ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 505, कुल 518 में से
संदर्भ में पढ़ेंस्तृणुत अवधीत् ॥ ५ ॥
एतद्वेदनफलमाह—
स्तृणुते तं यं तुस्तूर्षते य एवं वेद ॥ ६ ॥
यं शत्रुं तुस्तूर्षते हिंसितुमिच्छति तं स्तृणुते हिनस्ति स पुरु-
षः य एवं पूर्वोक्तमर्थं वेद जानाति ॥ ६ ॥
किन्तत इत्याह—
तस्माद्धरिवतीषु स्तुवन्ति हरिवतीः शंसन्ति हरि-
वतीषु ग्रहो गृह्यते हरो ह्यस्मै निम्माय प्रायच्छत् ॥ ७ ॥
यस्मादिन्द्रो हरसा प्रजापतिदत्तेन वृत्रमवधीत् तस्मात् कारणात्
हरिवतीषु हरिशब्दयुक्तासु एकदेशविकृतमनन्यवद्भवतीति न्यायेन
हरिशब्देन हरश्शब्दः प्रत्यभिज्ञायते । अत एतासु हरिवतीषु 'असावि
सोम इन्द्र' इत्याद्यासु नानदेन षोडशिसाम्ना स्तुवन्तीत्येतत्पक्षान्तरम्।
तथा हरिवतीः हरिशब्दयुक्ता एव ये होतारः शंसन्ति तथा हरिवतीषु
चक्षुरादिशत्रुहननमित्याद्यास्त्वृक्षु पठ्यमानासु अध्वर्युणा ग्रहः षोड-
श्याख्यो गृह्यते । तस्मादिन्द्राय हरो हि हरशब्दवाच्यं खलु तेजो नि-
र्म्माय पुरा प्रजापतिः प्रायच्छत् दत्तवान् ॥ ७ ॥
सप्तानां होत्राणां हरो निम्माय प्रायच्छदिति यदुक्तं तस्योपपादकं
लिङ्गं अस्मिन् षोडशिस्तोत्रे दर्शयति—
एकविंशायतनो वा एष यत् षोडशी सप्त हि प्रा-
तस्सवने होत्रा वषट्कुर्व्वन्ति सप्त माध्यन्दिने सवने
सप्त तृतीयसवने ॥ ८ ॥
यत् यष्षोडशी एषः एकविंशायतनो वा एकविंशस्तोमस्याऽऽयत-
नभूत आश्रयभूतः । तत् कुतो हेतोः ? प्रातस्सवने सप्तसंख्याकाः होत्राः
होतृमैत्रावरुणादयः ऋत्विजो वषट्कुर्व्वन्ति प्रस्थितयाज्याद्याभिर्वष-
ट्कृत्य यजन्ते । तथोत्तरयोस्सवनयोरपीत्येकविंशतिसंख्या होत्रा भ-
वन्ति । हि यस्मादेवं तस्मात् षोडशिन एकविंशायतनत्वम् ॥ ८ ॥
इत्थं बृहन्नानदाख्यं(१) सामद्वयं विकल्पेन षोडशिसाम कर्त्तव्यमि-
त्युक्तम्, अथ स्वाभिमतं पक्षान्तरं दर्शयति—
गौरीवितं भवति ॥ ९ ॥
गौरीवितं साम 'इन्द्रं जुषस्व प्रवहे'ति तृचे षोडशिसाम कार्य्यम् । ह।
१. सामद्वितयमिति. क. ख. पु.