सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 507, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 507

द्वादशाध्याये त्रयोदशः खण्डः। ४८७
ष्टुभि नानदं कृत्वा गौरीवितेन षोडशिना स्तुतेऽञ्जसा
श्रियमुपैति न श्रिया अवपद्यते ॥ १२ ॥
एष वै एष खलु विशालं विस्तृतं विवृद्धया उपचितया भूत्या ऐ-
श्वर्येण अभिदधाति यो यजमानः अनुष्टुभि आनुष्टुभे तृचे नानदं
साम कृत्वा गौरीवितेन षोडशिना षोडशिसाम्ना स्तुते तदनन्तरमञ्ज-
साऽऽर्जवेन श्रियमुपगच्छति । न च तया श्रिया वियुज्यते ॥ १२ ॥
इत्थं सामद्वयं व्यवस्थाप्य षोडशिसाम्ना स्तोत्रीयाः कामना-
भेदेन विविधाः प्रदर्शयन्नेकं पक्षमाह—
शक्वरीषु षोडशिना स्तुवीत यः कामयेत वज्री
स्यामिति ॥ १३ ॥
षट्पञ्चाशदक्षरा ऋचः शक्वर्य्यः । शक्वरीषु षोडशिना षोडशि-
साम्ना स्तुवीत । यो यजमानः वज्री स्याम् (१)वज्रवान् वीर्य्यवान्
भवेयमिति स शक्वरीषु षोडशिना स्तुवीत ॥ १३ ॥
तदेतदुपपादयति—
वज्रो वै षोडशी वज्रः शक्वर्यो वज्रेणैवाऽस्मै वज्रꣳ
स्पृणोति वज्री भवति ॥ १४ ॥
षोडशिनः शक्वरीणाञ्च वज्रवद्वृत्रहननसाधनत्वाद्बज्रत्वम् । अत्र
च शक्वरीषु षोडशिसाम्ना स्तवनात् वज्रेण वज्रात्मकेनैव षोडशिना
शक्वर्य्याख्यं वज्रं अस्मै यजमानाय स्पृणोति बलयति संयोजयति त-
र्पयति वा । स्पृप्रीतिबलयोरिति धातुः । स च यजमानो वज्री वज्रवान्
भवति ॥ १४ ॥
अथ फलान्तराय स्तोत्रीयान्तरं विधत्ते—
अनुष्टुप्सु षोडशिना स्तुवीत यः कामयेत न मा
वागातिवदेत् ॥ १५ ॥
अनुष्टुप्सु अनुष्टुप्छन्दस्कासु ऋक्षु षोडशिसाम्ना स्तुवीत मा मां
वाक् परैः प्रयुज्यमानं वाक्यं नाऽतिवदेत् अतिक्रम्य न ब्रूयादिति यो
यजमानः कामयेत, सोऽनुष्टुप्सु षोडशिना स्तुवीत ॥ १५ ॥
अथैतदुपपादयति—
वज्रो वै षोडशी वागनुष्टुब्बज्रेणैवाऽस्मै वाचꣳ
१. वज्रवानिव भवेयमिति. क. ख. पु.