ वा एता एकपदास्त्र्यक्षरा विष्णोश्छन्दो भु-
रिजः शक्कर्य्यः ॥ २२ ॥
'इन्द्रं जुषस्वे'त्याद्यास्तिस्र ऋचः पञ्चपदाः पादाय पञ्चाक्षराः ।
तत्र प्रथमायामृचि प्रथमपादात् ऊर्ध्वं प्रवहेति त्रीण्यक्षराण्याम्नातानि ।
द्वितीयपादात्परमपि हरिहेति अक्षरत्रयमाम्नातम् । तथा तृतीयपादा-
त्परमपि मतिर्भेत्यक्षरित्रतयम् । अविशिष्टौ पञ्चाक्षरौ द्वौ पादौ ।
आदितः पञ्चाक्षरास्त्रयः पादा इति पञ्चाक्षरपादाः पञ्चपादाः
प्रथमाः । तत्राऽऽद्येषु त्रिषु पादेषु प्रवहहरिमतिन्न इत्येता-
स्त्र्यक्षरा एकपदाश्शक्कर्य्य इति च उपसर्गा इति चाऽऽख्यायन्ते
एवमुत्तरयोरपि । तथा च प्रत्यृचं त्रयस्त्रय उपसर्गा इति तृचेन भवन्ति
एतास्तैर्विरहिता 'इन्द्र जुषस्वे'त्याद्याः पञ्चविंशत्यक्षरा गायत्र्यो भव-
न्ति । तैः सहिताश्चतुस्त्रिंशदक्षरा अनुष्टुभो भवन्ति । अत्र निदानकारः
'तस्यैता ऋचः पञ्चविंशत्यक्षरा पञ्चपदाः [पञ्चाक्षरपादाः नवोपसर्गा-
क्षराणि आदितस्त्रयाणां पादानां त्रीणि त्रीण्युपसर्गाक्षराणि पादान्ते
षु भवन्ति । तेऽष्टाक्षरास्सम्पद्यन्ते । पञ्चाक्षरावुत्तरौ दशाक्षरो बैकः ता-
श्चतुस्त्रिंशदक्षरास्सम्पद्यन्त", इत्यादिना इममेवाऽर्थं बहुधा प्रपञ्चितवा-
न्। तत्र या एताः प्रवहाद्या (१)उपसर्गास्ते प्रदर्श्यन्ते अथे इत्यादिना ।
अथेति पक्षान्तरपरिग्रहे 'इन्द्रं जुषस्वे'त्यादीनां तिसृणां आदितस्त्रिभ्यः
पञ्चाक्षरपादेभ्य ऊर्ध्वं यानि प्रवहेत्यादीनि त्रीण्यक्षराणि एतास्त्र्यक्षरा
एकपदा विष्णोश्छन्दसः विष्णुसम्बन्धीनि छन्दांसि भुरिजः शक्कर्य्यः
भुरिजनामिकाः शक्करीविशेषाः ॥ २२ ॥
एतासां शीघ्रफलसाधनत्वमाह—
एताभिर्वा इन्द्रो वृत्रमहन् क्षिप्रं वा एताभिः
पाप्मानं हन्ति क्षिप्रं वसीयान भवति ॥ २३ ॥
१. उपसर्गा इति नाऽस्ति क. ख. पु.
० एताभिः शक्वरीभिः खलु पुरा इन्द्रो वृत्रमसुरं हतवान्। आभिर्वै-
त्रमशकं हन्तुं तच्छक्वरीणां शक्वरीत्वमिति विज्ञायते इति निरुक्तम्।
यस्मादेवं तस्मादेकपदाभिर्भुरिजशक्वरीभिः क्षिप्रं पाप्मानं हन्ति
विनाशयति। क्षिप्रं शीघ्रं वसीयान् वसुमत्तरः श्रेष्ठश्च भवति॥ २३॥
अथैता एकपदाः ‘इन्द्र जुषस्वे’त्याद्याश्च संयुज्य स्तौति—
चतुस्त्रिं॑शदक्षराः सं॑स्तुतो भवति त्रयस्त्रिं॑शद्दे-
वताः॑ प्रजाप॑तिश्चतुस्त्रिं॑शो दे॒वतानां॑ प्रजाप॑तिमे॒वोप॑-
यन्त्यरि॑ष्ट्यै॥ २४॥
प्रत्यृचं प्रषहाद्यास्तिस्रस्तिस्र एकपदाः ताश्च संस्तुताः प्रत्यृचं नव-
नवाक्षराणि सम्पद्यन्ते। पञ्चाक्षरैः पञ्चभिः पादैः पञ्चविंशत्यक्षराणि
सम्पद्यन्ते। ता उभयोर्मिलित्वा प्रत्यृचं चतुस्त्रिंशदक्षरास्संस्तुतः सह
स्तुतः सन्न्रिचतुस्त्रिंशदक्षरात्मकस्समुदायो भवति। तस्याऽऽदितः त्रय-
स्त्रिंशदक्षरैः त्रयस्त्रिंशत्संख्याका देवताः प्राप्नोति-अष्टौ वसवः, एकाद-
शरुद्राः, द्वादशाऽऽदित्याः, इन्द्रश्च वषट्कारश्चेति। त्रयस्त्रिंशदेतासां
देवतानां प्रजापतिश्चतुस्त्रिंशत् संख्यापूरको भवति चतुस्त्रिं-
शेनाऽक्षरेण चतुस्त्रिंशं प्रजापतिमेवोपयन्ति उपगच्छन्ति अरिष्ट्यै
अहिंसायै॥ २४॥
अथोद्गातॄणां षोडशिस्तोत्रसमये हिरण्यधारणं विधत्ते—
हिर॑ण्यꣳ सम्प्र॑दायं॑ षोड॒शिना॑ स्तुवते॒ ज्योति॑-
ष्मानस्य षोड॒शी भ॑वति॥ २५॥
हिरण्यं सुवर्णं सम्प्रदायं अन्योन्यस्मै प्रदाय प्रदाय उद्गातारः
षोडशिसामा स्तुवते। अस्य साम्नः यां यां भक्तिं यो यो ब्रूते स स
हिरण्यं धृत्वा तया भक्त्या स्तुवीतेत्यर्थः। तदुक्तं सूत्रकृता-‘यो यत्सा-
माङ्गं ब्रूयात् स स हिरण्यं धारयेदि’ति। अत्र सम्प्रदायमिति णमुलप्र-
त्ययान्तस्तेन एकमेव हिरण्यं एकैकस्मै गानसमये दातव्यमिति ग-
म्यते। ‘षोडशिसामा स्तोष्यमाण’ इत्यादिना षोडशिस्तोत्राङ्गत्वेन
यदुक्तं सूत्रकारेण तत्सर्वमत्राऽनुसन्धेयम्। स्वस्वभक्तिगानसमये
उद्गातृभिर्हिरण्यस्य धारणादस्य यजमानस्य षोडशी ज्योतिष्मान्
तेजस्वी भवति॥ २५॥
अथैतस्मिन् षोडशिस्तुतिकाले अश्वस्य स्थापनं विधत्ते—
अ॒श्वः कृ॒ष्ण उ॑पतिष्ठति सा॒म्ये॑क्ष्याय भ्रातृ॑व्यलोक-
मे॒व स वि॑धमं॑स्तिष्ठति॥ २६॥
कृष्णः कृष्णवर्णोऽश्वः सदसः पूर्वस्मिन् परस्मिन्वा द्वारे प्रत्यङ्मु-
खः प्राङ्मुखो वा उपतिष्ठति यथा उपस्थितो भवति तथा कुर्यादि-
त्यर्थः । तदुक्तं सूत्रकारेण-'अश्वः कृष्णः पूर्वस्यां सदसो द्वारि प्रत्यङ्-
मुखस्तिष्ठेदिति शाण्डिल्योऽपरस्यां प्राङ्मुख इति धानञ्जय' इति । कि-
मर्थमश्वस्योपस्थानं साम्येक्ष्याय साम्यमीक्षणं साम्येक्ष्यं साम्यदर्शना-
येत्यर्थः । अपि च स उपस्थितोऽश्वः भ्रातृव्यलोकं शत्रुनिवासस्था-
नमेव विधमन् विविधमुखवायुना अपगमयंस्तिष्ठति ॥ २६ ॥
अथ द्विप्रकारोऽयं षोडशी विहृतोऽविहृतश्च । तत्र विहृतस्य 'इन्द्र
जुषस्वे'त्याद्यास्तोत्रीया विहिताः । अविहृते 'त्वं सावि सोम इन्द्र त,
इत्याद्यास्तिस्रोऽनुष्टुभः स्तोत्रीयाः । अथैतासां अनुष्टुभं स्तोतुमाह-
एकाक्षरं वै देवानामवमं छन्द आसित्सप्ताक्षरं प-
रमं नवाक्षरमसुराणामवमं छन्द आसीत् पञ्चदशाक्षरं
परमं देवाश्च वा असुराश्चाऽस्पर्दन्त तान् प्रजापतिरानु-
ष्टुभो भूत्वाऽन्तराऽतिष्ठत्तं देवासुरा व्यह्वयन्त स देवा-
नुपावर्त्तत ततो देवा अभवन् पराऽसुराः ॥ २७ ॥
देवानामवमं न्यूनतमञ्छन्द एकाक्षरं एकमेवाऽक्षरं यस्य तथाविध-
मासीत् । परमं अधिकं छन्दः सप्ताक्षरमासीत् । असुराणान्तु अवमंन-
वाक्षरमासीत् परमं पञ्चदशाक्षरम् । एवं सप्तभिः छन्दोभिस्सहिता देवा-
श्चाऽसुराश्चाऽस्पर्दन्त । तान् स्पर्द्धमानानुभयविधानन्तरा तेषाममध्ये-
प्रजापतिस्तेषां पिता अनुष्टुभः पादो भूत्वा अतिष्ठत् स्थितवान् । सप्ता-
क्षरं हि देवानां परमं छन्दः असुराणाणवाक्षरन्न्यूनं अष्टाक्षरं तूभयसाधा-
रण्येन मध्येऽवस्थितम् । आनुष्टुभः पादश्चाष्टाक्षरः इति तद्रूपो भूत्वा
प्रजापतिर्मध्यस्थोऽभवदित्यर्थः । तं मध्ये स्थितं प्रजापतिं देवाश्चाऽसु-
राश्च व्यह्वयन्त विविधमाह्वयन् । स च देवैरसुरैश्चाऽऽहूयमानः प्रजापतिः
देवानुपावर्त्ततोपागच्छत, नाऽसुरान् । ततोऽनन्तरं देवा अभवन् (१) स-
मृद्धा अभवन् । असुराः पराभवन् पराभूताः पराजिताः आसन् ।
आनुष्टुभेन प्रजापतिना सहायेन देवानामभिवृद्धिर्जातेति अनुष्टुप्स-
मृद्धिहेतुः । अतोऽनुष्टुभस्तोत्रीयाः समृद्धिहेतव इत्यर्थः ॥ २७ ॥
एतद्वेदनं प्रशंसति-
भवत्यात्मना पराऽस्य भ्रातृव्यो भवति य एवं वेद ॥२८॥
१. भूष्णवस्समृद्धा इति. क. ख. पु.
गतमवेत् ॥ २८ ॥
अथ देवैः केन छन्दसा आसुरं छन्दोऽपहृतमिति उभयं विवि-
च्य दर्शयति—
ते देवा असुराणामेकाक्षरेणैव पञ्चदशाक्षरमवृञ्जत
द्व्यक्षरेण चतुर्दशाक्षरं त्र्यक्षरेण त्रयोदशाक्षरञ्चतुरक्षरेण
द्वादशाक्षरं पञ्चाक्षरेणैकादशाक्षरँ षडक्षरेण दशाक्ष-
रँ सप्ताक्षरेण नवाक्षरमष्टाभिरेवाष्टाववृञ्जत ॥ २९ ॥
ते प्रजापतिसहायेन समृद्धा देवाः स्वकीयेनैकाक्षरेणैव छन्दसा
असुराणां पञ्चदशाक्षरं यत्परमं छन्दस्तदवृञ्जत अपावर्जयन् । द्व्यक्षरेणा-
त्मीयेन छन्दसा आसुरं चतुर्दशाक्षरं छन्दोऽवृञ्जत । एवमुत्तरत्रापि
योज्यम् । अष्टाक्षरस्य छन्दसोऽन्तरालवर्त्तित्वेनोभयसाधारणत्वात्
अष्टाभिरेवाऽक्षरैः आसुराण्यष्टाक्षराण्यवृञ्जत ॥ २९ ॥
एतद्वेदनफलमाह—
एवमेव भ्रातृव्याद्भूतिं वृङ्क्ते य एवं वेद ॥ ३० ॥
यथा देवाः स्वकीयैश्छन्दोभिः असुराणाञ्छन्दांसि क्रमेणाऽवर्ज्ज-
यन् एवमेव भ्रातृव्यात् शत्रोः भूतिमैशवर्ध्यं वृङ्क्ते वर्जयति य एवमुक्तं
ब्राह्मणार्थं जानाति ॥ ३० ॥
अथ प्रकारान्तरेण तद्वेदनस्य फलमाह—
अपरुद्धयज्ञ इव वा एष यत् षोडशी कनीयस्विन-
इव वै तर्हि देवा आसन् भूयस्विनोऽसुराः कनीयस्वी
भूयस्विनं भ्रातृव्यं वृङ्क्ते य एवं वेद ॥ ३१ ॥
यत् योऽयं षोडशी नाम यज्ञक्रतुः एषः अपरुद्धयज्ञ इव वै। इवेत्य-
वधारणे । शत्रुभिरवरुध्यमानेन आक्रम्यमाणेन क्रियमाणो यज्ञोऽपरुद्धय-
ज्ञः। तादृश एव खलु । तत्कस्य हेतोः ? तस्मिन् काले असुरैः सह युद्ध-
समये कनीयस्विनः (१)कनीयांसि एकाक्षरादीनि सप्ताक्षरान्तानि छन्दां-
सि आसुरेभ्यश्छन्दोभ्यो (२)न्यूनाक्षरत्वात् अल्पीयांसि तद्वन्तो देवाः
अल्पा एवाऽऽसन्। नवाक्षरादीनि पञ्चदशाक्षरान्तानि छन्दांसि बह्वक्ष-
रत्वात् भूयांसि तद्वन्तो असुरा महान्त आसन् । एवञ्च सति अधिकब-
लैस्तैरुपरुध्यमाना देवाः षोडशिनमाहृत्य (३)तत्रत्येनाऽऽनुष्टुभेन प्रजा-
१. अल्पीयांसीति. क. ख. पु. २. अल्पाक्षरत्वादिति. क. ख. पु.
३. मध्यवर्तिनेति. क. ख. पु.
द्वादशाध्याये त्रयोदशः खण्डः । ४१३
पत्तिना तानधिकानसुरानभ्यभवन् । तस्मादेष षोडशी अवरुद्ध्यङ्ग
इति य एवं वेद जानाति, स वेदिता कनीयस्वी अल्पीयानपि भूयस्वि-
नं अधिकं भ्रातृव्यं शत्रुं वृङ्क्ते वर्जयति ॥ ३१ ॥
अथ यदुक्तं सूत्रकारेण 'हविर्द्धानं गत्वा षोडशिग्रहमवेक्षेतोद्गाता
यस्मादन्य' इति तन्मन्त्रविहितमवेक्षणं विधत्ते—
“यस्मा॒दन्यो॒ न प॒रो ऽस्ति जा॒तो य आ॑ब॒भूव॒ भुव॑-
ना॑नि॒ विश्वा॑। प्र॒जाप॑तिः प्र॒जया॑ सꣳविदा॒नस्त्रीणि॒ ज्यो-
तीꣳ॑षि सचते॒ स षो॒ड॒शी”त्युद्गाता ग्रहमवेक्षते ॥३२॥
यस्मात्प्रजापतेस्सर्वकारणभूतादन्यो व्यतिरिक्तः परो जात उत्पन्नो नाऽ-
स्ति, यश्च विश्वानि सर्वाणि भुवनानि भूतजातानि आबभूव (१)कारणा-
त्मना व्याप्तोऽभूत् । भू प्राप्ताविति धातुः । स प्रजापतिः, प्रजानामीश्वरो
देवः प्रजया आत्मीयया, सामान्याभिप्रायमेकवचनम् । स्वात्मनस्रष्टव्येन
सर्व्वेण(२) कार्य्यजातेन संविदानः ऐकमत्यं गच्छन् त्रीणि ज्योतींषि च-
न्द्रसूर्याग्निरूपाणि, अथवा गार्हपत्यदक्षिणाग्न्याहवनीयात्मकानि ते-
जांसि सचते व्याप्नोति । स एव प्रजापतिः षोडशी षोडशिग्रहा-
त्मना कार्य्यरूपेण वर्त्तत इति मन्त्रार्थः । अनेन मन्त्रेण उद्गाता खरे
आसादितं षोडशिग्रहमवेक्षते ॥ ३२ ॥
एतद्वेदनं प्रशंसति—
ज्योतिष्मानस्य षोडशी भवति य एवं वेद ॥ ३३ ॥
स्पष्टमेतत् ॥ ३३ ॥
अथ पूर्ववदेतस्मिन् स्तोत्रे स्तोमक्लृप्तिं विधाय (३)स्तौति—
एकविंश एव स्तोमो भवति प्रतिष्ठायै प्रतितिष्ठति॥३४॥
पूर्वेषु स्तोत्रेषु यः स्तोमो विहितः स एवैकविंशोऽस्याऽपि स्तो-
त्रस्य स्तोमो भवति प्रतिष्ठायै प्रतिष्ठानार्थम् । अत एतेनैकविंशेन स्तो-
मेन (४)स्तुतेन यजमानः प्रतितिष्ठति ॥ ३४ ॥
१. कारणत्वेनेति. क. पु. २. कर्मजातेनेति. क. पु.
३. प्रस्तौतीति. क. पु. ४. कृतेनेति. क. पु.
४९४ ताण्ड्यमहाब्राह्मणे
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
इति श्रीमहाराजाधिराजपरमेश्वरवैदिकमार्गप्रवर्त्तकश्रीवीरबुक्कभूपाल-
साम्राज्यधुरन्धरेण (१)सायणाचार्येण विरचिते माधवीये सामवेदार्थ-
प्रकाशे ताण्ड्यमहाब्राह्मणे द्वादशाध्यायस्य त्रयोदशः खण्डः ॥
द्वादशाध्यायः समाप्तिमगमत् ॥
१. सायणमात्येनेति क. पु.
सर्वविधपुस्तकप्राप्तिस्थानम्—
जयकृष्णदास-हरिदास गुप्तः-
चौखम्बा संस्कृत सीरीज आफिस,
विद्याविलास प्रेस, बनारस सिटी ।
This page is blank and contains no Vedic text or commentary to transcribe.
Government of India,
DEPARTMENT OF ARCHAEOLOGY,
Frontier Circle Library,
SRINAGAR.
—◇◇—
Accession No. 1259
Class No. 294.1 Book No. —
Ved/say
DATE DUE
Library Slip:
Archaeological Library,
$\underline{\quad 294\cdot 1\quad/\quad 1259 \quad}$
Call No. $Ved \mid Sas$
Author— Sayānāchārya
Title— Tandya Maha [Brahmana]
Book Pocket:
"A book that is shut is but a block"
CENTRAL ARCHAEOLOGICAL LIBRARY
GOVT. OF INDIA
Department of Archaeology
NEW DELHI.
[Seal: SRINAGAR / CIRCLE]
Please help us to keep the book clean and moving.
(Note: This page contains only the modern library slip and pocket card for Sāyaṇa's commentary on the Tāṇḍya Mahābrāhmaṇa; it contains no Vedic Sanskrit text.)
काशी संस्कृत सीरीज़ ग्रन्थमाला
९५ संस्कारदीपकः । म० म० पण्डित श्रीनित्यानन्दपन्त पर्वतीयविरचितः । संपूर्णः ।
(कर्मकाण्ड वि० ८) रु० ८—०
९६ वर्षकृत्यदीपकः । कालनिर्णयव्रतोद्यापनसहितः । म० म० पं० नित्यानन्दपन्त-
पर्वतीय विरचितः । (कर्मकाण्ड वि० ९) रु० ३-८
९७ श्रौतसूत्रम् । श्रीमन्महर्षि-लाट्यायनप्रणीतमग्निष्टोमान्तम् । (कर्म० वि० १०) रु० २—०
९८ नलचम्पूः अथवा दमयन्तीकथा । महाकविश्रीत्रिविक्रमभट्टविरचिता । विषमपद-
प्रकाशाख्यव्याख्यया सहिता । भावबोधिनी टिप्पणी सहिता । (का० वि०१६) रु० १-४
९९ श्रीब्रह्मसूत्रम् । श्रीभगवन्निम्बार्क महामुनीन्द्रविरचित वेदान्तपारिजात सौरभा-
ख्यसूत्रवाक्यार्थेन श्रीश्रीमन्निम्बार्काचार्यचरणप्रणीत श्रीवेदान्तकौस्तुभभाष्येण च
सनाथीकृतम् । ( श्रीनिम्बार्कभाष्यम् ) (वेदान्त वि० १०) रु० ३—०
१०० वाग्वल्लभः ! सर्वथाऽपि नवीनोऽङ्गी प्रौढः परमोपयोगितया नियतमुपादेयतमोऽच्छ-
न्दोनिबन्धः, श्रीमत्ता दैवज्ञाग्रेसरेणागममार्मिकेण कविपुङ्गवेन दुःखभञ्जनविदुषा
विरचितः, तत्सुतेन बहुशास्त्रापारगेण कविचक्रवर्त्तिना महामहोपाध्यायेन देवीप्रसाद-
पण्डितप्रवरेण कृतया वरवर्णिन्त्या टीकयोपस्कृतः । (छन्दः शास्त्र वि० ४) रु० २-८
१०१ सिद्धान्तलक्षणम् । श्रीजगदीशंतर्कालङ्कारकृतम् । न्यायाचार्य श्रीशिवदत्तमिश्र-
विरचित गङ्गाख्यव्याख्या टिप्पणी सहितम् । (न्याय विभागे ४) ) रु० १-८
१०२ वेदभाष्यभूमिकासंग्रहः । (सायणाचार्यविरचितानां ऋग्वेदभाष्यभूमिकानां
संग्रहः) । [वेद० वि० ५] रु० २-८
१०३ माधवीयधातुवृत्तिः । श्रीमत्सायणाचार्यविरचिता । (व्या० वि० १२) रु० ५-०
१०४ बौधायनधर्मसूत्रम् । श्रीगोविन्दस्वामिप्रणीतविवरणसमेतम् । [कर्म०वि० ११] रु० ४-०
१०५ ताण्ड्यमहाब्राह्मणम् । सायणाचार्यविरचितभाष्यसहितम् । (प्रथमोभागः)
(वेद वि० ६) रु० ५-०
१०६ न्यायमञ्जरी । जयन्तभट्टकृता । न्याय-व्याकरणाचार्येण पं० सूर्यनारायणशास्त्रिणा
कृतया टिप्पण्या समेता । द्वितीयोभागः । [न्या० वि० १६] रु० ३-०
१०७ शारदातिलकम् । श्रीमद्राघवभट्टकृतपदार्थादर्शटीकासहितम् ।
(तन्त्रशा० वि० १) रु० ५-०
१०८ मन्त्रार्थदीपिका । म० म० श्रीशत्रुघ्नविरचिता । (वेद० वि० ७) रु० २-०
१०९ शब्दशक्तिप्रकाशिका । श्रीमज्जगदीशंतर्कालङ्कारविनिर्मिता । श्रीकृष्णकान्त-
विद्यावागीशकृतया कृष्णकान्तीटीकया श्रीमद्रामभद्रसिद्धान्तवागीशात्मजरचितया
रामभद्रीटीकया च समलङ्कृता । न्यायाचार्य काव्यतीर्थ पं० ढुंढिराजशास्त्रि-
कृतया छात्रोपयुक्तया विषमस्थलटिप्पण्या मूलकारिकार्थेन च सहिता ।
(न्या० वि० १६) रु० ४-८
११० योगदर्शनम् (पातञ्जलदर्शनम्) भगवत्पतञ्जलिरचितं, राघवानन्दसरस्वतीकृत-
"पातञ्जलहस्येत्याख्य"टिप्पनीयुक्तया द्वादशदर्शनमजनप्रज्ञानेन वाचस्पतिमिश्रवि-
रचितया "तत्त्ववैशारद्या"व्याख्यया भूषितेन विज्ञानभिक्षुनिर्मित"योगवार्त्तिक"-
समुल्लसितेन मधुपुरीयकपिलग्रन्थरत्नमिहिरहरिहरानन्दारण्यकृतभास्वतीवृत्त्या
संवलित भगवच्छ्रीकृष्णद्वैपायनप्रणीतदेवोपज्ञ-"सांख्यप्रवचन" भाष्येनोद्द्योति-
तम्, तदविशेषाेषु श्रीमन्माधवसम्प्रदायाचार्य-दार्शनिकसार्वभौम-साहित्य-
दर्शनारविन्देन्दीवररत्न-न्यायरत्न-गोस्वामिदामोदरशास्त्रिणा विहितया टिप्पन्त्या
"पातञ्जलरहस्यानिकया" भूमिकया च संवलितम्, एतदीयसंशोधनसम्पादन-
कर्मीकृतञ्च । (योगशास्त्रविभागे ३) रु० ५-०
प्राप्तिस्थानम्-चौखम्बा संस्कृत पुस्तकालय, बनारस सिटी