सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 506, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 506

४८६ ताण्ड्यमहाब्राह्मणे
अथाऽस्य साम्नः ऋषिसम्बन्धप्रदर्शनपुरस्सरमुत्पत्तिं दर्शयन्
स्तौति—
गौरीवितिर्वा एतच्छक्तयो ब्रह्मणोऽतिरिक्तमप-
श्यत्तद्गौरीवितमभवदतिरिक्तं वा एतदतिरिक्तेन स्तुव-
न्ति यद्गौरीवितेन षोडशिनᳵश्वस्तनवान् भवत्यपि प्र-
जाया उपक्लृप्तः ॥ १० ॥
अतिरिक्तं वा एतदित्यन्तं पूर्ववद्व्याख्येयम् : यद्गौरीवितेन साम्ना
षोडशिनं षोडशिस्तोत्रं प्रणयति अतिरिक्तेनाऽधिकेनैव तेन स्तुवन्ति
तस्मादाधिक्यवता साम्ना स्तवनात् श्वस्तनवान् श्वः परस्मिन् दिवसे
भवं श्वस्तनं तद्वान् प्रजायाः पुत्रपौत्रादिरूपायाः उपक्लृप्तः उपक-
ल्पितः उपभोग्यश्च भवति ॥ १० ॥
पूर्वं नानदं साम षोडशिस्तोत्रतया कार्य