ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
DevanagariSanskritpublished518 पृष्ठ
पृष्ठ 508, कुल 518 में से
संदर्भ में पढ़ेंपृष्ठ 508
Here is the line-by-line transcription of the page into Devanagari:
४८८ ताण्ड्यमहाब्राह्मणे
स्पृणोति नैनं वागभिवदति ॥ १६ ॥
अस्मै यजमानाय वज्रेणैव वाचं स्पृणोति प्रीणयति । अत एनं वा-
ङ्नाऽतिवदति । शिष्टं लिङ्गम् ॥ १६ ॥
काः पुनस्ता अनुष्टुभ(१) इति तत्राऽऽह—
“असावि सोम इन्द्र त” इत्येतासु स्तोतव्यम् ॥ १७॥
‘असावि सोमं’ इत्याद्यास्तिस्रोऽनुष्टुभ एतासु गौरीवितेन षो-
डशिसाम्ना स्तोतव्यम् ॥ १७ ॥
अथाऽन्नाद्यकामस्य षोडशिस्तोत्रीया दर्शयति ।
विराट्सुवन्नाद्यकामः षोडशिना स्तुवीत वज्रो वै
षोडशी वैराजमन्नं वज्रेणैवाऽस्मा अन्नंᳵस्पृणोत्यन्नादो
भवति ॥ १८ ॥
विराट्छन्दस्कासु ऋक्षु अन्नाद्यकामः अन्नञ्च तदद्यं अन्