सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 512, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 512

गतमवेत् ॥ २८ ॥
अथ देवैः केन छन्दसा आसुरं छन्दोऽपहृतमिति उभयं विवि-
च्य दर्शयति—
ते देवा असुराणामेकाक्षरेणैव पञ्चदशाक्षरमवृञ्जत
द्व्यक्षरेण चतुर्दशाक्षरं त्र्यक्षरेण त्रयोदशाक्षरञ्चतुरक्षरेण
द्वादशाक्षरं पञ्चाक्षरेणैकादशाक्षरँ षडक्षरेण दशाक्ष-
रँ सप्ताक्षरेण नवाक्षरमष्टाभिरेवाष्टाववृञ्जत ॥ २९ ॥
ते प्रजापतिसहायेन समृद्धा देवाः स्वकीयेनैकाक्षरेणैव छन्दसा
असुराणां पञ्चदशाक्षरं यत्परमं छन्दस्तदवृञ्जत अपावर्जयन् । द्व्यक्षरेणा-
त्मीयेन छन्दसा आसुरं चतुर्दशाक्षरं छन्दोऽवृञ्जत । एवमुत्तरत्रापि
योज्यम् । अष्टाक्षरस्य छन्दसोऽन्तरालवर्त्तित्वेनोभयसाधारणत्वात्
अष्टाभिरेवाऽक्षरैः आसुराण्यष्टाक्षराण्यवृञ्जत ॥ २९ ॥
एतद्वेदनफलमाह—
एवमेव भ्रातृव्याद्भूतिं वृङ्क्ते य एवं वेद ॥ ३० ॥
यथा देवाः स्वकीयैश्छन्दोभिः असुराणाञ्छन्दांसि क्रमेणाऽवर्ज्ज-
यन् एवमेव भ्रातृव्यात् शत्रोः भूतिमैशवर्ध्यं वृङ्क्ते वर्जयति य एवमुक्तं
ब्राह्मणार्थं जानाति ॥ ३० ॥
अथ प्रकारान्तरेण तद्वेदनस्य फलमाह—
अपरुद्धयज्ञ इव वा एष यत् षोडशी कनीयस्विन-
इव वै तर्हि देवा आसन् भूयस्विनोऽसुराः कनीयस्वी
भूयस्विनं भ्रातृव्यं वृङ्क्ते य एवं वेद ॥ ३१ ॥
यत् योऽयं षोडशी नाम यज्ञक्रतुः एषः अपरुद्धयज्ञ इव वै। इवेत्य-
वधारणे । शत्रुभिरवरुध्यमानेन आक्रम्यमाणेन क्रियमाणो यज्ञोऽपरुद्धय-
ज्ञः। तादृश एव खलु । तत्कस्य हेतोः ? तस्मिन् काले असुरैः सह युद्ध-
समये कनीयस्विनः (१)कनीयांसि एकाक्षरादीनि सप्ताक्षरान्तानि छन्दां-
सि आसुरेभ्यश्छन्दोभ्यो (२)न्यूनाक्षरत्वात् अल्पीयांसि तद्वन्तो देवाः
अल्पा एवाऽऽसन्। नवाक्षरादीनि पञ्चदशाक्षरान्तानि छन्दांसि बह्वक्ष-
रत्वात् भूयांसि तद्वन्तो असुरा महान्त आसन् । एवञ्च सति अधिकब-
लैस्तैरुपरुध्यमाना देवाः षोडशिनमाहृत्य (३)तत्रत्येनाऽऽनुष्टुभेन प्रजा-
१. अल्पीयांसीति. क. ख. पु. २. अल्पाक्षरत्वादिति. क. ख. पु.
३. मध्यवर्तिनेति. क. ख. पु.