तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
७१० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[प्रपा० १० अनु० १]
भूर्भुवः सुवरोमिति त्रीणि पदान्यव्ययानि । तानि च व्यस्तरूपेण समस्तरूपेण च
मन्त्रचतुष्टयरूपतां प्रा¹तिपद्याग्न्यादिदेवताप्रतिपादकानि । तथा सत्ययमर्थः संपद्यते ।
भूरित्यनेन मन्त्रेण प्रतिपाद्यायाग्नये तन्मन्त्रप्रतिपाद्यायै² पृथिव्यै³ च स्वाहा सुहुतमिदं
द्रव्यमस्त्विति । एवमुत्तरेष्वपि त्रिषु मन्त्रेषु योज्यम् । अत्र द्रव्यविशेषस्यानुक्तत्वात्स-
र्वहोमसाधारणमाज्यमेव द्रव्यमित्यवगन्तव्यम् । फलविशेषस्यानुक्तत्वात्पापक्षयोऽत्र
साधारणं फलं द्रष्टव्यम् । चतुर्भिर्मन्त्रैर्यथाशक्ति हुत्वाऽन्ते प्राङ्मुखो नमो देवेभ्य
इति मन्त्रेणोपतिष्ठेत । पश्चाद्दक्षिणाभिमुखः स्वधा पितृभ्य इति मन्त्रेणोपतिष्ठेत ।
स्वधाशब्दः पितृप्रियं नमस्काराद्युपचारं ब्रूते । भूर्भुवः सुवरिति लोकत्रयेऽपि पापर-
हितो भवामि । ओमित्ययं शब्दोऽङ्गीकारवाचित्वात्तत्र तत्रोचितार्थाङ्गीकारं प्रतिपाद-
यति । नारायणाख्येनेश्वरेण मुनिना वा दृष्टत्वादयं प्रपाठको नारायणीयः ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारश्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषदि द्वितीयोऽनुवाकः ॥ २ ॥
अथ तृतीयोऽनुवाकः ।
अन्नसमृद्धिकामस्य तेष्वेव मन्त्रेषु पाठान्तरमाह—
भूरन्न॑म॒ग्नये॑ पृथि॒व्यै स्वाहा॒ भुवोऽन्नं॑ वा॒यवे॒ऽन्तरि॑क्षाय
स्वाहा॒ सुव॒रन्न॑मादि॒त्याय॑ दि॒वे स्वाहा॒ भूर्भुवः॒
सुव॒रन्नं॑ च॒न्द्रम॑से दि॒ग्भ्यः स्वाहा॒ नमो॑ दे॒वेभ्यः॒
स्व॒धा पि॒तृभ्यो॒ भूर्भुवः॒ सुव॒रन्न॒मोम्, इति॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
तृतीयोऽनुवाकः ॥ ३ ॥
अन्नद्रव्यं स्वाहुतमस्तु । समृद्धमन्नमहं प्राप्नोमीत्येतावानेव विशेषः ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारश्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषदि तृतीयोऽनुवाकः ॥ ३ ॥
१ ख. ॰पद्य रतां । २ ग. क. ॰तिपाद्या॰ । ३ ग. ॰द्याम्॰ ।
[प्रपा० १० अनु० ४-५] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७११
अथ चतुर्थोऽनुवाकः ।
पूजाकामस्य पुनरप्यन्यपाठमाह—
भूर॒ग्नये॑ च पृथि॒व्यै च॑ म॒हते॑ च॒ स्वाहा॒ भुवो॑ वा॒यवे॑
चान्तरि॑क्षाय च म॒हते॑ च॒ स्वाहा॒ सुव॑रादि॒त्याय॑ च
दि॒वे च॑ म॒हते॑ च॒ स्वाहा॒ भूर्भुवः॒ सुव॑श्च॒न्द्रम॑से च
नक्ष॑त्रेभ्यश्च दि॒ग्भ्यश्च॑ म॒हते॑ च॒ स्वाहा॒ नमो॑ दे॒वेभ्यः॑
स्व॒धा पि॒तृभ्यो॒ भूर्भुवः॒ सुव॑र्मह॒रोम्, इति॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोप-
निषदि चतुर्थोऽनुवाकः ॥ ४ ॥
महते प्रौढाय पूज्याय वा हिरण्यगर्भाय । चकारैस्तत्तद्देवतानां सेवका देवाः परिगृ-
ह्यन्ते । तेभ्योऽपि स्वाहुतमित्युक्तं भवति । महरों पूजां प्राप्नवानि ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषदि चतुर्थोऽनुवाकः ॥ ४ ॥
अथ पञ्चमोऽनुवाकः ।
पूर्वत्र भूरग्नय इत्यनुवाके सर्वसाधारणाः पापक्षयार्था होममन्त्रा उक्ताः । अथ
प्रतिबन्धनिवारणेन मुमुक्षोर्ज्ञानप्राप्त्यर्था होममन्त्रा उच्यन्ते—
पा॒हि नो॑ अग्न॒ एन॑से॒ स्वाहा॑ । पा॒हि नो॑ विश्ववे॑दसे॒ स्वाहा॑ ।
य॒ज्ञं पा॑हि विभावसो॒ स्वाहा॑ । सर्वं॑ पाहि शतक्रंतो॒ स्वाहा॑, इति॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
पञ्चमोऽनुवाकः ॥ ५ ॥
हेऽग्ने नोऽस्मानेनसो ज्ञानप्रतिबन्धकात्पापात्पाहि रक्ष । तुभ्यमिदं स्वा[हा]
मस्तु नोऽस्माकं विश्ववेदसे कृत्स्नतत्त्वज्ञानसिद्धयर्थं पाहि तत्साधनसंपादनेन
त्राय । तदर्थं तुभ्यमिदं स्वा[हा]हुतमस्तु । विशेषेण भानं दीप्तिर्विभा सैव वसु धनं
यस्याग्नेः सोऽयं विभावसुः । हे विभावसो यज्ञं विविदिषाहेतुत्वेनास्माभिरनुष्ठीयमानं
पाहि निर्विघ्नेन समाप्तिं नीत्वा पालय । शतसंख्याकाः क्रतवो येनाग्निना निष्पाद्यन्ते
सोऽयं शतक्रतुः । हे शतक्रतो सर्वं ज्ञानसाधनं गुरुशास्त्रादिकं पाहि ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषदि पञ्चमोऽनुवाकः ॥ ५ ॥
अथ षष्ठोऽनुवाकः ।
अथ ज्ञानप्रतिपादककृत्स्नवेदान्तप्राप्तिकामेन जप्यं मन्त्रमाह—
यश्छन्द॑सामृष॒भो वि॒श्वरू॑प॒श्छन्दो॑भ्य॒श्छन्दां॑ꣳ-
स्यावि॒वेश॑ । सतांꣳ॑ शिक्य॑ः प्रोवा॒चोप॑निष॒दिन्द्रो॑
ज्येष्ठ॒ इन्द्री॑याय॒ ऋषि॑भ्यो॒ नमो॑ दे॒वेभ्य॑ः
स्व॒धा पि॒तृभ्यो॒ भूर्भुव॒ः सुव॒रोम्, इति॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
षष्ठोऽनुवाकः ॥ ६ ॥
यः प्रणवश्छन्दसां वेदानां मध्यं ऋषभः श्रेष्ठः, विश्वरूपः सर्वजगदात्मकः, एत-
द्वेदसारत्वं विश्वरूपत्वं च सांहित्यामुपनिषदि प्रपञ्चितम् । तादृशः प्रणवश्छन्दोभ्यो
वेदेभ्यः प्रादुर्भूत इति शेषः । वेदसारत्वेन प्रजापतेः प्रत्यभादित्यर्थः । स पुनश्छन्दांसि
गायत्र्यादीन्याविवेश । छन्दोभिरुपलक्षितेषु मन्त्रेषु प्रयोक्तव्यः । तथाच प्रपञ्चसारेऽभि-
हितम्—“अस्य तु वेदादित्वात्सर्वमनूनां प्रयुज्यते ह्यादौ” इति । तेन प्रणवेन प्रतिपाद्य
इन्द्रः परमैश्वर्ययुक्तः परमात्मोपनिषत्प्रोवाचोपनिषदं ब्रह्मविद्यां सर्ववेदान्तसिद्धामुक्त-
वान् । कीदृश इन्द्रः । सतां शिक्यः सद्भिः कर्मानुष्ठायिभिरुपासकैर्ज्ञानिभिश्च प्राप्तुं
शक्यः, ज्येष्ठः कारणत्वेन सर्वस्मात्प्रथमः । किमर्थं विद्यामुक्तवानित्युच्यते—
ऋषिभ्य ऋषीणामन्तर्मुखानां जिज्ञासूनामिन्द्रियाय ज्ञानसामर्थ्यार्थम् । अतोऽहं तत्व-
तिबन्धनिवारणाय देवेभ्यः पितृभ्यश्च नमस्करोमि । भूर्भुवः सुवरोँ लोकत्रयाव-
१ झ. संचार । २ ख. झ. ‘कः पुरोवा’ । ३ ग. झ. ‘यश्छन्द ओम् । ४ क.
ङ. ०न्वेदान्तो० । ख. ०न्तात्म० । ५ ख. ‘निति तद्वक्ष्यं’ । ६ ग. झ. ‘र्थाय । अ’ ।
[प्रपा० १० अनु० ७-८] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७१३
स्थितान्प्राप्नोमि । देवा(वेदा)निति शेषः । एतदेवाभिप्रेत्य केचिद्भूभुवः सुवश्छन्द
ओमिति पठन्ति ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषदि षष्ठोऽनुवाकः ॥ ६ ॥
अथ सप्तमोऽनुवाकः ।
अथ लब्धानां वेदानांमविस्मरणाय जप्यं मन्त्रमाह—
नमो॒ ब्रह्म॑णे धार॒णं मे॑ अस्त्वनि॑राकरणं धारयि॑ता
भूया॑सं॒ कर्णयोः॑ श्रु॒तं मा च्योढुं॒ ममा॒मुष्य॒ ओम्, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
सप्तमोऽनुवाकः ॥ ७ ॥
ब्रह्मणे जगत्कारणाय नमोऽस्तु¹ तत्प्रसादान्मदीये चित्ते ग्रन्थतदर्थयोर्धारणमस्तु ।
[ अनिराकरणं ] निराकरणं विस्मरणं यथा न भवति तथा धारयिता भूयासम्।
अमुष्येत्यर्थं प्रार्थयमानस्य मम कर्णयोर्यत्किंचिद्वेदशास्त्रादिकं यदा कदाचिदपि श्रुतमा-
सीत्तत्सर्वं हे देवा² मा च्योढुं मा विनाश्यैत³ । ततोऽहर्मों प्राप्नुयां स्थिरं धारणमिति शेषः ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या-
मुपनिषदि सप्तमोऽनुवाकः ॥ ७ ॥
अथाष्टमोऽनुवाकः ।
अथ ज्ञानसाधनं यत्तपश्चित्तैकाग्र्यमस्ति “मनसश्चेन्द्रियाणां च ह्येकाग्र्यं परमं तपः”
इति श्रुतेः⁴ । तत्तपः श्रौतस्मार्तसर्वकर्मस्वरूपतया प्रशंसति । यद्वा तथाविधतपःसिद्ध्यर्थं
जप्यं मन्त्रमाह—
ऋ॒तं तपः॑ स॒त्यं तपः॑ श्रु॒तं तपः॑ शा॒न्तं तपो॑⁵ दा॒नं
१ ख. झ. ॰स्तु । त्वत्प्र॰ । २ ग. झ. देव । ३ ग. झ. ॰य । ततोऽ॰ । ४ झ. स्मृतेः । ५ ग.
झ. ॰पो दमस्तपः शमस्तपो दा॰ ।
७१४ श्रीमन्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० १०अनु०९]
तपो य॒ज्ञं तपो भूर्भुवः॒ सुव॒र्ब्रह्मै॒तदुपा॑३्स्वै॒तत्तपः॑, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिष-
द्यष्टमोऽनुवाकः ॥ ८ ॥
ऋतं मनसा यथार्थवस्तुचिन्तनम् । सत्यं वाचा यथार्थभाषणम् । श्रुतं वेदस्य
पूर्वोत्तरभागार्थावबोधयोर्मीमांसयोः श्रवणम् । शान्तं शान्तिर्बाह्येन्द्रियाभ्यन्तरेन्द्रियो-
परतिः । दानं धनेषु स्वत्वनिवृत्तिः परस्वत्वापादनपर्यन्ता । यज्ञोऽग्निहोत्रादिः । तदे-
तत्सर्वमर्वाचीनं तपः । भूरादिलोकत्रयात्मकं विराड्देहरूपं यद्ब्रह्मास्ति हे मुमुक्षो एतद्ब्र-
ह्मोपा३्स्व विजातीयप्रत्ययरहितं सजातीयप्रत्ययप्रवाहं कुरु । तदेतदुपासनमुत्तमं तपः।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषद्यष्टमोऽनुवाकः ॥ ८ ॥
अथ नवमोऽनुवाकः ।
अथ विहितानुष्ठानरूपं पुण्यं ज्ञानसाधनतया प्रशंसति । निषिद्धाचरणं ज्ञानप्रति-
बन्धकतया निन्दति—
यथा॑ वृ॒क्षस्य॑ संपु॒ष्पि॒तस्य॑ दू॒राद्गन्धो वा॑त्ये॒वं पुण्य॑स्य
कर्म॑णो दू॒राद्गन्धो वा॑ति यथा॑ऽसिधा॒रां क॒र्तेऽव॑हि-
तामव॑क्रामेद्यद्यु॒वे ह॒वे ह वा॑ वि॒ह्व॑यिष्यामि क॒र्तं
प॑तिष्यामीत्ये॒वम॑मृ॒तादा॒त्मानं॑ जुगुप्से॒त, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
नवमोऽनुवाकः ॥ ९ ॥
लोके यथा वृक्षस्योद्यानादौ स्थितस्य चम्पकपाटलकेतकीपुंनागादेः संपुष्पितस्य
सम्यग्विकसितपुष्पोपेतस्य यो गन्धः सुरभिरस्ति सोऽयं दूराद्देशाद्वाति वायुना
सहाऽऽगच्छति एवं पुण्यकर्मणो ज्योतिष्टोमादेः सत्कीर्तिः सुगन्धसमाना दूरा-
द्द्वाति मनुष्यलोकात्स्वर्गे गच्छति । तस्मात्पुण्यमनुष्ठेयम् । अथ पापस्य दृष्टान्त
उच्यते— यथा लोके राजामात्यादीनां विनोदाय प्रवृत्तो वंशाग्रवृत्तादिदुर्घटव्यापारे-
ष्वात्यन्तकुशलमनाः कश्चित्कर्ते कूपादावगाधे कस्मिंश्चिद्गर्तविशेषेऽवहितां प्रसारिताम-
१ ख. झ. यज्ञस्तपो । २ ग. 'पास्स्वैत° । ३ ख. 'पास्य वि° । ४ ग. °णरूपं तु
ज्ञा° । ५ ख. झ यवे । ६ झ 'ह्वयिष्या' । ७ ख. °ममृता° ।
[प्रपा० १० अनु० १०] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७८५
सिधारां खड्गधारामवक्रामेत्पादाभ्यां धाराया उपरि गन्तुं प्रवर्तते । तदानीमसौ मन-
स्येवं विचारयति । यद्यदि युवे हुवे हकारो व्यत्ययेन यकारस्थाने पठितः । अत एव
केचिद्यूवे युव इति पठन्ति । यौमि यौमि पुनः पुनः पादमसिधारया मिश्रयामीत्यर्थः ।
तर्हाऽहं विह्वलिष्यामि कतै वा पतिष्यामि । अहमित्येतमर्थ हशब्दो ब्रूते । लका-
रस्थाने व्यत्ययेन दैकार । असिधारायां पादस्य दृढस्पर्शे पादच्छेदनाहं विह्वलतो
विवशो भविष्यामि दृढस्पर्शाभावे त्वधोवर्तिन्यगाधे गर्ते पतिष्यामीति । एवं पापे वर्त-
मानः पुरुषो विचारयेत् । यद्यहं पापं प्रकटं कुर्यां तदानीमिह लोके निन्दितो भवि-
ष्यामि तत्परिहारायाप्रकटं कुर्यां तदाऽपि नरके पतिष्यामीति । ईदृग्विचारयुक्तः पुरु-
षोऽनृतात्पापादात्मानं जुगुप्सेद्धिद्यां लोकद्वयभ्रंशहेतुरिमिति निन्दित्वा पापान्निवर्तयेत् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञि-
क्यामुपनिषदि नवमोऽनुवाकः ॥ ९ ॥
*इति प्रथमखण्डः समाप्तः ।
अथ दशमोऽनुवाकः ।
————
यथोक्तप्रशंसोपेतपुण्यानुष्ठानेन निषिद्धाचरणवर्जितेन शुद्धान्तःकरणस्य पुरुषस्य
तत्त्वमुपदेष्टुमयमद्यनुवाक आरभ्यते । तत्र प्रथमामृचमाह—
अ॒णोरणी॑यान्म॒हतो मही॑याना॒त्मा गुहा॑यां॒ निहि॑तोऽस्य ज॒न्तोः ।
तम॑क्रतुं पश्यति वीतशोको धातुः प्र॒सादा॑न्महि॒मान॑मीशम् , इति ॥
सच्चिदानन्दैकरसः परमेश्वरः सर्वाधिष्ठानत्वेन सर्वस्य जगतः स्वरूपत्वादात्मश-
ब्देनोच्यते । आत्मशब्दश्च स्वरूपवाचीति प्रसिद्धम् । मायाकार्यभूते लौकिकव्यवहारे
सूक्ष्मत्वेन प्रसिद्धः परमाणुद्व्यणुकादिरणुशब्दवाच्यः । तस्मादप्ययमात्माऽतिशयेन॑
सूक्ष्मत्वादणीयान् । आकाशादिगादयः परिमाणाधिक्यत्वाल्लोके महच्छब्दवाच्याः ।
ततोऽप्ययमात्माऽतिशयेनाधिकत्वान्महीयान् । परमाणुद्व्यणुकादीनामस्मदादिप्रत्यक्ष-
गम्यत्वाभावेऽपि योगिजनचक्षुर्गम्यत्वमस्ति तदप्यात्मनो नास्तीत्यभिप्रेत्याणीयस्त्व-
- ख. पुस्तके नास्त्येतत् ।
१ ग. झ. ॰दानीमं । २ झ. यकारः । ३ ग. यदि पां । ४ ख. ॰मि । अथ तं ।
५ ग. ॰धिप्रन्वे' । ६ ख 'ावद्यग' । ७ ग. ॰न सर्वस॑ ।
मुक्तम्। आकाशादिगादीनामेकब्रह्माण्डवर्तित्वात्तादृशब्रह्माण्डलक्षकोट्याधिष्ठानत्वमभिप्रेत्य
महीयस्त्वमुक्तम् । तादृशः परमात्माऽस्य देवमनुष्यादिरूपस्य जन्तोर्गुहायां निहितः।
गुहाशब्देन हृदयपुण्डरीकमध्यवर्तिनी बुद्धिरुच्यते । गुहू संवरण इत्यस्माद्धातोत्पन्नो
गुहाशब्दः । बुद्धिश्च हृदयपुण्डरीकेण संवृता तन्मध्यवर्तित्वात् । तस्यां बुद्धावस्य पर-
मात्मनो निहितत्वं नाम विद्ययोपलभ्यमानत्वं न तु बुद्धावाधेयत्वम् । सर्वजगदाधारस्य
तदसंभवात् । तं तथाऽवस्थितमीशं शमादिगुणयुक्तोऽधिकारी पुरुषः पश्यति साक्षा-
त्करोति । स चाधिकारो धातुः प्रसादादुपजायते । धाता जन्तो विधाता परमेश्वरः,
तस्य प्रमादोऽनुग्रहः ।
तथा च पूर्वाचार्यैरुक्तम्—
“ ईश्वरानुग्रहादेषां पुंसामद्वैतवासना ।
महाभयकृतत्राणा द्वित्राणामेव जायते ” इति ।
कीदृशमीशम् । अक्रतुं संकल्परहितम् । रूपयपानादिभोगजातं समीचीनमिति
संकल्पनं जीवस्यैव न त्वीशस्य । संकल्पहेतुभूतान्तःकरणोपाधेरभावात् । अतो
निरुपाधिकत्वान्महिमानमतिशयेन महान्तम् । ईदृशं परमेश्वरं साक्षात्कृत्य वीत-
शोको जन्ममरणादिशोकरहितो भवति ।
द्वितीयामृचमाह—
स॒प्त प्रा॒णाः प्र॒भव॑न्ति॒ तस्मा॑त्स॒प्तार्चिषः॑ स॒मिधः॑ स॒प्त जि॒ह्वाः ।
स॒प्त इ॒मे लो॒का येषु॑ चर॑न्ति प्रा॒णा गु॒हाश॑या॒न्निहि॑ताः स॒प्त स॒प्त, इति॑ ॥
शुद्धान्तःकरणैर्ज्ञातव्यो यः परमात्माक्तस्तस्य शाखाचन्द्रन्यायेनोपलक्षणार्थं जगत्का-
रणत्वमुच्यते । तस्मात्परमात्मनो मायाशक्तिविशिष्टात्सप्त प्राणा भवन्ति।
अन्यत्र—“सप्त वै शीर्षण्याः प्राणाः” इत्युक्तत्वात्, शिरोवर्तिसप्तच्छिद्रगताः सप्तसंख्या-
काश्चक्षुरादयः प्राणाः परमेश्वरादुत्पद्यन्ते । द्वे चक्षुषी द्वे श्रोत्रे द्वे नासिके वागेकेति सप्त-
त्वम् । तेषां चक्षुरादीनां स्वस्वविषयप्रकाशनशक्तयः स॒प्तार्चिषः॑ । तैरर्चिर्भिर्गृह्यमाणत्वेन
सप्तसंख्याका विषयाः समिधः । विषयैर्हीन्द्रियाणि समिध्यन्ते प्रकाशयुक्तानि क्रियन्ते।
यथैकस्यापि चक्षुरिन्द्रियस्य गोलकभेदेन द्वित्वं तथा रूपस्याप्येकस्य वामदक्षिणरूप-
ग्राहकचक्षुर्वृत्तिभेदाद्वित्वं द्रष्टव्यम् । एवं शब्दगन्धयोर्द्वित्वे सति विषयाः सप्त संप-
द्यन्ते । अथवा समिच्छब्देन सप्तसंख्या न संबध्यते किंतु जिह्वाशब्देन । अग्निजिह्वानां
च सप्तत्वमाथर्वणिकैराम्नातम्—
१ ख. ण्डमध्ये व° । २ ग. र्तिनीत्या° । ३ ख. शमदमादि° । ४ ख. ग. °त्राणां यदि
ऽथ ... ०° ... प्रेक्षमिति ।
(the स is cut off at the left margin).
Line 26:
ध्ये ऋषिरुतत्तन्गोत्रप्रवर्तको वसिष्ठादिरूपो बभूव । मृगाणां चतुष्पदां मध्ये शक्त्या-
Wait, line 25 ends with: ब्राह्मणानां
Line 26 starts with: ध्ये -> [म]ध्ये!
Then: ऋषिस्तत्तद्गोत्रप्रवर्तको
Wait, let's look at ऋषिस्तत्तद्गोत्रप्रवर्तको:
ऋषिस्तत्तद्गोत्रप्रवर्तको or ऋषिस्तत्तत्गोत्र? It's ऋषिस्तत्तद्गोत्रप्रवर्तको.
Line 27:
धिक्येन युक्तो महिषो बभूव । गृध्रोपलक्षितानां सर्वेषां पक्षिणां मध्ये प्रबलः श्येनो
Wait, line 26 ends with: शक्त्या-
Line 27 starts with: धिक्येन ([अ]धिक्येन -> शक्त्याधिक्येन).
Line 28:
भूव । वनानां वृक्षसमूहरूपाणां मध्ये छेदनार्थः स्वधितिः परशुर्बभूव । यागहेतुभू-
Wait, line 27 ends with: श्येनो
७१८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० १० अनु० १०]
तन्नल्यात्मकः सोमो भूत्वा रेभःमन्त्रशब्दयुक्तः सन्पवित्रं शुद्धिकारणं गङ्गाजलकुशद-
र्भादिद्रव्यजातं सर्वमत्येति ।
पञ्चमीमृचमाह—
अ॒जामेकां लोहि॑तशुक्लकृष्णां ब॒ह्वीं प्र॒जां ज॒नय॑न्तीꣳ सरू॑पाम् ।
अ॒जो ह्येको॑ जु॒षमा॑णोऽनु॒शेते॒ जहा॑त्येनां भु॒क्तभो॑गाम॒जोऽन्यः॑, इति ॥
व्यवहारदशायां परमेश्वरस्य चतुर्मुखब्रह्मादिशरीरेषु विशेषेणावस्थानमभिधाय यथो-
क्तजगत्सृष्टेर्मूलकारणभूतां मायाशक्तिमुपजीव्य बुद्धमुक्तपुरुषव्यवस्था प्रदर्श्यते । न
जायत इत्यजा मूलप्रकृतिरूपा माया । न ह्यनादेस्तस्या जन्म संभवति । सा च मायैका,
इतरस्य सर्वस्य जगतस्तत्कार्यत्वात् । यदाऽसौ तेजोबन्नानि त्रीणि॑ भूतान्युत्पाद्य तद्रू-
पाऽवतिष्ठते तदानीं लोहितशुक्लकृष्णवर्णरूपेता भवति । तथा च च्छन्दोगा आमनन्ति-
“यदग्ने रोहितꣳ रूपं तेजस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य” इति । अन्नश-
ब्देनात्र पृथिव्युपलक्ष्यते । रजःसत्त्वतमोगुणा वा लोहितादिशब्दैरुपलक्ष्यन्ते । गुणत्रया-
त्मिका मायेत्युक्तं भवति । सा च देवतिर्यङ्मनुष्यादिरूपां गुणत्रयात्मकत्वेन सरूपां
बहुविधां प्रजां जनयति । न जायत इत्यजो जीवः, तस्यापि मायावदनादित्वादुत्पत्ति-
र्नास्ति। तादृशो जीवो द्विविधः—आसक्तो विरक्तश्चेति। तयोर्मध्य एक आसक्तो योऽजो
जीवः पूर्वोक्तामजां मायां जुषमाणः प्रीतिपूर्वकं सेवमानोऽनुशेते तदनुसार्येव वर्तते ।
विषयानेव भुञ्जानो विवेकरहितो जन्ममरणप्रवाहरूपेण संचरतीत्यर्थः । अन्योऽजो
विरक्तो जीवो भुक्तभोगामेनां मायां जहाति परित्यजति । विरक्तेः प्रागेव भोगाननु-
भूत्वा(गा भुक्ता) न तूपरिष्टाद्भोगैर्बाध्यन्ते तादृशैर्भोगैर्युक्ता माया भुक्तभोगा तां मायां
तत्त्वविवेकेन बाधत इत्यर्थः ।
षष्ठीमृचमाह—
हꣳसः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् ।
नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत्, इति ॥
यः पुमान्विवेकेन मायां परित्यजति तस्य सर्वमपि जगद्ब्रह्मरूपेणावभासत इत्य-
यमन्त्रो(त्रा)र्थः प्रदर्श्यते । तदर्थमादौ जगदनूद्यते हन्ति सर्वदा गच्छतीति हंस
आदित्यः । स च शुचौ शुद्धे मण्डले ज्योतिर्मये सीदतीति शुचिषत्, सूत्रात्मरूपेण
१ ख झ. णि रूपाण्युल्या° । २ झ. ॰न्ते । सा गु° । ३ ग. ॰यात्मिकं । ४ ख. ग.
जनयन्ती । ५ ग. ॰रणं प्र° । ६ झ. संसर° । ७ झ. ॰क्ष्यन्ते ता° । ८ झ. बाधितामित्य° ।
--------------------------------------------- । १० ख. प्रविश्यते ।
[प्रपा० १० अनु० १०] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७१९
जगन्निवासहेतुत्वात् । वसुर्वायुः, तद्रूपः सन्नन्तरिक्षे सीदतीत्यन्तरिक्षसत् । होमनि-
ष्पादक आहवनीयाद्यग्निर्होता तद्रूपेण सोमयागाद्यङ्गभूतायां वेद्यां सीदतीति वेदिषत् ।
अमावास्यादितिथिविशेषमनपेक्ष्य भोजनयाच्ञार्थं तत्र तत्र गच्छन्पुरुषो वैदेशिकोऽतिथिः,
तद्रूपेण दुरोणेषु गृहेषु परकीयेषु सीदतीति दुरोणसत् । नृषु मनुष्येषु कर्माधिकारिजी-
वरूपेण सीदतीति नृषत् । वरे श्रेष्ठे क्षेत्रे काशीद्वारावत्यादौ पूजनीयदेवरूपेण सीदतीति
वरसत् । ऋते सत्ये वैदिके कर्मणि फलरूपेण सीदतीति ऋतसत् । व्योम्न्याकाशे
नक्षत्रादिरूपेण सीदतीति व्योमसत् । अद्भ्यो नदीसमुद्रादिगताभ्यः शङ्खमकरा-
दिरूपेण जायत इत्यब्जाः । गोभ्यः क्षीरादिरूपेण जायत इति गोजाः । ऋतं
सत्यवचनं तस्मात्कीर्तिरूपेण जायत इति ऋतजाः । अद्रिभ्यः पर्वतेभ्यो वृक्षादिरूपेण
जायत इत्याद्रिजाः । हंस इत्यारभ्याद्रिजा इत्यन्तेनोक्तं यज्जगदस्ति तज्जगद्गतं सत्यं
बृहद्ब्रह्म, अज्ञानिदृष्ट्या जगद्रूपेण भासमानं सर्वं ज्ञानिदृष्ट्या ब्रह्मैवेत्यर्थः ।
सप्तमीमृचमाह—
*यस्मा॒ज्जाता न परा॒ नैव किंच॒नाऽऽस॒ य आ॑वि॒वेश॒ भुव॑नानि॒ विश्वा॑ ।
प्र॒जाप॑तिः प्र॒जया॑ संविदा॒नस्त्रीणि॒ ज्योतीं॑षि सचते॒ स षो॒डशी, इति ॥
हंसादेः सर्वस्य जगतो ब्रह्मरूपत्वं यदुक्तं तदत्र प्रतिपाद्यते । ब्रह्मव्यतिरिक्तं वस्तु
किंचिदस्तीति वदन्वादी प्रष्टव्यः । किमचेतनं जगद्ब्रह्मव्यतिरिक्तमाहोस्विच्चेतनो जीवः ।
अचेतनत्वपक्षेऽपि किं सृष्टेरूर्ध्वभावि वस्तु ब्रह्मव्यतिरिक्तमुत पूर्वभावि । न तावदू-
र्ध्वभाविनो व्यतिरिक्तत्वमित्युच्यते । जाता सृष्टेरूर्ध्वमुत्पन्ना प्रजा यस्मात्परमेश्व-
रात्परा व्यतिरिक्ता न भवति । नापि पूर्वभाविनो व्यतिरिक्तत्वमित्युच्यते सृष्टेः पूर्वं
किंचन किमपि ब्रह्मव्यतिरिक्तं वस्तु नैवाऽऽस । “एकमेवाद्वितीयम्” इति श्रुत्य-
न्तरात् । नापि चेतनस्य जीवस्य ब्रह्मव्यतिरिक्तत्वमित्युच्यते । यः परमेश्वरो
विश्वा भुवनानि सर्वलोकवर्तीनि शरीराण्याविवेश जीवरूपेण प्राविशत् । “अनेन
जीवेनाऽऽत्मनाऽनुप्रविश्य” इति श्रुत्यन्तरात् । स प्रजापतिः प्रजापालकः परमे-
श्वरः प्रजया स्वस्मादुत्पन्नया देवातिर्यगादिरूपया संविदानः संसर्गं तादात्म्यं लभ-
मानो वर्तते । स परमेश्वरस्त्रीणि ज्योतींष्यग्न्यादित्यचन्द्ररूपाणि सचते सम-
वैति तादात्म्यसंबन्धं प्राप्नोति । कीदृशः परमेश्वरः । षोडशी प्रश्नोपनिषत्प्रोक्तषो-
डशकलॉपेतः । तत्र हि प्राणश्रद्धादिकं कृत्स्नमपि जगत्षोडशावयवरूपं परमात्मा
- एतदर्धमनिश्चितस्वरकम् ।
१ ख. ग. ॰द्वारव॰ । २ ख. ॰संगता॰ ।
७२० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० १० अनु० १०]
ससर्जेति श्रुतम् । तथा सति मृद्धटन्यायेन कार्यकारणयोरव्यतिरेकात्षोडशकलारूपेण
जगता सह तादात्म्यसंबन्धादयं षोडशीत्युच्यते ।
अष्टमीमृचमाह —
*विधा॒तारँ॑ हवामहे॒ वसो॑ः कु॒विद्वना॑ति नः ।
+स॒वि॒तारं॑ नृ॒चक्ष॑सम्, इति ॥
यथोक्तब्रह्मतत्त्वज्ञानलाभाय परमेश्वरप्रार्थनारूपाः केचिन्मन्त्रा इत आरभ्योच्यन्ते ।
वसोर्धनस्य ब्रह्मज्ञानरूपस्य विधातारं विशेषेण संपादयितारं परमेश्वरं हवामहेऽ
स्मदनुग्रहार्थमाह्वयामः । नोऽस्माकं तादृशानां कुवित्प्रभूतं तत्त्वज्ञानरूपं धनं वनाति
संभजते स परमेश्वरो ददातीत्यर्थः । कीदृशं विधातारम् । सवितारमस्मद्बुद्धेः प्रेर-
कम् । नृचक्षसं नॄणां मनुष्याणामधिकारिणामाचार्यरूपेण तत्त्वविद्याप्रवक्तारम् ।
नवमीमृचमाह—
अ॒द्या नो॑ देव सवितः प्र॒जाव॑त्सावीः॒ सौभ॑गम् ।
परा॑ दु॒ष्वप्न्यं॑ सुव , इति ॥
हे सवितः प्रेरक देवाद्यास्मिन्दिने नोऽस्माकं विद्यार्थिनां प्रजावच्छिष्यप्रशिष्या-
दिप्रजोपेतं सौभगमाचार्यरूपं भाग्यं सावीः प्रेरय प्रयच्छेत्यर्थः । दुष्ष्वप्निं
दुष्टस्वप्नसदृशं द्वैतप्रतिभासं परासुव निराकुरु ।
दशमीमृचमाह—
विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑सुव ।
यद्भ॒द्रं तन्म॒ आसु॑व , इति ।
हे सवितः प्रेरक देव दुरितानि ज्ञानप्रतिबन्धकानि पापानि विश्वानि सर्वाणि
परासुव पराकुरु । भद्रं कल्याणमसंभावनाविपरीतभावनारहितं तत्त्वज्ञानं यदस्ति
तन्मे मह्यमुपासकायाऽऽसुव साकल्येन प्रयच्छ ।
एकादशीमृचमाह —
मध्यु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः ।
माध्वी॑र्नः स॒न्त्वोष॑धीः, इति ॥
ऋतायत ऋतं परं ब्रह्म तदिच्छते मह्यं वाता वायवो मधु माधुर्योपलक्षितं सु-
- एतत्पदद्वयमनिश्श्रितस्वरकम् । × एतत्पदद्वयमनिश्श्रितस्वरकम् ।
१ ग ॰सर्ज वे’ इति श्रुत्यन्तरात् । तं॰ । २ क. विधातारँ॑ । ३ ग. विधातारं । ४ ।
०. – – – तर्विद्वनात्यस्गये गच्छेत् ।
अष्टम से दशम प्रपाठक (ब्रह्मविद्या, महानारायणोपनिषद् व उपसंहार)
[प्रपा० १० अनु० १-८] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७२१
यथा भवति तथा॑ वान्त्विति॑ शेषः । प्रबले तु वायौ रोगोत्पत्त्या॑त्तत्त्वज्ञानविघ्नः² संपद्येते ।
अतः स मा भूदिति वायोरानुकूल्यं प्रार्थ्यते । एवमुत्तरत्रापि तत्तदानुकूल्यं द्रष्टव्यम् ।
सिन्धवो नद्यो मधु क्षरन्ति मधुरमारोग्यकरमुदकं संपादयन्त्वित्यर्थः । ओषधीर्व्रीहि-
यवादयोऽपि नोऽस्माकं॑ मध्वी॑र्मधुराः प⁴थ्यरूपाः सन्तु ।
द्वादशीमृचमाह—
मधु॒ नक्त॑मु॒तोषसि॒ मधु॑म॒त्पार्थि॑व॒ꣳ रज॑: ।
मधु॒ द्यौर॑स्तु नः पि॒ता , इति ॥
नक्तं रात्रावृतावपि चोषसि प्रभाते दिवसेऽपि विद्यार्थिनो मधु मधुरमनुकूलं सुख-
मस्तु कालकृतोऽपि विघ्नो मा भूदित्यर्थः । पार्थिवं रजः पृथिव्यामवस्थितं शयनादि-
स्थानगतं रजोऽपि मधुमन्माधुर्योपेतं कण्टकपाषाणादिरहित्येनानुकूलमस्तु । नोऽस्माकं
पिता पितृसदृशी द्यौरपि मध्वस्तु, अतिवृष्ट्यादिप्रातिकूल्यरहिताऽस्तु । “ द्यौः पिता
पृथिवी माता ” इति मन्त्रान्तराद्दिवः पितृत्वम् ।
त्रयोदशीमृचमाह—
मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माꣳ अस्तु॒ सूर्य॑: ।
माध्वी॒र्गावो॑ भवन्तु नः, इति ॥
वनस्पतिश्चूतपनसादिर्नोऽस्मान्प्रति मधुमान्मधुरफलोपेतो जीवनहेतुरस्तु ।
सूर्योऽपि प्रभूतं संतापमकृत्वा मधुमान्माधुर्येणानुकूलप्रकाशनेन युक्तोऽस्तु । गावोऽपि
नोऽस्मान्प्रति माध्वीर्जीवनहेतुमधुरक्षीरोपेता भवन्तु ।
चतुर्दशीमृचमाह—
घृ॒तं मि॑मिक्षिरे घृ॒तम॑स्य॒ योनि॑र्घृ॒ते श्रि॒तो घृ॒तमु॑वस्य॒ धाम॑ ।
अ॒नु॒स्व॒धमाव॑ह मा॒दय॑स्व॒ स्वाहा॑कृतं वृषभ वक्षि ह॒व्यम्, इति ॥
भोग्यजातस्य ज्ञानयोग्य⁵देहानुकूल्यं प्रार्थ्य ज्ञानसाधनयागादिकर्महेतोरग्नेरानुकूल्यं प्रार्थ्य-
यते । पूर्वे यजमाना अग्नावाहवनीयादिरूपे घृतं मिमिक्षिरे सिक्तवन्तः । मिह सेचन
इति धातुः । तद्घृतमस्याग्नेर्योनिरुत्पत्तिकारणम् । घृतेन ज्वालाभिवृद्धिदर्शनात् ।
अतोऽयमग्निर्घृते श्रितो घृतमाश्रित्यावस्थितः । घृतमेवास्याग्नेर्धाम स्थानं तेजोहेतुर्वा ।
हेऽग्नेऽनुष्वधं⁶ स्वधामन्वस्मदीयं हविःस्वरूपमनुसृत्याऽऽवह देवानत्राऽऽनय । आनीय
१ ख. 'था भवन्तिव' । २ ख. 'विघ्न' । ३ ख. 'दन्ते । अ' । ४ ख. सुपथ्यरू' ।
५ ख. 'योग्यं दे' । ६ ख. 'तमु वा' ।
Wait, let's count characters fromउ: Char 1: उChar 2:दाChar 3:र॑Char 4:दुChar 5:पाँ॒? No, wait! Is Char 4 दु? Wait! Look at Char 4: It has: top bar, vertical down, loop... that's दु! Char 5: it's पा? Wait! Look at Char 4 and 5: Wait, could Char 4 be दुand Char 5 beपा? Wait, what did I think was ऽ? Let's look at the two ऽ: Wait! मधु॑माँ॒ऽ-> wait, is thatऽ? Look at line 4: स॒मु॒द्रादू॒र्मिर्मधु॑माँ॒Then: a character that looks likeऽ` with an anudatta under it?
No!
Wait, look at the Sanskrit mantra in Rigveda:
समु॒द्रादू॒र्मिर्मधु॑माँ॒ उदा॑रत्
In Taittiriya Aranyaka 10.10.1:
What is the exact text of TA 10.10.1?
Let's search memory for:
"समुद्रादूर्मिर्मधुमाँ उदरदुपांशुना" OR "उदार
[प्रपा० १० अनु० १०] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७२३
गौरवम् । वृषभरूपत्वं च संहितोपनिषद्याम्नातम्—" यश्छन्दसामृषभो विश्वरूपः "
इति । एवमनेन प्रतिपादनमुपलक्ष्यते ।
सप्तदशीमृचमाह—
च॒त्वारि॒ शृङ्गा॒ त्रयो॑ अस्य॒ पादा॒ द्वे शीर्षे स॒प्त हस्ता॑सो अस्य ।
त्रि॒धा ब॒द्धो वृ॑ष॒भो रो॑रवीति म॒हो दे॒वो मर्त्याँ२ आवि॑वेश, इति ॥
शृङ्गा प्रणवस्य यान्यकारादीनि शृङ्गाणि तानि चत्वारि । अस्य प्रणवप्रतिपाद्य-
त्वेन प्रणवरूपस्य ब्रह्मणस्त्रयः पादाः, पद्यते गम्यते ब्रह्मतत्त्वमेभिरिति पादाः । अध्यात्मं
विश्वतैजसप्राज्ञाः । अधिदैवं विराड्ढिरण्यगर्भाव्याकृतानि । द्वे शीर्षे उत्तमाङ्गस्थानीये
चिदचिद्रूपे द्वे शक्ती । तथैवास्य ब्रह्मणो भूरादयः सप्त लोका हस्तासो हस्तस्थानीयाः ।
त्रिधा बद्धोऽकारोकारमकारेषु विश्वतैजसप्राज्ञैर्विराड्ढिरण्यगर्भाव्याकृतैश्च त्रिप्रकारेण
संबद्धो वृषभः प्रणवो महस्तेजोरूपं ब्रह्मतत्त्वं रोरवीति, अतिशयेन प्रतिपादयति ।
तदेव प्रतिपाद्यं स्पष्टी क्रियते—देवः परमेश्वरो मर्त्यान्मनुष्यदेहानाविवेश सर्वतः प्रविष्टः
"स एष इह प्रविष्ट आ नखाग्रेभ्यः " इति श्रुत्यन्तरात् ।
अष्टादशीमृचमाह —
त्रि॒धा हि॒तं प॒णिभि॑र्गुह्यमा॑नं॒ गवि॑ दे॒वासो॑ घृ॒तमन्व॑विन्दन् ।
इन्द्र॒ एकं॒ सूर्य॒ एकं॑ जजान वे॒नादेकं॑ स्व॒धया॒ निष्ट॑तक्षुः, इति ॥
त्रिधा हितं शरीरे विश्वतैजसप्राज्ञाख्येन त्रिप्रकारेण ब्रह्माण्डे विराड्ढिरण्यगर्भा-
व्याकृताख्येन च त्रिः( त्रि )प्रकारेणावस्थितं घृतं दीप्तं स्वप्रकाशं ब्रह्मतत्त्वं देवासो
देववत्सात्त्विका अन्तर्मुखाः पुरुषा गवि वाचि तत्त्वमस्यादिवेदरूपायामन्वविन्दन्न-
नुक्रमेण लब्धवन्तः । कीदृशं घृतम् । पणिभिर्गुह्यमानम् । पण व्यवहारे स्तुतौ
चेति धातुः । पणिभिः स्तोतृभिरुपदेष्टृभिराचार्यैः परमरहस्यत्वेन गोप्यमानम् । त्रिधा
हितमित्येतदेव विविच्यते । इन्द्रः परमैश्वर्ययुक्तो विराट्पुरुष एकं जागरणंरूपं
जजानोत्पादितवान् । सूर्यशब्दस्तेजस्वित्वेन हिरण्यगर्भमुपलक्षयति । स च हिरण्य-
गर्भ एकं स्वप्नरूपं जजान ! वेने(वे?)ति धातुः कान्तिकर्मा । वेनात्सर्वदुःख-
राहित्येन कमनीयादव्याकृतादेकं सुषुप्तरूपं निष्पन्नमिति शेषः । स्वस्मिन्नेव धीयतेऽव-
स्थाप्यत इत्याश्रयान्तररहिता ब्रह्मरूपा चित्स्वधाशब्देनोच्यते "स भगवः कस्मिन्प्र-
१ ख. ०नि । ... ना० । २ ग घ ०दैवतं वि० । ३ ग. ०श्च त्रिःप्र० । ४ झ. त्रिभिः प्र० ।
तिष्ठित इति स्वे महिम्नि ” इति श्रुत्यन्तरात् । तथा स्वधया अन्नरूपेण पित्र्या
पूर्वोक्ता इन्द्रसूर्येनेना निष्टृतक्षुर्जागरणादिकं निष्पादितवन्तः । एताभ्यां द्वाभ्यामृग्भ्यां
प्रणवतत्प्रतिपाद्यार्थौ प्रपञ्चितौ ।
एकोनविंशीमृचमाह—
यो दे॒वानां॑ प्रथ॒मं पु॒रस्ता॒द्विश्वा॑धि॒को रु॒द्रो म॑ह॒र्षिः ।
हिर॑ण्यग॒र्भं प॑श्यत॒ जाय॑मान॒ꣳ स नो॑ दे॒वः शु॒भया॒ स्मृत्या॒ संयु॑नक्तु , इति ॥
यो देवो हिरण्यगर्भं पश्यत साक्षात्करोति । कीदृशं हिरण्यगर्भम् । देवानां
प्रथममग्नीन्द्रादीनां मध्य आदिभूतम् । पुरस्ताज्जायमानमग्नीन्द्राद्युत्पत्तेः पूर्वमेवो-
त्पद्यमानम् । अनेन प्राथम्यं स्पष्टीकृतम् । कीदृशो देवः । विश्वाधिको विश्वस्य
जगतः कारणत्वेन तस्मादधिकः । रुद्रो रुग्वैदिक
[प्रपा० १० अनु० १०] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७३५
परे॑ण॒ नाकं॒ निहि॑तं॒ गुहा॑यां वि॒भ्राज॑ते॒ यद्यत॑यो वि॒शन्ति॑, इति ॥
यथोक्तब्रह्मतत्त्वानुस्मरणस्यान्तरङ्गं सर्वत्यागरूपं साधनमत्रोच्यते । अग्निहोत्रादिकं
सहस्रसंवत्सरसत्रान्तं यत्कर्म तेन कर्मणा तदमृतत्वं न लभ्यते । “प्रजया पितृभ्यः”
इति श्रुतेः पितृविषयादृणाद्विमोचनहेतुर्या पुत्रादिरूपा प्रजा तयाऽप्यमृतत्वं न लभ्यते ।
“दाने सर्वं प्रतिष्ठितं तस्माद्दानं परमं वदन्ति” इति श्रुतेर्धनदानस्य बहुविधफलसाध-
नत्वावगमात्तस्य दानस्य निष्पादकं यद्धनमस्ति तेन धनेनाप्यमृतत्वं न लभ्यते । किं
तर्हि कर्मप्रजादीनां सर्वेषां लौकिकवैदिकव्यापाराणां त्यागेनैके केचिदेवान्तर्मुखा अमृ-
तत्त्वमानशुः प्राप्नु
७२६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[प्रपा० १० अनु० १०]
विद्यमानत्वात् । नष्टे त्वज्ञाने यो देहपातावसरः सोऽयं परान्तकालः । पुनर्देहग्रहण-
रहितत्वात् । तस्मिन्परान्तकाले संसारबन्धान्मुच्यन्ते । नन्वज्ञानिनोऽपि प्रलयकाले
स्थूलसूक्ष्मशरीरद्वयलक्षणद्वन्धान्मुच्यन्त एवेत्याशङ्क्य परामृतादित्युकम् । जगत्कारण-
त्वेनोत्कृष्टं परम् । तत्त्वज्ञानमन्तरेण विनाशरहितत्वादमृतं तादृशात्परामृतादव्याकृताद-
ज्ञानिनः प्रलयकालेऽपि न मुच्यन्ते । ज्ञानिनस्तु देहपातावसर एव तादृशादव्याकृता-
दपि मुच्यन्त इति विशेषः ।
त्रयोविंशीमृचमाह—
द॒ह्रं विपापं॑ व॒रवे॑श्मभू॒तं यत्पु॑ण्डरी॒कं पु॒रमध्य॑स॒ग्स्थम् ।
तत्रा॑पि द॒हे गग॑नं वि॒शोकं॒ तस्मि॑न्यद॒न्तस्तदुपा॑सि॒तव्य॑म्, इति ॥
तत्त्वं ज्ञातुमसमर्थस्यात्रोपासनमुच्यते । यदेतत्पुण्डरीकमष्टदलं हृदयकमलमस्ति ।
कीदृशम् । दह्रमल्पमङ्गुष्ठमात्रपरिमितत्वात् । विपापं चित्तैकाग्र्यस्थानत्वेन पापरहितम्।
वरवेश्मभूतं वरस्य श्रेष्ठस्य परमात्मन उपलब्धिरूपस्थानत्वेनोपास्तिस्थानत्वेन च गृहरू-
पम् । पुरमध्यसंस्थं हस्तपादादिभिः सर्वैरवयवैः पूर्यत इति पुरं तस्य मध्ये कुसुमरस
इवान्तराऽवस्थितम् । तत्रापि तस्मिन्नपि पुण्डरीके दहेऽल्पप्रदेशे गगनमाकाशवदमूर्तं
ब्रह्मरूपमस्ति । ब्रह्मणः सर्वगतत्वेऽपि घटाकाशवत्पुण्डरीकस्थानापेक्षयाऽल्पत्व-
मुपचर्यते । तथा च श्रुत्यन्तरम्—" अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म
दहरोऽस्मिन्नन्तराकाशः " इति । दहराकाशस्य च ब्रह्मत्वं दहराधिकरणे निर्णीतम् ।
अत एव विशोकं शोकरहितं गगनशब्दवाच्यं ब्रह्म । एवं सति तस्मिन्पुण्डरीकेऽन्त-
र्मध्ये यद्ब्रह्मतत्त्वमस्ति तदुपासितव्यं विजातीयप्रत्ययरहितेन सजातीयप्रत्ययप्रवाहेण
चिन्तनीयम् ।
चतुर्विंशीमृचमाह—
यो वे॒दादौ स्व॑रः प्रो॒क्तो वे॒दान्ते॑ च॒ प्रति॑ष्ठितः ।
तस्य॑ प्रकृ॒तिली॑न॒स्य॒ यः परः॑ स म॒हेश्व॑रः, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
दशमोऽनुवाकः ॥ १० ॥
वेदानाम् " अग्निमीळे पुरोहितम् " " इषे त्वोर्जे त्वा " इत्यादीनामादिरुपक्रमः,
तस्मिन्नुपक्रमे यः स्वरो यो वर्णः प्रणवरूपोऽस्ति स च स्वरः प्रणवो वेदान्ते चोपनिष-
१ ख. 'रल' । २ ग. झ. °मृतत्वम् ता' । ३ ग. दहरं । ४ ग. विद्याप्य ५ ग. शोक-
वर्जितं° । ६ ग. °ष्ठीयत मध्ये° । ७ ग. चान्यान्तरे । ८ ग. हृदयारमोदन्त° । ९ झ: विवेचनीयम्।
[प्रपा० १० अनु० ११] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७२७
द्योमित्येतदक्षरमिदं सर्वमित्यादिकायां प्रतिष्ठितः प्रतिपादितः, स च स्वरः प्रणवो
ध्यानकाले प्रकृतावव्याकृते जगत्कारणे लीनो भवति । अकारोकारमकारेषु विराड्धि-
रण्यगर्भाव्याकृतानि ध्यात्वा विराड्रूपमकारमुकारे प्रविलाप्य तं चोकारं हिरण्यगर्भरूपं
मूलप्रकृतिरूपे मकारे प्रविलापयेत् । तस्य च प्रकृतौ लीनस्य प्रणवस्य यः परश्चतुर्थ-
मात्रारूपेण नादे ध्यातव्य उत्कृष्टोऽस्ति, सोऽयं महेश्वरो विज्ञेयः । अनेन मन्त्रेण
पूर्वोक्तं गानशब्दवाच्यं वस्तु प्रपञ्चितम् ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या-
मुपनिषदि दशमोऽनुवाकः ॥ १० ॥
अथैकादशोऽनुवाकः ।
पूर्वानुवाकान्ते हृदयपुण्डरीक उपास्यं यन्महेश्वरस्वरूपं निर्दिष्टं तस्मिन्नुपास्यगुण-
विशेषा अस्मिन्ननुवाके विशेषेण प्रदर्श्यन्ते । तत्र प्रथमामृचमाह—
स॒हस्र॑शीर्षं दे॒वं वि॒श्वाक्षं॑ वि॒श्वश॑म्भुवम् ।
विश्वं॑ नारा॒यणं॑ दे॒वम॒क्षरं॑ पर॒मं प्र॒भुम् , इति ॥
देवं पूर्वोक्तं महेश्वरं ध्यायेदिति शेषः । कीदृशं देवम् । सहस्रशीर्षं सहस्रशब्दे-
नापरिमितत्वमुपलक्ष्यते । अनन्तशिरस्कमित्यर्थः । सर्वजगदात्मकं विराड्रूपं महेश्वरस्य
देहः । तथा सत्यस्मदादिशिरांसि सर्वाण्यपि तदीयान्येवेत्यनन्तशिरस्त्वम् । अनेनैव
न्यायेन विश्वानि सर्वाण्यस्मदीयान्यक्षणीन्द्रियाणि तदीयान्येवेति विश्वाक्षत्वम् ।
विश्वस्य सर्वस्य जगतः शं सुखमस्माद्भवतीति विश्वशंभुः(भूः), तादृशम् । उक्ते सह-
स्रशीर्षे विराड्रूपे देहेऽवस्थितस्य महेश्वरस्य निजस्वरूपं द्वितीयार्धेनोच्यते । विश्वं
जगदात्मकम् । आरोपितस्य जगतोऽधिष्ठानव्यतिरेकेण वास्तवरूपाभावात् । नारायण-
शब्दस्य निर्वचनं पुराणेषु दर्शितम्—
“आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
अयनं तस्य ताः प्रोक्तास्तेन नारायणः स्मृतः ” इति ।
जगत्कारणेषु पञ्चभूतेष्ववस्थितै इत्यर्थः । यद्वा प्रकृतेः प(र्तिर्न)रः । तस्माज्जातानि
१ ग. °वाच्यव° । २ ख. विस्तरेण । ३ झ. ऽरस्कत्वम् । ४ ग. °चनम् । ५ ग. झ.
'त इत्य° । ६ ख. °र्थः । त° ।
७२८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा० १० अनु० ११]
कानि तानि नारशब्देनोच्यन्ते । तान्येतान्ययनं स्थानं यस्य स नारायणः । स एको
न्द्राग्न्यादिरूपेणावस्थितत्वाद्वैव इत्युच्यते । तथा च शास्त्रान्तरे मन्त्र आम्नातः—"एकं
मित्रं॒ वरु॑णम॒ग्निमा॑हुः" इति । न क्षरतीत्यक्षरः, अश्नुत इति वा तस्याक्षरत्वम् ।
कारणत्वेनोत्कर्षात्परमस्त्वम् । नियन्तुं समर्थत्वात्प्रभुत्वम् ।
द्वितीयामृचमाह—
विश्वतः॑ पर॒मं नि॒त्यं वि॒श्वं ना॑राय॒णꣳ ह॑रिम् ।
वि॒श्वमे॒वेदं पुरु॑ष॒स्तद्विश्वमुप॑जीवति, इति ॥
विश्वतो जगतो जडवर्गात्परमुत्कृष्टम् । ऋग्वेदेन पुनरुक्तिपरिहारो द्रष्टव्यः ।
यद्वा स्तुतिरूपत्वादनेन रूपेण ध्यातव्यत्वाच्च नास्ति पुनरुक्तिदोषः । विनाशरहितत्वान्नि-
त्यत्वम् । सर्वात्मकत्वाद्विश्वत्वम् । नारायणत्वं पूर्वमेवोक्तम् । पापस्याज्ञानस्य च हर-
णाद्धरित्वम् । यदिदं विश्वमिदानीमज्ञैर्नदृष्ट्या प्रदृश्यते तत्सर्वं वस्तुतत्त्वदृष्ट्या
पुरुषः परमात्मैव । स च परमात्मा तद्विश्वमुपजीवति स्वस्य व्यवहारार्थमाश्रयति ।
तृतीयामृचमाह—
पतिं॒ विश्व॑स्या॒ऽऽत्मेश्व॑रꣳ शाश्व॑तं शिव॒मच्यु॑तम् ।
नाराय॒णं म॑हाज्ञे॒यं वि॒श्वात्मा॑नं प॒राय॑णम्, इति ॥
विश्वस्य जगतः पालकत्वात्पतिः । आत्मनां जीवानां नियामकत्वादीश्वरः । निर-
न्तरं वर्तमानत्वाच्छाश्वतः । परममङ्गलत्वाच्छिवः । न च्यवत इत्यच्युतः । नारायणत्वं
पूर्वमुक्तम् । ज्ञेयेषु तत्त्वेषु मध्ये प्रौढत्वान्महाज्ञेय [त्व] म् । जगदुपादानत्वेन तदभेदाद्विश्वात्म-
त्वम् । उत्कृष्टाधारत्वात्परायणत्वम् । सर्वमप्यारोपितं तदधिष्ठाने वर्तते ।
चतुर्थीमृचमाह—
*नाराय॑णः परं॒ ब्रह्म॒ तत्त्वं॒ नारा॑यणः प॑रः ।
नारा॑यणः परो॒ ज्योति॑रात्मा नारा॑यणः परः, इति ॥
- ग. पुस्तके पूर्वार्धोत्तरार्धव्यत्यासो वर्तते—"नारायणः परो ध्याता ध्यानं नारायणः परः"
इत्यधिकं च ।
१ ख. ॰त्यश्वन । २ झ. ॰रः, न स्युत । ३. ख. झ. ॰रमो नि॑ । ४ ग. ॰म्यः।स्तु' ।
५ ख. ॰ज्ञानाद्दृष्ट्या । ६ ग. झ. ॰त्पतिम् । आ° । ७ ग. ॰श्वरं नियम्यारम् । नि॑ । ८ ग.
झ.. ॰श्वतम् । प° । ९ ग. झ. ॰च्छिवत्र । न । १० ग. ॰भ्युदम् । ना । ११ ख. ॰त्वां
यण° । १२ ख. ॰यणं प° । १३ ख. ॰यणप॑ ।
[प्रपा० १० अनु० ११] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७२९
पुराणेषु नारायणशब्देन व्यवह्रियमाणो यः परमेश्वरः स एव परमुत्कृष्टं सत्यज्ञा-
नानन्दादिवाक्यैः प्रतिपाद्यस्य ब्रह्मणस्तत्त्वम् । अतो नारायणः पर एवाऽऽत्मा न
त्वपरो मूर्तिविशेषः । तथा परो ज्योतिर्यदेतदुत्कृष्टं ज्योतिश्छन्दोगैः—" परं ज्योति-
रूपसंपद्य " इत्याम्नातं तदपि नारायण एव । तस्मान्नारायणः परमात्मा ।
पञ्चमीमृचमाह—
यच्च॑ किंचिज्ज*गत्सर्वं दृ॒श्यते॑ श्रूय॒तेऽपि॑ वा ।
अन्त॑र्बहि॒श्च तत्सर्वंꣳ व्याप्य॑ ना॒राय॑णः स्थि॒तः, इति ।
अस्मिन्वर्तमाने जगति यत्किंचित्समीपवर्ति वस्तुजातं दृश्यते । अपि वा दूरस्थं
श्रूयते । तत्सर्वं वस्तुजातमयं नारायणोऽन्तर्बहिश्च व्याप्यावस्थितः । यथा कटक-
मुकुटाद्याभरणस्योपादानकारणं सुवर्णमन्तर्बहिर्व्याप्यावतिष्ठते तद्वत् ।
षष्ठीमृचमाह—
अन॑न्त॒मव्य॑यं क॒विꣳ समु॒द्रेऽन्तं॑ वि॒श्वश॑म्भुवम् ।
प॒द्म॒को॒शप्र॑तीका॒शꣳ हृद॑यं चाप्यधोमु॑खम् , इति ।
अत्र पूर्वार्धेन नारायणस्य वास्तवस्वरूपं संक्षिप्योपन्यस्यते । अनन्तं देशपरिच्छे-
दरहितम् । अव्ययं विनाशरहितम् । कविं चिद्रूपेण सर्वज्ञम् । समुद्रेऽतिबहुलत्वेन
समुद्रसदृशे संसारेऽन्तमवसानरूपम् । यदा नारायणस्य स्वरूपं जानाति तदा संसारः
क्षीयत इत्यर्थः । विश्वशंभुवं सर्वस्य संसारसुखस्योत्पत्तिकारणरूपम् । "एतस्यैवाऽऽ-
नन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति " इति श्रुत्यन्तरात् । ईदृशं नारायणस्वरूपमुपा-
सीतेति शेषः । उत्तरार्धेनोपासनस्थानमुच्यते—पद्मकोशप्रतीकाशं यथा लोकेऽष्टदल-
कमलस्य कोशो मध्यच्छिद्रं तत्सदृशं तच्च हृदयशब्दवाच्यम् । लौकिकं पद्ममूर्ध्वाभिमुखं
हृदयपद्मं त्वधोमुखमिति विशेषः ।
सप्तमीमृचमाह—
अधो॑ नि॒ष्ट्या वि॑त॒स्त्यान्ते॑ नाभ्या॑मुप॑रि तिष्ठ॑तिँ ।
- हृद॑यं तद्वि॑जानीयाद्वि॒श्वस्या॑ऽऽय॒तनं म॒हत्, इति ।
- जगत्यस्मिन्निति पाठो भाष्यानुरोधी, स च वर्तते क्वचिदिति ग. पुस्तकटिप्पणीतो ज्ञायते ।
- पदत्रयमेतन्निधित्वस्वरकम् ।
१ ख. ॰मादि॰ । २ ख. ॰वाक्यप॰ । ३ ख. ॰पमस्तीति शे॰ । ४ ख. झ. ॰नमु॰ ।
५ ग. लोके शतद॰ । ६ ग. ॰त्यावन्तेन ना॰ । ७ ग. ॰ति । जालमालाकुलं भाति विश्व॰ ।