तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 448, कुल 914 में से
संदर्भ में पढ़ेंHere is the complete, line-by-line transcription of the page, including Vedic accents (svara), punctuation, symbols, and footnotes exactly as printed:
प्रत॑रां दधा॑नाः । आप्याय॑मानाः प्र॒जया॑
धने॑न शुद्धाः पू॒ता भ॑वथ यज्ञियासः, इति ।
मृत्योर्मृत्युरूपस्यानडुहः पदं स्थानं योपयन्तो लोपयन्तो यदैम गच्छेमस्तदा* वयं
[पूर्ववद्द्राघीय आयुः प्रत॑रां (रा)[मति]प्रकर्षेण दधानाः प्रजया धनेन चाऽऽप्याय-
माना वर्धमानाः सन्तः, यज्ञियासो यज्ञयोग्याः शुद्धाः शरीरशुद्धियुक्ताः पूता द्रव्य-
शुद्धियुक्ताश्च भवथ । हे ज्ञातय इति द्रष्टव्यम् ।
कल्पः—“अथैभ्योऽध्वर्युर्दक्षिणतोऽइमानं परिधिं दधाति—इमं जीवेभ्यः परिधिं
दधामि” इति । पाठस्तु—
इ॒मं जी॒वेभ्यः॑ परि॒धिं द॑धामि॒ मा नो॒ऽनु॑गा॒द-
प॑रो