ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
DevanagariSanskritpublished518 पृष्ठ
पृष्ठ 502, कुल 518 में से
संदर्भ में पढ़ेंपृष्ठ 502
४८२ ताण्ड्यमहाब्राह्मणे
द्राज्ये। अतोऽद्यतनोऽपि सैन्धुक्षितेन स्तुवन्नवगच्छति प्रतितिष्ठति च ॥
'वयसु त्वामपूर्व्वे'ति द्वितीयस्योक्थस्य विहिते तृचे गेयं साम दर्शयति-
सौभरं भवति बृहतस्तेजः ॥ ७ ॥
'बृहतो वा इन्द्रो वृत्राय वज्रं प्राहरत्तस्य तेजः परापतत् तत् सौभ-
रमभवदि'ति ब्राह्मणात् सौभरं साम बृहतस्साम्नस्तेजः। एतदस्मिन्
'वयमुत्वामि'ति तृचे कार्य्यम् ॥ ७ ॥
अथैतत् स्तौति--
पन्नमिव वै चतुर्थमहस्तदेतेन बृहतस्तेजसोत्त-
भ्नोति सौभरेण ॥ ८ ॥
पन्नं अधस्तात् पतितमिव खल्वेतत् चतुर्थमहरतीतेष्वहःसु(१)
बृहतीष्वेतत्पृष्ठस्तोत्रं क्रियते। बृहती च षट्त्रिंशदक्षरा। अस्मिन्नहनि
ततोन्यूना