सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 510, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 510

० एताभिः शक्वरीभिः खलु पुरा इन्द्रो वृत्रमसुरं हतवान्। आभिर्वै-
त्रमशकं हन्तुं तच्छक्वरीणां शक्वरीत्वमिति विज्ञायते इति निरुक्तम्।
यस्मादेवं तस्मादेकपदाभिर्भुरिजशक्वरीभिः क्षिप्रं पाप्मानं हन्ति
विनाशयति। क्षिप्रं शीघ्रं वसीयान् वसुमत्तरः श्रेष्ठश्च भवति॥ २३॥
अथैता एकपदाः ‘इन्द्र जुषस्वे’त्याद्याश्च संयुज्य स्तौति—
चतुस्त्रिं॑शदक्षराः सं॑स्तुतो भवति त्रयस्त्रिं॑शद्दे-
वताः॑ प्रजाप॑तिश्चतुस्त्रिं॑शो दे॒वतानां॑ प्रजाप॑तिमे॒वोप॑-
यन्त्यरि॑ष्ट्यै॥ २४॥
प्रत्यृचं प्रषहाद्यास्तिस्रस्तिस्र एकपदाः ताश्च संस्तुताः प्रत्यृचं नव-
नवाक्षराणि सम्पद्यन्ते। पञ्चाक्षरैः पञ्चभिः पादैः पञ्चविंशत्यक्षराणि
सम्पद्यन्ते। ता उभयोर्मिलित्वा प्रत्यृचं चतुस्त्रिंशदक्षरास्संस्तुतः सह
स्तुतः सन्न्रिचतुस्त्रिंशदक्षरात्मकस्समुदायो भवति। तस्याऽऽदितः त्रय-
स्त्रिंशदक्षरैः त्रयस्त्रिंशत्संख्याका देवताः प्राप्नोति-अष्टौ वसवः, एकाद-
शरुद्राः, द्वादशाऽऽदित्याः, इन्द्रश्च वषट्कारश्चेति। त्रयस्त्रिंशदेतासां
देवतानां प्रजापतिश्चतुस्त्रिंशत् संख्यापूरको भवति चतुस्त्रिं-
शेनाऽक्षरेण चतुस्त्रिंशं प्रजापतिमेवोपयन्ति उपगच्छन्ति अरिष्ट्यै
अहिंसायै॥ २४॥
अथोद्गातॄणां षोडशिस्तोत्रसमये हिरण्यधारणं विधत्ते—
हिर॑ण्यꣳ सम्प्र॑दायं॑ षोड॒शिना॑ स्तुवते॒ ज्योति॑-
ष्मानस्य षोड॒शी भ॑वति॥ २५॥
हिरण्यं सुवर्णं सम्प्रदायं अन्योन्यस्मै प्रदाय प्रदाय उद्गातारः
षोडशिसामा स्तुवते। अस्य साम्नः यां यां भक्तिं यो यो ब्रूते स स
हिरण्यं धृत्वा तया भक्त्या स्तुवीतेत्यर्थः। तदुक्तं सूत्रकृता-‘यो यत्सा-
माङ्गं ब्रूयात् स स हिरण्यं धारयेदि’ति। अत्र सम्प्रदायमिति णमुलप्र-
त्ययान्तस्तेन एकमेव हिरण्यं एकैकस्मै गानसमये दातव्यमिति ग-
म्यते। ‘षोडशिसामा स्तोष्यमाण’ इत्यादिना षोडशिस्तोत्राङ्गत्वेन
यदुक्तं सूत्रकारेण तत्सर्वमत्राऽनुसन्धेयम्। स्वस्वभक्तिगानसमये
उद्गातृभिर्हिरण्यस्य धारणादस्य यजमानस्य षोडशी ज्योतिष्मान्
तेजस्वी भवति॥ २५॥
अथैतस्मिन् षोडशिस्तुतिकाले अश्वस्य स्थापनं विधत्ते—
अ॒श्वः कृ॒ष्ण उ॑पतिष्ठति सा॒म्ये॑क्ष्याय भ्रातृ॑व्यलोक-
मे॒व स वि॑धमं॑स्तिष्ठति॥ २६॥