ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 504, कुल 518 में से
संदर्भ में पढ़ेंकाः पुनस्ताः द्विपदा इत्यत आह—
“उप॑ नो॒ हरि॑भिः सु॒त”मित्ये॒ता वै गा॑य॒त्र्यो द्वि-
प॒दा ए॒तासु स्तोत॑व्यम् ॥ ३ ॥
“उप नो हरिभिः सुत”मित्याद्याः उत्तराग्रन्थे समाम्नाताः । एता एव
गायत्र्यो द्विपदाः। यद्यपि तास्त्रिपदा गायत्र्यः तथाप्यु‘प नो हरिभिः सु-
त’मिति प्रथमपाद एव तृतीयपादात्मना पुनः पुनरभ्यस्यते इति तासां
द्विपदात्वम् । एतासु द्विपदासु बृहता साम्ना स्तोतव्यमित्येकः पक्षः॥३॥
अथ पक्षान्तरं विधित्सुः सामान्तरस्योत्पत्तिमाह—
इन्द्रः॑ प्रजाप॑तिमुपाधावद्वृ॒त्रꣳ हनानीति॒ तस्मा॑
ए॒ताम॑नु॒ष्टुभ॑मपहरसं प्रायच्छत्तया नाऽस्तृणुत॒ यद॒स्तृ-
ता व्य॑नदत्तन्नानदस्य नानद॒त्वम् ॥ ४ ॥
इन्द्रः पुरा वृत्रं असुरं हन्तुं स्वयं(१) अशक्तस्सन् प्रजापतिं स्रष्टारं
(२)स्वपितरमुपाधावदुपागच्छत् । किं कुर्व्वन् ? वृत्रमसुरमहं हनानि हन-
नसमर्थो भवामि यथाऽहं हन्तुं शक्ष्यामि तथा मां कुर्व्विति ब्रुवन् । तस्मा
उपगतायेन्द्राय अपहरसं अपगतहरसं(३) तेजःप्रतिपादकेन हरशब्देन
विधुरामेतां प्रत्यस्मा इत्यादिकमनुष्टुभमृचं प्रायच्छत् प्रादात्-अनया
वृत्रं जहीति । तत इन्द्रस्तां तस्मिन् वृत्रे प्राक्षिपत् । तया स नाऽस्तृणुत
नाऽहिंस्यत । स्तृहिंसायामिति धातुः। स चाऽस्तृतोऽहिंसतः सन् यत्
व्यनदत् विशेषेण शब्दमकरोत् तन्नानदं सामाऽभवत् । यस्मादेवं नद-
नाज्जातं तत्तस्मान्नानदस्य साम्नो नानदत्वं नानदमिति नाम सम्पन्नम्॥४॥
इत्थं पक्षान्तरोपयुक्तं साम प्रदर्श्य अथ (४)तस्याऽऽधारभूताः स्तो-
त्रीया ऋचो विवक्षुराह—
तं पुन॑रुपाधावत्तस्मै॑ स॒प्तानाꣳ होत्रा॑णाꣳ हरो
निर्म्मा॑य॒ प्राय॑च्छत् तमस्तृणुत ॥ ५ ॥
तं प्रजापतिमिन्द्रः पुनरुपाधावत् उपागच्छत् त्वद्दत्तयाऽनुष्टुभा
नाऽसौ वृत्रो हत इति ब्रुवन् । ततस्तस्मै इन्द्राय प्रजापतिः सप्तानां हो-
त्राणां होतृमैत्रावरुणादयः सप्त वषट्कर्त्तारः तेषामार्त्विज्यनि होत्राश-
ब्देनोच्यन्ते सप्तसंख्यानां होतृमैत्रावरुणादिसम्बद्धानां कर्म्मणां हरस्ते-
जो निर्म्मायोत्पाद्य एकीकृत्य प्रायच्छत् । ततस्तेन हरसा तं वृत्रम-
१. अपराद्धस्सन्निति. ग. पु. २. स्वामिनमिति. क. पु.
३. कामः तेजप्रतिपादकेनेति. क. पु, ४. तत्साधनभूता इति. क. ख. पु.