तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 454, कुल 914 में से
संदर्भ में पढ़ेंHere is the line-by-line transcription in Unicode Devanagari, preserving all Vedic accents (svaras), punctuation, and layout of the original page:
प्रपा० ६ अनु० १२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ४५१
तेभ्यो॑ घृ॒तस्य॑ धार॒यितुं॑ मधु॒धारां॑ व्यु॒न्दती॑, इति ।
ये जीवा अस्मत्कुले जीवन्तो ये पुरुषाः सन्ति ये च मृताः सन्ति येऽपीदानीं
जाता उत्पन्ना ये च जन्त्या इतः परं जनयितव्याः, तेभ्यो धारयितुं तान्सर्वां-
न्पोषयितुं घृतस्य संबन्धिनी मधुधारा मधुररसोपेता [ धारा ] तया धारया व्युन्दती
विशेषेण क्लेदनयुक्ता राजगवी ] वर्तते ।
कल्पः—“ माता रुद्राणामिति द्वाभ्यामुत्सृजन्ति ” इति । तत्र प्रथमामाह—
मा॒ता रु॒द्राणां॑ दुहि॒ता वसू॑ना॒ꣳ॒ स्वसा॑ऽऽदि॒त्या-
ना॒म॒मृत॑स्य॒ नाभिः॑ । प्र णु॒ वो॑चं चिकि॒तुषे॑