ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 511, कुल 518 में से
संदर्भ में पढ़ेंकृष्णः कृष्णवर्णोऽश्वः सदसः पूर्वस्मिन् परस्मिन्वा द्वारे प्रत्यङ्मु-
खः प्राङ्मुखो वा उपतिष्ठति यथा उपस्थितो भवति तथा कुर्यादि-
त्यर्थः । तदुक्तं सूत्रकारेण-'अश्वः कृष्णः पूर्वस्यां सदसो द्वारि प्रत्यङ्-
मुखस्तिष्ठेदिति शाण्डिल्योऽपरस्यां प्राङ्मुख इति धानञ्जय' इति । कि-
मर्थमश्वस्योपस्थानं साम्येक्ष्याय साम्यमीक्षणं साम्येक्ष्यं साम्यदर्शना-
येत्यर्थः । अपि च स उपस्थितोऽश्वः भ्रातृव्यलोकं शत्रुनिवासस्था-
नमेव विधमन् विविधमुखवायुना अपगमयंस्तिष्ठति ॥ २६ ॥
अथ द्विप्रकारोऽयं षोडशी विहृतोऽविहृतश्च । तत्र विहृतस्य 'इन्द्र
जुषस्वे'त्याद्यास्तोत्रीया विहिताः । अविहृते 'त्वं सावि सोम इन्द्र त,
इत्याद्यास्तिस्रोऽनुष्टुभः स्तोत्रीयाः । अथैतासां अनुष्टुभं स्तोतुमाह-
एकाक्षरं वै देवानामवमं छन्द आसित्सप्ताक्षरं प-
रमं नवाक्षरमसुराणामवमं छन्द आसीत् पञ्चदशाक्षरं
परमं देवाश्च वा असुराश्चाऽस्पर्दन्त तान् प्रजापतिरानु-
ष्टुभो भूत्वाऽन्तराऽतिष्ठत्तं देवासुरा व्यह्वयन्त स देवा-
नुपावर्त्तत ततो देवा अभवन् पराऽसुराः ॥ २७ ॥
देवानामवमं न्यूनतमञ्छन्द एकाक्षरं एकमेवाऽक्षरं यस्य तथाविध-
मासीत् । परमं अधिकं छन्दः सप्ताक्षरमासीत् । असुराणान्तु अवमंन-
वाक्षरमासीत् परमं पञ्चदशाक्षरम् । एवं सप्तभिः छन्दोभिस्सहिता देवा-
श्चाऽसुराश्चाऽस्पर्दन्त । तान् स्पर्द्धमानानुभयविधानन्तरा तेषाममध्ये-
प्रजापतिस्तेषां पिता अनुष्टुभः पादो भूत्वा अतिष्ठत् स्थितवान् । सप्ता-
क्षरं हि देवानां परमं छन्दः असुराणाणवाक्षरन्न्यूनं अष्टाक्षरं तूभयसाधा-
रण्येन मध्येऽवस्थितम् । आनुष्टुभः पादश्चाष्टाक्षरः इति तद्रूपो भूत्वा
प्रजापतिर्मध्यस्थोऽभवदित्यर्थः । तं मध्ये स्थितं प्रजापतिं देवाश्चाऽसु-
राश्च व्यह्वयन्त विविधमाह्वयन् । स च देवैरसुरैश्चाऽऽहूयमानः प्रजापतिः
देवानुपावर्त्ततोपागच्छत, नाऽसुरान् । ततोऽनन्तरं देवा अभवन् (१) स-
मृद्धा अभवन् । असुराः पराभवन् पराभूताः पराजिताः आसन् ।
आनुष्टुभेन प्रजापतिना सहायेन देवानामभिवृद्धिर्जातेति अनुष्टुप्स-
मृद्धिहेतुः । अतोऽनुष्टुभस्तोत्रीयाः समृद्धिहेतव इत्यर्थः ॥ २७ ॥
एतद्वेदनं प्रशंसति-
भवत्यात्मना पराऽस्य भ्रातृव्यो भवति य एवं वेद ॥२८॥
१. भूष्णवस्समृद्धा इति. क. ख. पु.