तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
४३६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा०६अनु०७]
स॒वितै॒तानि॑ शरी॑राणि पृथि॒व्यै मा॒तुरुप॑स्थ॒
आद॑धे । तेभ्य॑ः पृथिवि॒ शं भ॑व, इति ।
एतानि शरीराणि शरीरावयवरूपाण्यस्थीनि मातृस्थानीयायाः पृथिव्या उपस्थ
उत्सङ्गे सविता प्रेरको देव आदधे सर्वतः स्थापयति । हे पृथिवि तेभ्योऽस्थिभ्यः
शं सुखहेतुर्भव ।
षड्ढोता॒ सूर्यं॑ ते॒ चक्षु॑र्गच्छतु॒ वात॑मा॒त्मा द्यां च॑
गच्छ पृथि॒वीं च॒ धर्म॑णा । अ॒पो वा॑ गच्छ॒ यदि॒ तत्र॑
ते हि॒तमोष॑धीषु प्रति॑तिष्ठा॒ शरी॑रैः, इति ।
कल्पः—‘‘अथैनमुपतिष्ठते—षड्ढोता सूर्यं ते चक्षुर्गच्छतु वातमात्मा द्यां च गच्छ
पृथिवीं च धर्मणा । अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रतितिष्ठा शरीरैः’’ इति।
षड्ढोतृसंज्ञको मन्त्राभिमानी देवोऽस्ति तदनुग्रहेण हे प्रेत त्वदीयं चक्षुः सूर्यं गच्छ-
त्विति योजनीयम् । अयं च मन्त्रः प्रथमानुवाके व्याख्यातः ।
कल्पः--‘‘भुक्तभोगेन वाससाऽस्थिकुम्भं निमृज्योपर्युपरि शिरो दक्षिणा व्युद-
स्यति--परं मृत्यो अनुपरेहि पन्थामिति, अथास्य कपालानि सुसंभिन्नानि संभिनत्ति
यथैषूदकं न तिष्ठेत् ’’ इति । पाठस्तु--
परं॑ मृत्यो॒ अनु॒परे॑हि॒ पन्थां॒ यस्ते॒ स्व इत॑रो
दे॒व॒याना॑त् । चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि॒ मा न॑ः
प्र॒जाꣳ री॑रिषो॒ मोत वी॒रान्, इति ।
हे मृत्यो देवयानादितरो यः पन्थास्ते स्वस्तव स्वभूतः, तं परं पन्थां देवया-
नादितरं तं मार्गमनुपरेहि अनुक्रमेण प्राप्नुहि । चक्षुष्मते साधुदर्शने शृण्वतेऽस्मद्वि-
ज्ञप्तीनां श्रोत्रे ते तुभ्यमेकं वचनं ब्रवीमि । नोऽस्मदीयां प्रजां पुत्रादिरूपां मा रीरिषो
मा विनाशय । उतापि च वीराञ्छूरान्मृत्यानपि मा रीरिषः ।
कल्पः--‘‘भुक्तभोगेन वाससा शरीराणि प्रच्छाद्योदपात्रेणोदुम्बरशाखया वोक्षति-
शं वातः ’’ इति । पाठस्तु--
शं वातः॑ शꣳ हि ते॑ घृ॒णिः शंसु॑ ते सन्त्वो-
ष॑धीः । कल्प॑न्तां मे॒ दिश॑ः श॒ग्माः, इति ।
१ ग. ˚ष्ठन्ते ष° । २ ग. ˚ति । यः ष° ।
[प्रपा० ६ अनु० ७] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ४३७
वातो वायुस्ते तव शं सुखं करोतु । घृणिर्दीप्यमान आदित्यो हि प्रसिद्धस्ते
तव शं सुखं करोतु । ओषध्यश्च ते तव शं सुखहेतवः सन्तु । दिशः सर्वा मे मम
शग्माः सुखप्रापिकाः कल्पन्तां समर्था भवन्तु ।
कल्पः—"इष्टकाः प्रतिदिशमनन्वीक्षमाण उपदधाति-पृथिव्यास्त्वा लोके साद-
यामीत्येतैः प्रतिमन्त्रं प्रतिदिशं मध्ये पञ्चमीं तां दक्षिणेन षष्ठीम्” इति । तत्र प्रथम-
मन्त्रमाह—
पृ॒थि॒व्यास्त्वा॑ लो॒के सा॑दयाम्य॒मुष्य॑ श॒र्मासि॑ पि॒तरो॑
दे॒वता॑ । प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑या, इति ।
हे इष्टके त्वां पृथिव्या लोके स्थाने स्थापयामि सादयामि । अमुष्य प्रेतस्य
[श]र्मासि सुखहेतुरसि । पितरस्तव देवताः स्वामिभूताः । प्रजापतिर्देवस्त्वामत्र साद-
तु स्थापयतु । तया प्रजापतिदेवतया स्थापिता सती ध्रुवा सीद यथाऽङ्गिरोभिः
[स]्थापिता तद्वत् । अत्राङ्गिरस्वद्ध्रुवा सीदेत्येतावदध्याहर्तव्यम् ।
अथ द्वितीयादीन्षष्ठान्तान्पञ्च मन्त्रानाह—
अ॒न्तरि॑क्षस्य त्वा॒ दिश॑स्त्वा॒ दिशां॑ त्वा॒ नाक॑स्य
त्वा पृ॒ष्ठे ब्र॒ध्नस्य॑ त्वा वि॒ष्टपे॑ सादयाम्य॒मुष्य॑
श॒र्मासि॑ पि॒तरो॑ दे॒वता॑ । प्र॒जाप॑तिस्त्वा
सादयतु॒ तया॑ दे॒वत॑या ( ३ ), इति ।
अन॑पस्फुरन्तीरु॒त्तर॑ दे॒वत॑या॒ द्वे च॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठके
सप्तमोऽनुवाकः ॥ ७ ॥
हे द्वितीयेष्टके त्वामन्तरिक्षस्य लोके सादयामीत्यनुषज्य पूर्ववद्व्याख्येयम् । हे
[तृ]तीयेष्टके त्वां दिवो लोके सादयामि । हे चतुर्थेष्टके त्वां दिशां लोके सादयामि ।
पञ्चमेष्टके त्वां नाकस्य पृष्ठे स्वर्गस्योपरि सादयामि । हे षष्ठेष्टके त्वां ब्रध्नस्याऽऽ-
[दि]त्यस्य विष्टपे स्थाने सादयामि । सर्वत्रानुषङ्गद्योतनाय सादयामीत्यादेः पुनः पाठः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयारण्यकभाष्ये षष्ठप्रपाठके सप्तमोऽनुवाकः ॥ ७ ॥
══════════════════════════════════
१ ग. सुखं प्रति हे° । २ क. ग. ऽअमी तां । ३ क. ख. ॰न्त्रपाठस्त—प° ।
)
- त (udatta)
- रो॑ (svarita)
- दे॒ (anudatta)
- व (udatta)
- ता॑ (svarita)
- ।
- प्र॒ (anudatta)
- जा (udatta)
- प॑ (svarita)
- तिस्त्वा (pracaya)
Wait, line 8:
सादयतु तया॑ दे॒वत॑या, इति ।
- सादयतु (pracaya)
- तया॑ (svarita on या)
- दे॒ (anudatta)
- व (udatta)
- त॑ (svarita)
- या (pracaya)
- , इति ।
Now Bhashya lines:
पक्वा भक्ष्याः पिष्टविकारा अपूपाः, ते यस्य चरोः सन्ति सोऽयमपूपवान् । तद्वद्
घृतवान्प्रभूतघृतयुक्तः । तादृशश्चरुरिहास्मिन्स्थाने पूर्वस्यां दिश्यासीदतु, उपविशतु
Wait, at end of line 10:
"उपविशतु" (no danda, or is there a danda? No danda).
किं कुर्वन् । पृथिवीमेतामुत्तम्भ्नुवन्नूर्ध्वं स्तब्धां कुर्वन् । उतापि च द्यां द्युलोकमप्यू-
ो॒ ब्रह्म॑ण॒ इद्वृ॑धुः । तासां॑..." in standard editions.
Here:
त्वाम - under म is it anudatta? Under र्जु is a horizontal bar! Under नौ? The line extends from र्जु across to नौ!
Actually, in this font, a single horizontal stroke can span two syllables: र्जु॒नौ॒.
And on ष॑: vertical stroke above ष.
On यो॒: anudatta under यो.
On ह्म॑: svarita above ह्म.
On वृ॒: anudatta under वृ.
On सां॑: svarita above सां.
This is clear and precise.[प्रपा० ६ अनु० ९] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ४३९
ते॒ य॒मस॑दने स्व॒धा नि॒धीय॑ते गृ॒हेऽसौ । श॒ता-
क्षरा॑ स॒हस्रा॑क्षराऽऽयुता॑क्षराऽच्यु॒ताक्ष॑रा ताꣲ
रक्ष॑स्व॒ तां गो॑पायस्व॒ तां ते॒ परि॑ददामि॒ तस्यां॑
त्वा॒ मा द॑भन्पितरो॑ दे॒वता॑ । प्र॒जाप॑तिस्त्वा
४४० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०६ अनु०१]
त्वा म॒ध्यादाद॑दे च॒रुभ्यो॒ अपि॑धातवे, इति ।
तेषु मन्त्रेष्वर्जुनदूर्वाकाशदर्भशब्दास्तृणविशेषवाचिनः प्रसिद्धाः । हेऽर्जुनाख्यतृण
त्वां ब्रह्माणोऽभिज्ञा विप्रा ओषधीनां पय इत्सर्वासामोषधीनां सारमेव विदुर्जानन्ति।
तासामोषधीनां मध्यात्सकाशात्त्वामाददे आनीय स्थापयामि । किमर्थम्, चरुभ्योऽपि-
धातवे चरूणामपिधानार्थम् ।
अथ द्वितीयामाह—
दूर्वा॑णां स्त॒म्बमाह॑रैतां प्रि॒यत॑मां मम॑ । इ॒मां
दिशं॑ मनु॒ष्या॑णां॒ भूयि॑ष्ठा॒ऽनु वि॒रोह॑तु, इति ।
हे प्रेत दूर्वाणां संबन्धिनं स्तम्बमाहर स्वी कुरु । एतां दूर्वां मम स्वस्य प्रियतमां
विद्धीति शेषः । मनुष्याणां संबन्धिनीमिमां दक्षिणां दिशमनु सा दूर्वा भूयिष्ठा प्रभूता
विरोहतु विविधमङ्कुरमुत्पादयतु ।
अथ तृतीयामाह—
काशा॑नाꣳ स्त॒म्बमाह॑र॒ रक्ष॑सामप॑ह॒त्यै । य ए॒तस्यै॑
दि॒शः परा॒भव॑न्न॒घाय॒वो यथा॒ ते नाऽभै॑वान्पुन॑ः, इति ।
हे प्रेत काशाख्यानां तृणानां स्तम्बमाहर स्वी कुरु । किमर्थम्—रक्षसामपहत्यै।
एतस्यै पश्चिमाया दिशोऽघायवोऽघं पापमुपद्रवमिच्छन्तो ये वैरिणः पराभवन्पराभव-
कर्तार आसन् । ते वैरिणो यथा पुनर्नाभवन् भविष्यन्ति तथा काशस्तम्बं स्वी कुरु।
अथ चतुर्थीमाह—
द॒र्भाणा॑ꣳ स्त॒म्बमाह॑र पि॒तृणा॒मोष॑धीं प्रि॒याम् ।
अन्व॑स्यै मू॒लं जी॑वाद॒नु काण्ड॒मथो॒ फल॑म्, इति ।
हे प्रेत दर्भसम्बन्धिनं स्तम्बं स्वी कुरु । इमामोषधीं पितॄणां प्रियां
विद्धीति शेषः । अस्यै दर्भरूपाया ओषध्या मूलमनुजीवादतिक्रमेण जीवतु । तथा
काण्डं फलं चानुक्रमेण जीवतु वर्धतामित्यर्थः ।
कल्पः—“लोकं पृणेति लोकंपृणा उपदधाति, उत्तरया पुरीषेणानुविकिरति” इति
तयोर्मन्त्रयोः प्रतीके दर्शयति—
लो॒कं पृ॑ण॒ ता अ॑स्य॒ सूद॑दोहसः, इति ।
१ ग. ॰धुषे च० । २ ख. ग. ॰दृध आ० । ३ ग. ॰भवन्पु० । ४ ख. ग. ॰राक्तं ।
[प्रपा० ६ अनु० ९] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ४४१
लोकं पृण च्छिद्रं पृणेत्येको मन्त्रः । ता अस्येति द्वितीयः । एतौ चोभावपेत वीते-
त्यनुवाके व्याख्यातौ ।
कल्पः—“उदपात्रेणोदुम्बरशाखया वोक्षति—शं वातः” इति । पाठस्तु—
शं वा॒तः॑ शꣳ हिं॑ते घृ॒णिः शमु॑ ते सन्त्वो-
षधीः॑ । कल्प॑न्तां ते॒ दिशः॒ सर्वाः॑, इति ।
अयं मन्त्रः सप्तमानुवाके व्याख्यातः । ते सर्वा इत्येतावानेव विशेषः ।
कल्पः—“उपतिष्ठत इदमेव” इति । पाठस्तु—
इदमे॒व मे॑तोऽप॑रामात्ति॒मारा॑म॒ कांचन॑ । तथा
तद॒श्विभ्यां॑ कृतं॒ मित्रेण॒ वरु॑णेन च, इति ।
इदानीं वर्तमानमिदमेवैकं कष्टं संपन्नम् । इतोऽपरां कांचिदप्यार्तिं माऽऽराम
मा प्राप्
४४२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० ६ अनु० ९]
कल्पः—“यवं दक्षिणतो यव यवय” इति । पाठस्तु—
यव॒ यव॒यास्मद्वेषा॒ द्वेषा॑ꣳसि, इति ।
पूर्ववद्व्याख्येयम् ।
कल्पः—“अथैनमुपतिष्ठते पृथिवीम्” इति । पाठस्तु—
पृथि॒वीं ग॑च्छान्तरि॑क्षं गच्छ॒ दिवं॑ गच्छ॒ दिशो॑
गच्छ॒ सुव॑र्गच्छ॒ सुव॑र्गच्छ॒ दिशो॑ गच्छ॒ दिवं॑
गच्छान्तरि॑क्षं गच्छ पृथि॒वीं ग॑च्छापो वा॑ गच्छ॒ यदि॑
तत्र॑ ते हि॒तमोष॑धीषु प्रति॑तिष्ठा॒ शरी॑रैः, इति ।
आरोहावरोहाभ्यां पृथिव्यादिस्वर्गपर्यन्तप्राप्तिवाक्यानि स्पष्टानि । अपो वेत्यादिस्तु
प्रथमानुवाके व्याख्यातः ।
कल्पः—“जघनेन चितिं कूर्चादि समानम् ” इति । तन्मन्त्राणां प्रतीकानि
दर्शयति—
अश्म॑न्वती रे॒वती॒र्यद्दे॒ देव॑स्य सवि॒तुः प॒वित्रं॒ या
रा॒ष्ट्रात्प॒श्चादु॒द्वयं॒ तम॑स॒स्परि॑ धा॒ता पु॑नातु (२), इति ।
अथो फलै¹ पुनातु ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठके
नवमोऽनुवाकः ॥ ९ ॥
एते च मन्त्रास्तृतीयानुवाके व्याख्याताः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये षष्ठप्रपाठके नवमोऽनुवाकः ॥ ९ ॥
१ ग. ˚लं धा॒ता॑ पुं॑ ।
[प्रपा० ६ अनु० १०] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ४४३
अथ षष्ठे दशमोऽनुवाकः ।
कल्पः—" नवम्यां व्युष्टायां यज्ञोपवीत्यन्तरा ग्रामं श्मशानं चाग्निमुपसमाधाय
संपरिस्तीर्यापरेणाग्निं रोहितं चर्माऽऽनडुहं प्राचीनग्रीवमुत्तरलोमाऽऽस्तीर्य तद्वेतसमा-
लिनो ज्ञातीनाारोहयति— आरोहत " इति । पाठस्तु--
आरोहता॒ऽऽयुर्ज॒रसं॑ गृणा॒ना अनु॑पूर्वं यत॑-
माना॒ यति॑ष्ठ । इ॒ह त्वष्टा॑ सु॒जनि॑मा
सु॒रत्नो॑ दी॒र्घमायुः॑ करतु जी॒वसे॑ वः, इति ।
हे ज्ञातयो यूयं जरसं गृणाना जरावस्थां प्रार्थयमाना आयुरायुषो हेतुभूतं
चर्माऽऽरोहत । अनुपूर्वं ज्येष्ठमनु कनिष्ठो यथा भवति तथा यतमानाः प्रयत्नं
कुर्वन्तो यतिष्ठाऽऽरोहणप्रयत्नं कुरुत । इ
"
Wait, at the end of line 4: "कपि-" hyphenated!
Line 5:
"कपिवच्चेष्टाकारी मनुष्यः पुनस्तेजनमुत्तेजनं यथा भवति तथा बभास्ति दीपयति । तत्र"
Wait, is "तत्र" at the end of line 5?
In line 5: "तथा बभास्ति दीपयति । तत्र" -> only "त" is visible at the end of line 5!
Look at the end of line 5:
"भवति तथा बभास्ति दीपयति । त"
And line 6 starts with:
"दृष्टान्तः—गौरिव जरायु । यथा गौः स्वगर्भस्य रक्षार्थं जरायुपटं संपादयति न च"
Ah! "त" is at the end of line 5, and line 6 starts with "दृष्टान्तः"!
Wait, look at line 6: "दृष्टान्तः—गौरिव जरायु ।"
So "तद्" + "दृष्टान्तः" = "तद् दृष्टान्तः" or "तत्र दृष्टान्तः"?
It is "तद् दृष्टान्तः" or "तत्र दृष्टान्तः"?
Notice at the end of line 5: "। त" (just one letter त!).
And line 6: "दृष्टान्तः—गौरिव जरायु ।"
So "त-दृष्टान्तः" or "तद्दृष्टान्तः"!
Line 6:
"
Here is the complete, line-by-line transcription of the page, including Vedic accents (svara), punctuation, symbols, and footnotes exactly as printed:
प्रत॑रां दधा॑नाः । आप्याय॑मानाः प्र॒जया॑
धने॑न शुद्धाः पू॒ता भ॑वथ यज्ञियासः, इति ।
मृत्योर्मृत्युरूपस्यानडुहः पदं स्थानं योपयन्तो लोपयन्तो यदैम गच्छेमस्तदा* वयं
[पूर्ववद्द्राघीय आयुः प्रत॑रां (रा)[मति]प्रकर्षेण दधानाः प्रजया धनेन चाऽऽप्याय-
माना वर्धमानाः सन्तः, यज्ञियासो यज्ञयोग्याः शुद्धाः शरीरशुद्धियुक्ताः पूता द्रव्य-
शुद्धियुक्ताश्च भवथ । हे ज्ञातय इति द्रष्टव्यम् ।
कल्पः—“अथैभ्योऽध्वर्युर्दक्षिणतोऽइमानं परिधिं दधाति—इमं जीवेभ्यः परिधिं
दधामि” इति । पाठस्तु—
इ॒मं जी॒वेभ्यः॑ परि॒धिं द॑धामि॒ मा नो॒ऽनु॑गा॒द-
प॑रो
४५६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[प्रपा० ६अनु० १०]
तेना॒मृत॑स्य॒ मू॒लेनारा॑ती॒र्जम्भ॑यामसि, इति ।
हिमवतस्परि हिमवत्पर्वतस्योपरि जातमुत्पन्नं त्रैककुदं त्रिककुत्पर्वतसंबन्धि यदा-
ञ्जनं विद्यते । अमृतस्य मूलेन सुखस्य कारणेन तेनाञ्जनेनारातीर्जम्भयामसि शत्रू-
न्विनाशयामः ।
कल्पः—“अथैतानि कुशतरुणकानि समुच्छित्य दर्भस्तम्बे निदधाति—यथा त्वम्१
इति । पाठस्तु—
यथा॑ त्वमु॑द्भिन्द॒न्त्सत्योष॑धे पृथि॒व्या अधि॑ । ए॒वमि॒म
उद्भि॑न्दन्तु की॒र्त्या यश॑सा ब्रह्मवर्च॒सेन॑, इति ।
हे ओषधे दर्भस्तम्ब पृथिव्या उपरि यथा त्वमुद्भिन्दन्सन्, उत्पद्यसे । एवमिमे
कुशाः कीर्त्यादिभिः सहोद्भिन्दन्तूत्पद्यन्ताम् । कीर्तियशसोर्लोकद्वयगतत्वेन भेदः ।
कल्पः—“अजं चैतदहः पचते यवौदनं च—अजोऽसीत्यजस्य प्राश्नीयात्”३ इति ।
पाठस्तु—
अजो॒ऽस्यजा॒स्मद॒घा द्वेषाँ॑सि, इति ।
हे पक्वद्रव्य त्वमजोऽस्यजसंबन्ध्यसि । अतोऽस्मत्सकाशादघा पापानि द्वेषांसि
वैराणि चाजापगमय ।
कल्पः—“४ यवौदनस्य च प्राश्नाति—यवोऽसि ” इति५ । पाठस्तु—
यवो॑ऽसि यव॒यास्मद॒घा द्वेषाँ॑सि ( २ ), इति ।
संपा॑रणो भव जम्भयामसि॒ त्रीणि॑ च ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठके
दशमोऽनुवाकः ॥ १० ॥
हे ओदन त्वं यवोऽसि यवसंबन्ध्यसि । अतोऽस्मत्तः सकाशादघा पापानि द्वेषांसि
वैराणि च यवय पृथक्कुरु ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्ति-
रीयारण्यकभाष्ये षष्ठप्रपाठके दशमोऽनुवाकः ॥ १० ॥
══════════════════════════════════════
१ क. ख. त्वमु° । २ क. ख. पचन्ति । ३ क. ख. ०ति । अ° । ४ क. ग. यवोऽ-
सीति । ५ क. ख. ०ति यवौदनस्य च प्राश्नाति य° ।
[प्रपा०६अनु०११] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ४४७
अथ षष्ठ एकादशोऽनुवाकः ।
पूर्वानुवाके मृत्यवे स्वाहेति यो होम उक्तस्तदनन्तरमेवैतैर्मन्त्रैर्द्वादश स्रुवाहुतीर्जुहु-
यात् । तत्र प्रथमं मन्त्रमाह—
अप॑ नः शोशु॑चद॒घमग्ने॑ शु॒शु॒ध्या
र॒यिम् । अप॑ नः शोशु॑चद॒घम्, इति ।
पूर्वानुवाके व्याख्यातो मन्त्रः ।
अथ द्वितीयमाह—
सु॒क्षेत्रि॑या सु॑गातु॒या व॑सू॒या च॑ यजा-
महे । अप॑ नः शोशु॑चद॒घम्, इति ।
सुक्षेत्रिया शोभनक्षेत्रयोग्यया सुगातुया शोभनगतियोग्यया वसूया च धनप्राप्ति-
हेतुभूतयाऽप्यनयाऽऽहुत्या यजामहे पूजयामः । अप न इत्यादि पूर्ववत् ।
अथ तृतीयमाह—
प्र यद्भन्दि॑ष्ठ ए॒षां प्राऽस्माका॑सश्च
सू॒रय॑ः । अप॑ नः शोशु॑चद॒घम्, इति ।
यद्यदैषां ज्ञातीनां भन्दिष्ठोऽतिशयेन भद्रः पुरुषार्थः प्राप्यते, तदानीमास्माकासोऽ-
मत्संबंधिनः सूरयश्च विद्वांसोऽपि पुत्रपौत्रादयः प्राप्यन्ताम् ।
अथ चतुर्थमाह—
प्र यद॒ग्नेः स॑ह॒स्वतो॒ विश्वतो॑ य॒न्ति
सू॒रय॑ः । अप॑ नः शोशु॑चद॒घम्, इति ।
यच्छब्दः प्रसिद्धवाची । यत्प्रसिद्धाः सूरयो विद्वांसः सहस्वतो बलवतोऽग्नेः
-शात्सर्वतो यन्ति प्रकर्षेण प्राप्नुवन्ति ।
अथ पञ्चममाह—
प्र यत्ते॑ अग्ने सू॒रयो॒ जाये॑महि॒ प्र ते॑
व॒यम् । अप॑ नः शोशु॑चद॒घम्(१), इति ।
*हेऽग्ने ये वयं ते तव सूरयः स्तोतृनामैतत् । प्रकर्षेण स्तोतारः । यच्छब्दश्रुतेस्त-
- हेऽग्ने वयं ते तव यत्प्रसिद्धाः सूरयस्ते त्वदीयाः प्राप्ताः, अतो वयमपि ते त्वदीयाः
महि प्रकर्षेण भूयास्म, इति ग. पुस्तकस्थो भाष्यपाठः ।
४४८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० ६ अनु० ११]
च्छब्दोऽध्याहर्तव्यः । ते वयं प्रजायेमहि प्रजां प्राप्नुयाम तव प्रसादेन तव
स्वभूताः ।
अथ षष्ठमाह—
त्वꣳ हि वि॒श्वतो॑मुख वि॒श्वतः॑ परि॒-
भूरसि॑ । अप॑ नः॒ शोशु॑चद॒घम्, इति ।
हे विश्वतोमुख सर्वतो ज्वालायुक्ताग्ने त्वं विश्वतः सर्वत्र परिभूरसि वैरिणां
परिभाविताऽसि ।
अथ सप्तममाह—
द्विषो॑ नो वि॒श्वतो॑ मुखाऽति॑ ना॒वेव॑ पारय ।
अप॑ नः॒ शोशु॑चद॒घम्, इति ।
हेऽग्ने नोऽस्माकं द्विषो द्वेषिणो मुखा मुखानि विश्वतः सर्वस्माद्देशादतिपारया-
तीत्य परतो नय । तत्र दृष्टान्तः—नावेव यथा नावा परतस्तार (तः प्राप)यन्ति
तद्वत् । यद्वा हे विश्वतोमुखाग्ने द्विषः शत्रूनतिपारयेति व्याख्येयम् ।
अथाष्टममाह—
स नः॒ सिन्धु॑मिव ना॒वयाऽति॑पर्षा
स्व॒स्तये॑ । अप॑ नः॒ शोशु॑चद॒घम्, इति ।
हेऽग्ने स त्वं नोऽस्माकं स्वस्तये क्षेमायातिपर्ष दुःखजातमतीत्य परतः प्रापय
तत्र दृष्टान्तः—नावया सिन्धुमिव यथा लोके नावा समुद्रं तारयन्ति तद्वत् ।
अथ नवममाह—
आप॑: प्रव॒णादि॑व य॒तीर॒पास्मत्स्य॑न्दता-
म॒घम् । अप॑ नः॒ शोशु॑चद॒घम्, इति ।
प्रवणाँनिम्नदेशान्निमित्तभूताद्यतीर्निर्गता आप इवास्मत्तः सकाशादघं पापम-
पेत्य स्यन्दतां प्रवाहरूपेण गच्छतु ।
अथ दशममाह—
उ॒द्गा॒ना॒र्दुद॒कानी॒वापा॒स्मत्स्य॑न्दताम॒घम् ।
अप॑ नः॒ शोशु॑चद॒घम् , इति ।
१ ग. परिभवासि । २ क. ख. ॰तू । अथा॰ । ३ ख. ॰णान्नअङ्गे॰ । ४ ग. ॰तीर्गच्छन्ता-
म्भो॑ ।
: Char 1: In old typography, झis often likeञ्शorझ. Wait, look at Char 1: Does it look like झ? Wait, look at Char 2: is it र? Wait, Char 2 has a loop at the bottom, like द्र? Wait, what if it is ह्रदात्? Wait, does ह्रदात्haveणा? No, ह्रदात्would beह्रदादुन्नत...(4 syllables: ह्र-दा-दु-न्न-त). Count the syllables beforeप्रदेशस्थात्: 1, 2, 3, 4, 5! There are FIVE syllables before प्र: 1: [?]2:[?]3:[?]4:दु5:न्न6:तWait,दु-न्न-त is 3 characters (दु, न्न, त). Before दुन्नत, there are 3 characters: Char 1, Char 2, Char 3! If it's झरणात्: Char 1: झChar 2:रChar 3:णात्->णा(withदु=णादुन्नत)! YES! झ-र-णा-दु-न्न-त`!
अन्धे॑न या॒ तम॑सा प्रावृ॒ताऽसि॒ प्राची॑मर्वाची॑मवयन्नरि॑ष्ट्यै, इति ।
मृताय मृतपुरुषार्थं परिणीयमानां जीवा॑ जीवन्तीं युवतीं(तिं) यौवनवत्पुष्टाङ्गीं
युवतित्वेन भावितां वा वृद्धामाचरन्तीमागच्छन्तीं राजगवीं वयमपश्याम । या राज-
गवी त्वमन्धेन तम॑सा जरातिशयेन मरणभीत्या वा दृष्टिप्रसारणाभावे³ सत्यत्यन्तनिबि-
डेन तमसा प्रावृता भवसि । अरिष्ट्या अहिंसार्थं प्राचीं प्राङ्मुखीमर्वाचीमवाङ्मुखीं
तां राजगवीमवयन्व्यमवैमो जानीमः ।
अथ द्वितीयामाह—
मयै॒तां माऽस्तां॑ श्रियमा॑णा दे॒वी स॒ती
पि॒तृलो॒कं यदैषि॑ । विश्व॑वारा॒ नभ॑सा॒ संव्य॑-
यन्त्यु॒भौ नो॑ लो॒कौ पय॑साऽऽवृ॑णीहि, इति ।
मया ध्रियमाणा⁴ पोष्यमाणा राजगवी, एतां रक्षिता
Here is the line-by-line transcription in Unicode Devanagari, preserving all Vedic accents (svaras), punctuation, and layout of the original page:
प्रपा० ६ अनु० १२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ४५१
तेभ्यो॑ घृ॒तस्य॑ धार॒यितुं॑ मधु॒धारां॑ व्यु॒न्दती॑, इति ।
ये जीवा अस्मत्कुले जीवन्तो ये पुरुषाः सन्ति ये च मृताः सन्ति येऽपीदानीं
जाता उत्पन्ना ये च जन्त्या इतः परं जनयितव्याः, तेभ्यो धारयितुं तान्सर्वां-
न्पोषयितुं घृतस्य संबन्धिनी मधुधारा मधुररसोपेता [ धारा ] तया धारया व्युन्दती
विशेषेण क्लेदनयुक्ता राजगवी ] वर्तते ।
कल्पः—“ माता रुद्राणामिति द्वाभ्यामुत्सृजन्ति ” इति । तत्र प्रथमामाह—
मा॒ता रु॒द्राणां॑ दुहि॒ता वसू॑ना॒ꣳ॒ स्वसा॑ऽऽदि॒त्या-
ना॒म॒मृत॑स्य॒ नाभिः॑ । प्र णु॒ वो॑चं चिकि॒तुषे॑
परे॒ युवा॑सं म॒न्विद्रा॒न्भुव॑नस्या॒भ्याव॑वृ॒त्स्वाजोऽभा॒गोऽग्नं॒ वै च॑तुश्चत्वा-
रिꣳ॒शद्य ए॒कꣳ॑श॒ त्वत्प॒ञ्चप्रके॒तुने॒दं ते नाकं॑ सु॒प॒र्णो यौ ते॒ ये युध्य॑न्ते॒ तप॑साऽ
ष्टाविꣳशती रेव॑तीः स॒ꣳर॑भध्वम॒ष्टावि॑ꣳशति॒र्यं ते॒ यत्त॒ उत्ति॑ष्ठात॒ इदं॑ त॒ उत्ति॑ष्ठ
मेत्य॒न्यद्वा उ॒द्गम॑मयं पञ्च॑विꣳशतिराया॑तु त्रिꣳशद्वैश्वान॒रे तस्मि॑न्नृ॒प्स इम॒म-
पेताहो॑भि॒र्युज्यन्ताम॒ग्न्निया अदि॑ते॒ पारं॑ व॒ आप्या॑यस्व स॒प्तवि॑ꣳशतिरुत्ते॑ त॒भ्नो-
म्य॑सि॒तित॑स्ते॒भ्यः पृथिवि षट्षोढा परं॑ मे श॒ग्मः पृ॑थि॒व्या अ॒न्तरि॑क्षस्य द्वात्रि॑ꣳ-
शदपूपवा॑नसौ॒ दश॑ श॒तं दैवैतास्तैं ते॒ दिशः सर्वा॑ अ॒श्मा॑न्विꣳशति॒रारो॑हत
त॒नुवै॒ क्रूरं च॑कार॒ पुन॑र्मृत्य॒वे मा नोऽनु॑ गाद्वह इ॒मा नारीः परि॒ त्रयो॑विꣳश-
तिर॒पं नः सु॒क्षेत्रि॑या॒ प्र यद्गन्दि॑ष्ठः॒ प्रय॑दग्नेः॒ प्र यत्तै॑ अग्ने॒ त्वꣳ हि द्विपः॑ स॒-
न्नः सिन्धु॑म्रापः॑ प॒ञ्चाहु॑हुतादा॑न॒न्दाय॒ न वै तत्र॒ चतु॑र्विꣳशति॒र्पश्या॒माऽऽह्व॑-
ञ्चीहि॒ द्वाद॑श॒ द्वाद॑श॒ परे॒ युवा॑ꣳसमा॒र्यात्वेतास्तैं स॒प्तवि॑ꣳशतिः ॥
ॐ तत्सत् । सं त्वा॑ सिञ्चामि॒ यजु॑षा प्र॒जामायु॒र्धनं॑ च ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ।
हरिः ॐ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठः प्रपाठकः
समाप्तः ॥ ६ ॥
यो दर्शपूर्णमासादिः पितृमेधान्त ईरितः ।
कर्मकाण्डः समग्रोऽयं व्याख्यातो बालबुद्धये ॥ १ ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ २ ॥
इति श्रीमद्धरीरबुक्कणसाम्राज्यधुरंधरश्रीमत्सायणाचार्यविरचिते माधवीये
वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये
षष्ठः प्रपाठकः समाप्तः ॥ ६ ॥
१ ग ॰र्णीये ।
आनन्दाश्रमसंस्कृतग्रन्थावलिः ।
ग्रन्थाङ्कः ३६
कृष्णयजुर्वेदीयं
तैत्तिरीयारण्यकम् ।
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् ।
( सपरिशिष्टम् । )
तत्र सप्तमप्रपाठकादारभ्य दशमप्रपाठकपर्यन्तोऽयं
सपरिशिष्टो द्वितीयो भागः ( २ ) ।
एतत्पुस्तकं वे० शा० रा० रा० “बाबाशास्त्री
फडके” इत्येतैः संशोधितम् ।
तच्च
बी० ए० इत्युपपदधारिभिः
विनायक गणेश आपटे
इत्येतैः
पुण्याख्यपत्तने
आनन्दाश्रममुद्रणालये
आयसाक्षरैर्मुद्रयित्वा
प्रकाशितम् ।
द्वितीयेयमङ्कनावृत्तिः ।
शालिवाहनशकाब्दाः १८४८
ख्रिस्ताब्दाः १९२७
( अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः )
मूल्यमाणकनवकसहितं रूपकचतुष्कम् ।
The provided image is completely blank and contains no visible text to transcribe. If you have another image or a clearer scan of the page, please share it and I will gladly transcribe it for you.
कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् ।
( तत्र * शीक्षोपनिषत्संज्ञकसप्तमप्रपाठकस्याऽऽरम्भः । )
प्रथमोऽनुवाकः ।
(+)वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे ।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ १ ॥
यस्य निश्श्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे त.महं वन्दे विद्यातीर्थमहेश्वरम् ॥ २ ॥
तत्कटाक्षेण तद्रूपं दधद्बुक्कमहीपतिः ।
आदिशत्सायणाचार्यं वेदार्थस्य प्रकाशने ॥ ३ ॥
ये पूर्वोत्तरमीमांसे ते व्याख्यायातिसंग्रहात् ।
कृपालुः सायणाचार्यो वेदार्थं वक्तुमुद्यतः ॥ ४ ॥
व्याख्यातः पितृमेधान्तः कर्मकाण्डो नयैः स्फुटम् ।
अथोपनिषदं न्यायैर्व्याकुर्वे ब्रह्मबुद्धये ॥ ५ ॥
अत्रं ह्युपनिषच्छब्दो >ह्यविद्यैकगोचरः ।
तच्छब्दावयवार्थस्य विद्यायामेव संभवात् ॥ ६ ॥
उपोपसर्गः सामीप्ये तत्प्रतीचि समाप्यते ।
सामीप्यात्तारतम्यस्य विश्रान्तेः स्वात्मनीक्षणात् ॥ ७ ॥
त्रिविधः सदिधात्वर्थो विद्यायां संभविष्यति ।
श्रीमत्सुरेश्वराचार्यैर्विस्पष्टमिदमीरितम् ॥ ८ ॥
“ उपनीयेममात्मानं ब्रह्मापास्तद्वयं स्वतः ।
निहन्त्यविद्यां तज्जं च तस्मादुपनिषद्भवेत् ॥ ९ ॥
निहत्यानर्थमूलां स्वाविद्यां प्रत्यक्तया परम् ।
गमयत्यस्तसंभेदंमतो वोपनिषद्भवेत् ॥ १० ॥
प्रवृत्तिहेतून्निःशेषांस्तन्मूलोच्छेदकत्वतः ।
यतोऽवसादयेद्विद्या तस्मादुपनिषन्मता ” इति ॥ ११ ॥
- अस्या एव सांहितिकोपनिषदित्यपरं नाम । + इत आरभ्य सप्तमाष्टमनवमेतिप्र-
पाठकत्रितयभाष्यमेव विद्यारण्यविरचिततैत्तिरीयोपनिषद्दीपिकाख्यया प्रसिद्धम् ।
१ ख. 'तीर्थे म' । २ क. ख. 'त्र चोप' ।