सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 721, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 721

मुक्तम्। आकाशादिगादीनामेकब्रह्माण्डवर्तित्वात्तादृशब्रह्माण्डलक्षकोट्याधिष्ठानत्वमभिप्रेत्य
महीयस्त्वमुक्तम् । तादृशः परमात्माऽस्य देवमनुष्यादिरूपस्य जन्तोर्गुहायां निहितः।
गुहाशब्देन हृदयपुण्डरीकमध्यवर्तिनी बुद्धिरुच्यते । गुहू संवरण इत्यस्माद्धातोत्पन्नो
गुहाशब्दः । बुद्धिश्च हृदयपुण्डरीकेण संवृता तन्मध्यवर्तित्वात् । तस्यां बुद्धावस्य पर-
मात्मनो निहितत्वं नाम विद्ययोपलभ्यमानत्वं न तु बुद्धावाधेयत्वम् । सर्वजगदाधारस्य
तदसंभवात् । तं तथाऽवस्थितमीशं शमादिगुणयुक्तोऽधिकारी पुरुषः पश्यति साक्षा-
त्करोति । स चाधिकारो धातुः प्रसादादुपजायते । धाता जन्तो विधाता परमेश्वरः,
तस्य प्रमादोऽनुग्रहः ।
तथा च पूर्वाचार्यैरुक्तम्—
“ ईश्वरानुग्रहादेषां पुंसामद्वैतवासना ।
महाभयकृतत्राणा द्वित्राणामेव जायते ” इति ।
कीदृशमीशम् । अक्रतुं संकल्परहितम् । रूपयपानादिभोगजातं समीचीनमिति
संकल्पनं जीवस्यैव न त्वीशस्य । संकल्पहेतुभूतान्तःकरणोपाधेरभावात् । अतो
निरुपाधिकत्वान्महिमानमतिशयेन महान्तम् । ईदृशं परमेश्वरं साक्षात्कृत्य वीत-
शोको जन्ममरणादिशोकरहितो भवति ।
द्वितीयामृचमाह—
स॒प्त प्रा॒णाः प्र॒भव॑न्ति॒ तस्मा॑त्स॒प्तार्चिषः॑ स॒मिधः॑ स॒प्त जि॒ह्वाः ।
स॒प्त इ॒मे लो॒का येषु॑ चर॑न्ति प्रा॒णा गु॒हाश॑या॒न्निहि॑ताः स॒प्त स॒प्त, इति॑ ॥
शुद्धान्तःकरणैर्ज्ञातव्यो यः परमात्माक्तस्तस्य शाखाचन्द्रन्यायेनोपलक्षणार्थं जगत्का-
रणत्वमुच्यते । तस्मात्परमात्मनो मायाशक्तिविशिष्टात्सप्त प्राणा भवन्ति।
अन्यत्र—“सप्त वै शीर्षण्याः प्राणाः” इत्युक्तत्वात्, शिरोवर्तिसप्तच्छिद्रगताः सप्तसंख्या-
काश्चक्षुरादयः प्राणाः परमेश्वरादुत्पद्यन्ते । द्वे चक्षुषी द्वे श्रोत्रे द्वे नासिके वागेकेति सप्त-
त्वम् । तेषां चक्षुरादीनां स्वस्वविषयप्रकाशनशक्तयः स॒प्तार्चिषः॑ । तैरर्चिर्भिर्गृह्यमाणत्वेन
सप्तसंख्याका विषयाः समिधः । विषयैर्हीन्द्रियाणि समिध्यन्ते प्रकाशयुक्तानि क्रियन्ते।
यथैकस्यापि चक्षुरिन्द्रियस्य गोलकभेदेन द्वित्वं तथा रूपस्याप्येकस्य वामदक्षिणरूप-
ग्राहकचक्षुर्वृत्तिभेदाद्वित्वं द्रष्टव्यम् । एवं शब्दगन्धयोर्द्वित्वे सति विषयाः सप्त संप-
द्यन्ते । अथवा समिच्छब्देन सप्तसंख्या न संबध्यते किंतु जिह्वाशब्देन । अग्निजिह्वानां
च सप्तत्वमाथर्वणिकैराम्नातम्—
१ ख. ण्डमध्ये व° । २ ग. र्तिनीत्या° । ३ ख. शमदमादि° । ४ ख. ग. °त्राणां यदि
ऽथ ... ०° ... प्रेक्षमिति ।