तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 450, कुल 914 में से
संदर्भ में पढ़ें[प्रपा०६अनु०११] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ४४७
अथ षष्ठ एकादशोऽनुवाकः ।
पूर्वानुवाके मृत्यवे स्वाहेति यो होम उक्तस्तदनन्तरमेवैतैर्मन्त्रैर्द्वादश स्रुवाहुतीर्जुहु-
यात् । तत्र प्रथमं मन्त्रमाह—
अप॑ नः शोशु॑चद॒घमग्ने॑ शु॒शु॒ध्या
र॒यिम् । अप॑ नः शोशु॑चद॒घम्, इति ।
पूर्वानुवाके व्याख्यातो मन्त्रः ।
अथ द्वितीयमाह—
सु॒क्षेत्रि॑या सु॑गातु॒या व॑सू॒या च॑ यजा-
महे । अप॑ नः शोशु॑चद॒घम्, इति ।
सुक्षेत्रिया शोभनक्षेत्रयोग्यया सुगातुया शोभनगतियोग्यया वसूया च धनप्राप्ति-
हेतुभूतयाऽप्यनयाऽऽहुत्या यजामहे पूजयामः । अप न इत्यादि पूर्ववत् ।
अथ तृतीयमाह—
प्र यद्भन्दि॑ष्ठ ए॒षां प्राऽस्माका॑सश्च
सू॒रय॑ः । अप॑ नः शोशु॑चद॒घम्, इति ।
यद्यदैषां ज्ञातीनां भन्दिष्ठोऽतिशयेन भद्रः पुरुषार्थः प्राप्यते, तदानीमास्माकासोऽ-
मत्संबंधिनः सूरयश्च विद्वांसोऽपि पुत्रपौत्रादयः प्राप्यन्ताम् ।
अथ चतुर्थमाह—
प्र यद॒ग्नेः स॑ह॒स्वतो॒ विश्वतो॑ य॒न्ति
सू॒रय॑ः । अप॑ नः शोशु॑चद॒घम्, इति ।
यच्छब्दः प्रसिद्धवाची । यत्प्रसिद्धाः सूरयो विद्वांसः सहस्वतो बलवतोऽग्नेः
-शात्सर्वतो यन्ति प्रकर्षेण प्राप्नुवन्ति ।
अथ पञ्चममाह—
प्र यत्ते॑ अग्ने सू॒रयो॒ जाये॑महि॒ प्र ते॑
व॒यम् । अप॑ नः शोशु॑चद॒घम्(१), इति ।
*हेऽग्ने ये वयं ते तव सूरयः स्तोतृनामैतत् । प्रकर्षेण स्तोतारः । यच्छब्दश्रुतेस्त-
- हेऽग्ने वयं ते तव यत्प्रसिद्धाः सूरयस्ते त्वदीयाः प्राप्ताः, अतो वयमपि ते त्वदीयाः
महि प्रकर्षेण भूयास्म, इति ग. पुस्तकस्थो भाष्यपाठः ।