सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 439, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 439

४३६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा०६अनु०७]
स॒वितै॒तानि॑ शरी॑राणि पृथि॒व्यै मा॒तुरुप॑स्थ॒
आद॑धे । तेभ्य॑ः पृथिवि॒ शं भ॑व, इति ।
एतानि शरीराणि शरीरावयवरूपाण्यस्थीनि मातृस्थानीयायाः पृथिव्या उपस्थ
उत्सङ्गे सविता प्रेरको देव आदधे सर्वतः स्थापयति । हे पृथिवि तेभ्योऽस्थिभ्यः
शं सुखहेतुर्भव ।
षड्ढोता॒ सूर्यं॑ ते॒ चक्षु॑र्गच्छतु॒ वात॑मा॒त्मा द्यां च॑
गच्छ पृथि॒वीं च॒ धर्म॑णा । अ॒पो वा॑ गच्छ॒ यदि॒ तत्र॑
ते हि॒तमोष॑धीषु प्रति॑तिष्ठा॒ शरी॑रैः, इति ।
कल्पः—‘‘अथैनमुपतिष्ठते—षड्ढोता सूर्यं ते चक्षुर्गच्छतु वातमात्मा द्यां च गच्छ
पृथिवीं च धर्मणा । अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रतितिष्ठा शरीरैः’’ इति।
षड्ढोतृसंज्ञको मन्त्राभिमानी देवोऽस्ति तदनुग्रहेण हे प्रेत त्वदीयं चक्षुः सूर्यं गच्छ-
त्विति योजनीयम् । अयं च मन्त्रः प्रथमानुवाके व्याख्यातः ।
कल्पः--‘‘भुक्तभोगेन वाससाऽस्थिकुम्भं निमृज्योपर्युपरि शिरो दक्षिणा व्युद-
स्यति--परं मृत्यो अनुपरेहि पन्थामिति, अथास्य कपालानि सुसंभिन्नानि संभिनत्ति
यथैषूदकं न तिष्ठेत् ’’ इति । पाठस्तु--
परं॑ मृत्यो॒ अनु॒परे॑हि॒ पन्थां॒ यस्ते॒ स्व इत॑रो
दे॒व॒याना॑त् । चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि॒ मा न॑ः
प्र॒जाꣳ री॑रिषो॒ मोत वी॒रान्, इति ।
हे मृत्यो देवयानादितरो यः पन्थास्ते स्वस्तव स्वभूतः, तं परं पन्थां देवया-
नादितरं तं मार्गमनुपरेहि अनुक्रमेण प्राप्नुहि । चक्षुष्मते साधुदर्शने शृण्वतेऽस्मद्वि-
ज्ञप्तीनां श्रोत्रे ते तुभ्यमेकं वचनं ब्रवीमि । नोऽस्मदीयां प्रजां पुत्रादिरूपां मा रीरिषो
मा विनाशय । उतापि च वीराञ्छूरान्मृत्यानपि मा रीरिषः ।
कल्पः--‘‘भुक्तभोगेन वाससा शरीराणि प्रच्छाद्योदपात्रेणोदुम्बरशाखया वोक्षति-
शं वातः ’’ इति । पाठस्तु--
शं वातः॑ शꣳ हि ते॑ घृ॒णिः शंसु॑ ते सन्त्वो-
ष॑धीः । कल्प॑न्तां मे॒ दिश॑ः श॒ग्माः, इति ।
१ ग. ˚ष्ठन्ते ष° । २ ग. ˚ति । यः ष° ।