सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

[प्रपा० ३ अनु० ११] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । १८९
अयं सप्तहोतृदेवोऽग्न्यात्मकः सन्मयि यजमाने , मधुमद्घृतं मधुररसोपेतं घृतादि-
द्रव्यं तेजः कान्तिमिन्द्रियं चक्षुरादिसामर्थ्यं च दधातु संपादयतु ।
अथ नवमीमाह—
हरिः॑ पत॒ङ्गः प॑ट॒री सु॑प॒र्णः । दि॒विक्ष॑यो नभ॑सा य
एति॑ । स न॒ इन्द्रः॑ कामव॒रं द॑दातु, इति ।
हरिरन्धकारहरणशीलः पतङ्गः सूर्यरूपः पटरी तेजःपटलवान्सुपर्णः पक्षिस-
दृशो दिविक्षयः स्वर्गनिवासी यः सप्तहोतृदेवो नभसाऽऽकाशमार्गेणैति गच्छति ।
स देवो नोऽस्माकं कामवरं कामानां मध्ये श्रेष्ठं ददातु ।
अथ दशमीमाह—
प॒ञ्चारं॑ च॒क्रं परि॑वर्तते पृ॒थु । हिर॑ण्यज्योतिः
स॒रि॒रस्य॒ मध्ये॑ । अज॑स्रं॒ ज्योति॒र्नभ॑सा सर्प॑-
देति॑ । स न॒ इन्द्रः॑ कामव॒रं द॑दातु, इति ।
ऋतुपञ्चकात्मका अरा यस्य कालचक्रस्य तत्पञ्चारं पृथु विस्तृतं चक्रं संवत्स-
रात्मकं कालचक्रं परिवर्तते परितः प्रवर्तते । सरिरस्य मध्ये मेघवर्तिजलस्य मध्ये
रण्यज्योती रश्मिसंचारेण विद्युद्रूपपरिणामे सति सुवर्णसमानं ज्योतिर्यस्य मण्डलस्य
द्धेरण्यज्योतिस्तादृशं ज्योतिरादित्यमण्डलं संवत्सरचक्रनिष्पादकमजस्रं निरन्तरं
भसाऽऽकाशमार्गेण सर्पदेति शनैः संचरन् ग (मार्ण ग) च्छति । स ज्योतिर्मण्डलात्मा
ऽस्माकं कामवरं ददातु ।
अथैकादशीमाह—
स॒प्त यु॑ञ्जन्ति॒ रथ॒मेक॑चक्रम् ( ८ ) । एको॒ अश्वो॑
वह॑ति स॒प्तनामा॑ । त्रि॒नाभि॑ च॒क्रम॒जर॒मन॑र्वम् ।
येने॒मा विश्वा॒ भुव॑नानि॒ तस्थुः, इति ।
सप्तसंख्याकाः साकंजानामित्यत्रोक्ता मुख्यरश्मिविशेषा अश्वसदृशा एकचक्र-
रूपप्रकारपरिवर्ते कालचक्रं युञ्जन्ति प्रवर्तयन्ति । तदेव स्पष्टी क्रियते—सप्तनामा
सप्तसंख्यानि नामानि नमनयोग्यानि वश्यानि रश्मिरूपाणि यस्यासौ सप्तनामा । अश्वो
[व्य]ापक एकः सूर्यस्तत्कालचक्रं वहति । कीदृशं चक्रम्—त्रिनाभि तिस्रः सत्त्वरज-
स्तमोगुणरूपा भूतभविष्यद्वर्तमानरूपा वा नाभयो यस्य तत्रिनाभि । अजरं विनाशरहि-
१ क. ॰षोऽग्निर्मायि । ग. ॰षो द्रव्यात्म॰ । २ ग. ॰नर्वाम् । ये॑ ।

१९० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[प्रपा० ३अनु० ११]
तम्, न हि कालः संसारमध्ये कदाचिद्विनश्यति । अनर्वम्, अर्वा विरोधी विनाशको
भ्रातृव्यो वा अवेति श्रुतेः, तद्रहितम्, न हि कालचक्रस्य कश्चिद्विनाशकोऽस्ति । येन
कालचक्रेणेमा विश्वा भुवनानि दृश्यमानानि सर्वाणि भूतजातानि तस्थुस्तिष्ठन्ति सुखेन
वर्तन्ते, तस्य कालचक्रस्य निर्वाहकोऽयं सप्तहोतृदेव आदित्यः ।
अथ द्वादशीमाह—
भ॒द्रं पश्य॑न्त॒ उप॑सेदु॒रग्रे॑ । तपो॑ दी॒क्षामृ-
ष॑यः सुव॒र्विद॑: । तत॑: क्ष॒त्रं बल॒मोज॑श्च
जा॒तम् । तद॒स्मै दे॒वा अ॒भिसंन॑मन्तु, इति ।
सुवर्विदः स्वर्गमार्गाभिज्ञा ऋषयो भद्रं कल्याणं सप्तहोतृरूपमादित्यं पश्यन्तः
प्राप्यत्वेन निश्चिन्वानास्तपोऽनशनादिरूपं दीक्षां नियमविशेषं चोपसेदुरनुष्ठितवन्तः ।
तत आदित्यसकाशात्क्षत्रं क्षतात्राणमनिष्टनिवारणं बलं शरीरशक्तिरोजः कान्तिः
क्षेत्येतत्सर्वं जातं संपन्नम् । तँत्क्षत्रादित्रयमस्मै यजमानाय देवा अभिसंनमन्तु
अभितः संपादयन्तु ।
अथ त्रयोदशीमाह—
श्वे॒तꣳ र॒श्मिं बो॑भुज्यमा॑नम् । अ॒पां ने॒तारं॒ भुव॑नस्य
गो॒पाम् । इन्द्रं॑ निचिक्युः पर॒मे व्यो॑मन् ( ९ ), इति ।
परमे व्योमन्नुत्कृष्टे हृदयाकाश इन्द्रं परमैश्वर्ययुक्तं सप्तहोतृदेवमादित्यं निचिक्युः
निश्चितवन्तः, ध्यातवन्त इत्यर्थः । कीदृशमिन्द्रम्—श्वेतं प्रकाशरूपत्वेन शुक्लवर्णम् ।
रश्मिं रश्मियुक्तम् । बोभुज्यमानं सर्वैः प्राणिभिर्वृष्टिद्वारेण पुनः पुनर्भूज्यमानम् । एत-
देव स्पष्टी क्रियते—अपां नेतारम्, आदित्याज्जायते वृष्टिरिति स्मृत्या सूर्यो जलस्य
नेता तादृशम्, भुवनस्य गोपां भुवनस्य पालकम् ।
अथ चतुर्दशीमाह—
रोहि॑णीः पिङ्ग॒ला एक॑रूपाः । क्षर॑न्तीः पिङ्ग॒ला एक॑-
रूपाः । श॒तꣳ स॒हस्रा॑णि प्र॒युता॑नि ना॒व्या॑नाम्, इति ।
रोहिणी रोहितवर्णाः पिङ्गलाः पिङ्गलवर्णाश्च या आपस्तत्तद्भूमिसंबन्धेन बहु-
विधा दृश्यन्ते, ताः सर्वा अपि सप्तहोतृरूपस्याऽऽदित्यस्य रश्मिसंबन्धे सति मेघे-
१ ग. अनर्वाम् । २ ग. 'श्विनाश° । ३ क. यस्य । ४ क. °र्लोकमार्ग° । ५ ग.
'न्तिस्तिथे' । ६ घ. ग. तच्च क्षत्रा° । ७ क. °तृरूपणा' । ८ क 'पां गोप्तारं भूतजातस्य'
९ ग. °हिणः । १० क. 'तृदेवस्य'ऽऽ' ।

नानारूपत्वं परित्यज्यैकरूपा भवन्ति । तथा क्षरन्तीर्वृष्टिरूपेण भूमौ पतन्त्यस्ताः
पिङ्गलादिवर्णा आप एकरूपा भवन्ति । वृष्टिबाहुल्येन भूमौ नाव्यानां नावा
तरणीयानामपां शतं सहस्राणि प्रयुतानि शतसंख्या बहुविधसहस्रसंख्या बहुवि-
धलक्षसंख्यां च संपद्यते । वृष्टिकाले तत्र तत्रानेकप्रवाहा भवन्ति । तदेतत्सर्वं सप्त-
होतृमाहात्म्यम् ।
अथ पञ्चदशीमाह—
अ॒यं यः श्वे॒तो र॒श्मिः । परि॒ सर्व॑मि॒दं जग॑त् ।
प्र॒जां प॒शून्धना॑नि । अ॒स्माकं॑ ददातु, इति ।
अयमादित्यः श्वेतः श्वेतवर्णो रश्मी रश्मियुक्तोऽस्ति । सोऽयं सर्वमिदं जगत्परि-
व्याप्य वर्तमानोऽस्माकं प्रजादिकं ददातु ।
अथ षोडशीमाह—
श्वे॒तो र॒श्मिः परि॒ सर्वं॑ बभूव । सु॒वन्महां॑ प॒शून्वि॒श्वरू॑पान्, इति ।
श्वेतः शुक्लवर्णो रश्मी रश्मियुक्त आदित्यः सर्वं जगत्परिबभूव परितो व्याप्तवान्,
तादृश आदित्यो महां विश्वरूपान्गोमहिष्यादिरूपेण बहुविधान्पशून्सुवत्सौतु, प्रेर-
यत्वित्यर्थः ।
अथ सप्तदशीमाह—
प॒त॒ङ्ग-म॒क्तमसु॑रस्य मा॒यया॑ ( १० ) । हृ॒दा प॑श्यन्ति
मन॑सा मनी॒षिण॑: । स॒मु॒द्रे अ॒न्तः क॒वयो॒ विच॑-
क्षते । मरी॑चीनां प॒दमि॑च्छन्ति वे॒धस॑:, इति ।
असून्प्राणान्राति ददातीत्यसुरः परमात्मा, तस्य माययाऽचिन्त्यशक्त्याऽक्तंम
व्यक्तं पतङ्कमादित्यं हृदा मनसा हृत्पुण्डरीकगतेन नियमितैनान्तःकरणेन मनी-
षिणो वेदशास्त्राभिज्ञा महर्षयः पश्यन्ति ध्यात्वा साक्षात्कुर्वन्ति । कवयो लौकिकैर्वार्ता-
भिज्ञाः पुरुषाः समुद्रे अन्तः समुद्रसमानेऽन्तरिक्षमध्ये विचक्षते विशेषेण कथयन्ति,
मादित्य उदितो मध्याह्ने समागत इत्यादिव्यवहारं कुर्वन्ति । वेधसो विधातारोऽ-
नेककुशलाः केचिद्यजमाना मरीचीनां पदं रश्मीनां स्थानमादित्यमिच्छन्ति । आदि-
त्यसायुज्यप्राप्त्यर्थमनुतिष्ठन्तीत्यर्थः ।
१ ख. °न नाव्या° । २ क. °मौ नानारूपे(पा)णामेकरूपाणां च नाव्या । ३ ग. °क्षस्रं ।
स्याश्च सं° । ५ क. °हात्म्यामित्यर्थः । अ° । ६ क. ख. °वन्सोतु । ७ क. °कवृत्तान्ताभि° ।

अथाष्टादशीमाह—
पत॒ङ्गो वाचं॒ मन॑सा बिभर्ति । तां ग॑न्ध॒र्वोऽव॑-
द॒द्गर्भे॑ अ॒न्तः । तां द्योत॑मानाꣳ स्वर्यै मनी॒-
षाम् । ऋ॒तस्य॑ प॒दे क॒वयो॒ निपा॑न्ति, इति ।
पतङ्ग आदित्यो मनसा स्वकीयेन प्राणिनां वाचं बिभर्ति धारयति, अन्तर्यामिरू-
पेण वाचं प्रेरयतीत्यर्थः । तथाच पौराणिका आहुः— “योऽन्तः प्रविश्य मम वाच-
मिमां प्रसुप्तां संजीवयत्यखिलशक्तिधरः स्वधाम्ना” इति । तामादित्यप्रेरितां वाचं गर्भे
अन्तः शरीरस्य मध्ये गन्धर्वनामको वायुरवददुच्चारयति । गन्धान्वहतीति व्युत्पत्त्या
गन्धर्वशब्दो वायुमाचष्टे । वायुर्हि ताल्वादिं२संयुक्तो वाचमुच्चारयति । तां वायुनोच्चारितां
द्योतमानां प्रकाशमानां स्वर्यं स्वर्गस्य हेतुभूतां मनीषां मनस ईशित्रीमाह्लादकरी-
मित्यर्थः । तादृशीं वाचं कवयः शास्त्राभिज्ञा ऋतस्य पदे सत्यस्य ३परब्रह्मणः स्थाने
निपान्ति नितरां पालयन्ति । परब्रह्मविषयाणि वेदवाक्यानि सर्वदा पठन्तीत्यर्थः ।
तदेतत्सर्वं वाचः प्रेरकस्याऽऽदित्यस्य माहात्म्यम् ।
अथैकोनविंशीमाह—
ये ग्राम्याः प॒शवो॑ वि॒श्वरू॑पाः । विरू॑पाः सन्तो॑
बहु॒धैक॑रूपाः । अ॒ग्निस्ताꣳ अग्रे॒ प्रमु॑मोक्तु
दे॒वः (११) । प्र॒जाप॑तिः प्र॒जया॑ संविदा॒नः, इति ।
ये पशवो ग्राम्या ग्रामे भवा गवांश्वादयो विश्वरूपा जातिभेदैर्बहुविधा विरू-
वर्णादिभेदेन विविधाकारा एवं बहुधा दृश्यमानाः सन्तोऽपि पुनः पशुत्वाकारेणैक-
रूपास्तान्सर्वानग्निरूपः सप्तहोतृदेवोऽग्रे प्रमुमोक्तु प्रथमं तत्तत्स्थानात्प्रमुञ्चतु, प्रमुच्य
स्मभ्यं ददात्वित्यर्थः । प्रजापतिश्च स्वकीयया प्रजया संविदान ऐकमत्यं गतो
स्मभ्यं पशून्ददात्विति शेषः ।
अथ विंशीमाह—
वीतं॒ स्तुके॑ स्तुके । यु॒वम॒स्मासु॑ निर्य-
च्छतम् । प्र प्र॑

मस्मासु नियच्छतं नियमेन संपादयतम् । यज्ञपतिं यजमानं प्रप्रतिरात्यन्तं प्रकर्षेण
वर्धयतम् ।
अथैकविंशीमाह—
ये ग्रा॒म्याः प॒शवो॑ वि॒श्वरू॑पाः । विरू॑पाः सन्तो॑
बहु॒धैकरू॑पाः । तेषा॑ꣲ स॒प्ताना॑मि॒ह रन्ति॑रस्तु ।
राय॒स्पोषाय सुप्र॒जास्त्वा॑य सु॒वीर्या॑य, इति ।
ग्राम्यादिशब्दाः पूर्ववद्योज्याः । तेषां ग्राम्यपशूनां सप्तानां गोश्वाजाविपुरुषगर्द-
भोष्ट्ररूपाणां सप्तसंख्याकानामिहास्मद्गृहे रन्तिः क्रीडाऽस्तु । तच्च धनपुष्टिशोभनापत्य-
शोभनवीर्यार्थं संपद्यते ।
अथ द्वाविंशीमाह—
य आ॑र॒ण्याः प॒शवो॑ वि॒श्वरू॑पाः । विरू॑पाः
सन्तो॑ बहु॒धैकरू॑पाः । वा॒युस्ताꣲ अग्रे॒ प्रमु॑मोक्तु
दे॒वः । प्र॒जाप॑तिः प्र॒जया॑ संविदानः, इति ।
अरण्ये भवा आरण्या द्विखुराः श्वापदादयस्तानरण्याधिपतिर्वायुः प्रमुमोक्तु । अन्य-
त्पूर्ववत् ।
अथ त्रयोविंशीमाह—
इडा॑यै सृ॒प्तं घृ॒तव॑च्च॒राच॑रम् । दे॒वा अन्व॑विन्दन्गुहा॑हि॒तम् , इति ।
इडायै गोसंपादनार्थं सृप्तं प्राप्तं घृतवद्घृतयुक्तं घृताकारमित्यर्थः । तादृशं चरा-
चरं स्थावरजङ्गमस्वरूपं जगदनुग्रहीतुं गुहाहितं प्राणिनां बुद्धाववस्थितं सप्तहोतृदेवं देवा
अन्वविन्दन्नन्विष्य लब्धवन्तः ।
अथ चतुर्विंशीमाह—
य आ॑र॒ण्याः प॒शवो॑ वि॒श्वरू॑पाः । विरू॑पाः सन्तो॑
बहु॒धैकरू॑पाः । तेषा॑ꣲ स॒प्ताना॑मि॒ह रन्ति॑रस्तु ।
राय॒स्पोषाय सुप्र॒जास्त्वा॑य सु॒वीर्या॑य (१२), इति।
आ॒त्मा जना॑नां वि॒कुर्वन्तं॑ विप॒श्चिं प्र॒जानां॑ वसु॒धानीं॑ वि॒राजं॒ चर॑न्तं
गो॒मती॑ मे॒ निय॑च्छत्वेक॑चक्रं व्यो॑मन्मा॒यया॑ दे॒व एक॑रूपा अ॒ष्टौ च॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठक
एकादशोऽनुवाकः ॥ ११ ॥
१ ग. ॰तिरोऽत्य॰। २ ख. ॰श्वावि॰। ३ ख. ॰ष्ट्रमाहिषरू॰। ४ क. ॰पुष्ट्यर्थं शोभनमप्रजार्थं
शोभन॰ ।
२५

१३४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [प्रपा०३अनु०१२]
सप्तानां द्विखुरश्वापदपक्षिसरीसृपहस्तिमर्कटनादेयानाम् । अन्यत्पूर्ववत् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्याकभाष्ये तृतीयप्रपाठके एकादशोऽनुवाकः ॥ ११ ॥
अथ तृतीये द्वादशोऽनुवाकः ।
एतैरेकादशभिरनुवाकैश्चातुर्होत्रीयचयनमन्त्रा उक्ताः । नारायणनाम्ना पुरुषसूक्तनाम्ना
च व्यवह्रियमाणोऽनुवाक उच्यते । तस्य विनियोगं महाग्नावापस्तम्ब आह-“पुरस्ता-
त्प्रतीचीं पुरुषाकृतिं चिनोति पुरुषशिरोऽस्याः शिरो भवति, सहस्रशीर्षा पुरुष इत्युप-
हितां पुरुषेण नारायणेन यजमान उपतिष्ठते” इति । ब्रह्ममेधेऽपि प्रेतदाहोपस्थाने विनि-
योगं भरद्वाज आह--“नारायणाभ्यामुपस्थानम् ” इति । अयं चोत्तरश्चेत्युभावानु-
वाकौ नारायणसंज्ञौ नारायणाख्येन केनचिदृषिणा दृष्टत्वात्, जगत्कारणस्य नारायणा-
ख्यस्य पुरुषस्य प्रतिपादकत्वाच्च । तत्रास्मिन्द्वारुशेऽनुवाके प्रथमामृचमाह--
सहस्र॑शीर्षा पुरु॑षः । स॒ह॒स्रा॒क्षः स॒हस्र॑पात् ।
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद्दशाङ्गु॒लम्, इति ।
सर्वप्राणिसमष्टिरूपो ब्रह्माण्डदेहो विराडाख्यो यः पुरुषः सोऽयं सहस्रशीर्षा,
सहस्रशब्दस्योपलक्षणत्वादनेन्तैः शिरोभिर्युक्त इत्यर्थः । यानि सर्वप्राणिनां शिरांसि
तानि सर्वाणि तद्देहान्तःपातित्वात्तदीयान्येवेति सहस्रशीर्षत्वम् । एवमक्षिषु पादेष्वपि
योजनीयम् । स पुरुषो भूमिं ब्रह्माण्डगोलकरूपां विश्वतो वृत्वा सर्वतः परिवेष्ट्य
दशाङ्गुलपरिमितं देशमत्यतिष्ठदतिक्रम्य स्थितः । दशाङ्गुलमित्युपलक्षणं ब्रह्माण्डाद्व-
हिरपि सर्वतो व्याप्यावस्थित इत्यर्थः ।
अथ द्वितीयामाह--
पुरु॑ष ए॒वेदꣳ सर्वम्॑ । यद्भू॒तं यच्च॒ भव्य॑म् ।
उ॒तामृ॑त॒त्वस्येशा॑नः । यदन्ने॑नाति॒रोह॑ति, इति ।
यद्भूतमतीतं जगत्, यच्च भव्यं भविष्यज्जगत् । यदपीदं वर्तमानं जगत्, तत्सर्वं
पुरुष एव । यथाऽस्मिन्कल्पे वर्तमानाः प्राणिदेहाः सर्वेऽपि विराट्पुरुषस्यावयवाः,
१ क. ॰हौत्रिय॰ । २ क. ख. अभिहिताः । ३ ख. ग. ॰शिरो भ॰ । ४ ग. ॰तिष्ठेत'
इ॰ । ५ क. ॰गं भार॰ । ६ क. रश्चैतावुभा॰ । ७ क. ॰ख्यो योऽयं पु॰ । ८ क. ॰क्षिपा॰ ।

[प्रपा० ३अनु० १२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । १९५
त्र्येवातीतागामिनोरपि कल्पयोर्द्रष्टव्यम् । उतापि चामृतत्वस्य देवत्वस्यायमीशानः
स्वामी । यद्यस्मात्कारणादन्नेन प्राणिनां भोग्येनान्नेन निमित्तभूतेनातिरोहति स्वकीय-
कारणावस्थामतिक्रम्य परिदृश्यमानां जगदवस्थां प्राप्नोति । तस्मात्प्राणिनां कर्मफलभो-
गाय जगदवस्थास्वीकारान्नेदं तस्य वस्तुतत्त्वमित्यर्थः ।
अथ तृतीयामाह—
ए॒तावा॑नस्य महि॒मा । अतो॒ ज्यायाँ॑श्च॒
पूरु॑षः ( १ ) । पादो॑ऽस्य॒ विश्वा॑
भू॒तानि॑ । त्रि॒पाद॑स्या॒मृतं॑ दि॒वि, इति ।
अतीतानागतवर्तमानरूपं जगद्यावदस्त्येतावान्सर्वोऽप्यस्य पुरुषस्य महिमा स्वकी-
यसामर्थ्यविशेषो न तु तस्य वास्तवं स्वरूपम्, वास्तवस्तु पुरुषः, अतो महि-
म्नोऽपि ज्यायानतिशयेनाधिकः । एतच्च स्पष्टी क्रियते । विश्वा भूतानि कालत्रय-
वर्तीनि प्राणिजातानि अस्य पुरुषस्य पादश्चतुर्थोऽशः । अस्यावशिष्टं त्रिपात्स्व-
रूपममृतं विनाशरहितं सद्दिवि द्योतनात्मक स्वप्रकाशरूपेऽवतिष्ठते । यद्यपि सत्यं
ज्ञानमनन्तं ब्रह्मेत्याम्नातस्य परब्रह्मण इयत्ताया अभावादंशचतुष्टयं न निरूप-
यितुं शक्यं तथाऽपि जगदिदं ब्रह्मस्वरूपापेक्षयाऽत्यल्पमिति विवक्षित्वा पादत्वो-
पन्यासः ।
अथ चतुर्थीमाह—
त्रि॒पादूर्ध्व उदै॒त्पूरु॑षः । पादो॑ऽस्ये॒हाऽऽभ॑वा॒त्पुन॑: ।
ततो॒ विष्व॒ङ् व्य॑क्रामत् । सा॒श॒ना॒न॒श॒ने अ॒भि, इति ।
योऽयं त्रिपात्पुरुषः संसारस्पर्शरहितब्रह्मस्वरूपः सोऽयमूर्ध्व उदैदस्मादज्ञानका-
र्यात्संसाराद्बहिर्भूतः सन्नत्रत्यैर्गुणदोषैरस्पृष्ट उत्कर्षेण स्थितवान् । तस्य योऽयं पादो
शः सोऽयमिह मायायां पुनराभवत् । सृष्टिसंहाराभ्यां पुनः पुनरागच्छति ।
अस्य सर्वस्य जगतः परमा॑त्मांशत्वं भगवताऽप्युक्तम्—“ विष्टभ्याहमिदं कृत्स्नमेकां-
शेन स्थितो जगत् ” इति । ततो मैयायामागत्यानन्तरं विष्वङ्देवतिर्यगादिरूपेण
विधः सन्व्यक्रामाद्व्यचासवान् । किं कृत्वा साशनानशने अभिलक्ष्य साशनं भोज-
१ ग. पुरुषः । २ ख. ॰स्त्वं वस्तु । ग ॰स्त्वन्नवस्तु । ३ क. ख. ॰त्तच्चोभयं स्प॰ । ४ क.
। सर्वभू॰ । ख. ॰ते । सर्वाणि भू॰ । ५ ख. ॰तं तच्च दिवि । ६ क. ॰त्ताभा॰ । ७ ग. ॰क्षित-
त्वाद् । ८ ग. तवहुलस्व॰ । ९ क. ॰र्षेणावस्थि॰ । १० क. ॰मात्मदेश॰ । ११ ग. माय-
ऽऽग॰ । १२ ख. ॰यामा॰ ।

, top stroke... wait!
Could it be 'र्शाङ्ख्यातिरिक्तो' or is it 'विशेषातिरिक्त'?
Wait, look at footnote 6:
"६ ख. ॰राद्वति॰ ।"
Wait, what is footnote 6 attached to?
"॰राद्वति॰" -> "विराडभूदिति"? No, "अत्यरिच्यत"?
Look at the end of the line: "मनुष्यादिरूपोऽ-"
"भूत् ।"
Look at : "विर्शाङ्ख्यातिरिक्तो" or "विशङ्ख्यातिरिक्तो"?
Wait! It has 'वि', then 'र्', 'शा', 'ङ्', 'ख्या':
Wait, look at 'ङ्ख्या': dot above? No, ङ् + ख + य = ङ्ख्या.
Wait, why would it say "विर्शाङ्ख्यातिरिक्तो"?
Could it be "विशङ्ख्यातिरिक्तो" from "संख्या"? "विगतसंख्यातिरिक्तो"? "वि-संख्यातिरिक्तो"?
Or is it a corruption of "विशेषातिरिक्तो" or "विशङ्ख्यातिरिक्तो"?
Let's transcribe what is visually printed:
"विर्शाङ्ख्यातिरिक्तो" or "विशाङ्ख्यातिरिक्तो".
It has: 'वि' then 'र्' over 'शा', then 'ङ्ख्या' (ङ् with ख्य attached below/right).

। आरण्या द्विखुरादयस्तथा ये ग्राम्या गवाश्वादयस्तानप्युत्पादितवान् । पशूना-`

Line 26 ends with पशूना-
Line 27 starts with: [मन्त]रिक्षद्वारा वायुदेवत्यत्वं मन्त्रान्तरव्याख्याने समाम्नातम्—‘वायवस्थेत्याह वायुर्वा

Line 27 ends with वायुर्वा
Line 28 starts with: [अन्त]रिक्षस्याध्यक्षः । अन्तरिक्षदेवत्याः खलु वै पशवः । वायव एवैनान्परिद-

Line 28 ends with परिद-
Line 29 starts with: [दा]ति’ इति ।

  • Footnotes:
    १ क. घ. ‘न्ति । ते ह्यादि’ । २ ग. यः । ३ क. ख. ॰नसं यज्ञं नि’ ।
    Wait, in footnote 1: १ क. घ. 'ति । ते ह्य्रादि' । or 'ति । ते ह्यादि'?
    Looking at ह्यादि: it has ह्य with ा -> ह्यादि.

Let's output the text faithfully with line markers to . Bracket the reconstructed trimmed characters like `[प्र

१९८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० ३अनु० १२]
अथ दशमीमाह—
तस्मा॓द्य॒ज्ञात्स॑र्व॒हुतः॑ । ऋचः॒ सामा॑नि जज्ञिरे ।
छन्दा॑ꣳसि जज्ञिरे॒ तस्मा॑त् । यजु॒स्तस्मा॑दजायत (४), इति ।
छन्दांसि गायत्र्यादीनि । स्पष्टमन्यत् ।
अथैकादशीमाह—
तस्मा॒दश्वा॑ अजायन्त । ये के चो॑भ॒याद॑तः । गावो॑
ह जज्ञिरे॒ तस्मा॑त् । तस्मा॑ज्जा॒ता अ॑जा॒वयः॑, इति ।
अश्वव्यतिरिक्ता गर्दभा अश्वतराश्च ये केचिदूर्ध्वाधोभागयोरुभयोर्दन्तयुक्ताः सन्ति
तेऽप्यश्ववदजायन्त । तथा गावोऽजाश्वावयश्च ते सर्वेऽप्युत्पन्नाः ।
अथ द्वादशीमाह—
यत्पुरु॑षं॒ व्यद॑धुः । क॒ति॒धा व्य॑कल्पयन् । मुखं॒
किम॑स्य॒ कौ बा॒हू । कावू॒रू पादा॑वुच्येते, इति ।
प्रश्नोत्तररूपेण ब्राह्मणादिसृष्टिं वक्तुमत्र ब्रह्मवादिनां प्रश्ना उच्यन्ते—प्रजापतेः
प्राणरूपा देवा यद्यदा पुरुषं विराड्रूपं व्यदधुः संकल्पेनोत्पादितवन्तः । तदानीं
कतिधा कतिभिः प्रकारैर्व्यकल्पयन्विविधं कल्पितवन्तः॑। एष सामान्यरूपः प्रश्नः। मुखं
किमित्यादयो विशेषप्रश्नाः । अन्यत्स्पष्टम् ।
अथ त्रयोदशीमाह--
ब्रा॒ह्म॒णो॑स्य॒ मुख॑मासीत् । बा॒हू रा॑ज॒न्यः॑ कृ॒तः ( ५ )
ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ । प॒द्भ्यांꣳशू॒द्रो अ॑जायत, इति ।
योऽयं ब्राह्मणत्वजातिविशिष्टः पुरुषः सोऽयमस्य प्रजापतेर्मुखमासीत्, मुखादु-
त्पन्न इत्यर्थः । योऽयं राजन्यः क्षत्रियजातिः स बाहुत्वेन निष्पादितः बाहुभ्यामुत्पा-
दित इत्यर्थः । तत्तदानीं यौ प्रजापतेरूरू तद्रूपो वैश्यः संपन्नः, ऊरुभ्यामुत्पन्न
इत्यर्थः । तथा पँद्भ्यां शूद्र उत्पन्नः । इयं च मुखादिभ्यो ब्राह्मणादीनामुत्पत्तिः सप्ता-
मकाण्डे “ स मुखतस्त्रिवृतं निरमिमीत ” इत्यादौ विस्पष्टमाम्नाता । अतः प्रश्नोत्तरे
उभे अपि तत्परत्वेनैव योजनीये ।
अथ चतुर्दशीमाह—
च॒न्द्रमा॒ मन॑सो जा॒तः । चक्षोः॒ सूर्यो॑ अजायत ।
१ क. ख. ॰कारैः क° । २ ख. ॰न्तः । अ° । ३ ग. ॰श्वाः । अथ । ४ क. ख. पादाभ्यां ।

[प्रपा० ३अनु० १२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । १६९

मु॒खादिन्द्र॑श्चा॒ग्निश्च॑ । प्रा॒णाद्वा॒युर॑जायत, इति ।
यथा दध्याज्यादिद्रव्याणि गवादिपशव ऋगादिवेदा ब्राह्मणादिमनुष्याश्च तस्मादु-
पन्नाः, एवं चन्द्रादयो देवा अपि तस्मादेवोत्पन्नाः । चक्षोश्चक्षुषः ।
अथ पञ्चदशीमाह--
नाभ्या॑ आसीद॒न्तरि॑क्षम् । शी॒र्ष्णो द्यौः सम॑वर्तत । प॒द्भ्यां
भूमि॒र्दिशः॒ श्रोत्रा॑त् । तथा॑ लो॒काँ२ अ॑कल्पयन् (६), इति ।
यथा देवास्तस्मादुत्पन्नास्तथा लोकानप्यन्तरिक्षादीन्प्रजापतेर्नाभ्याद्यवयवेभ्योऽकल्प-
न्नुत्पादितवन्तः ।
अथ षोडशीमाह--
वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्॑ । आ॒दि॒त्यव॑र्णं
तम॑स॒स्तु पा॒रे । सर्वा॑णि रू॒पाणि॑ वि॒चित्य॑
धीरः॑ । नामा॑नि कृ॒त्वाऽभि॒वद॒न्यदास्ते॑, इति ।
यथोक्तविराट्पुरुषध्यानमत्र प्रतिपाद्यते । तत्र मन्त्रद्रष्टा स्वकीयं ध्यानानुभवं प्रक-
टयति— यद्यः पुरुषः सर्वाणि रूपाणि देवमनुष्यशरीराणि विचित्य विशेषेण
ष्पाद्य नामानि च देवोऽयं मनुष्योऽयं पशुरयमित्यादीनि कृत्वाऽभिवदंस्तैर्नाम-
रभितो व्यवहरन्नास्ते, एतं पुरुषं विराजं महान्तं सर्वगुणैरधिकमादित्यवर्णमादि-
वत्प्रकाशमानं वेदाहं जानामि, ध्यानेन सर्वदाऽनुभवामीत्यर्थः । स च पुरुषस्तमसः
ऽज्ञानात्परस्ताद्वर्तते । अतो गुरुशास्त्रोपदेशरहितैर्मुन्दैरनुभवितुमशक्ये इत्यर्थः ।
अथ सप्तदशीमाह--
धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ । श॒क्रः प्रवि॒द्वान्प्र॒दिश॒श्चत॑स्रः । तमे॒वं
वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॒ अय॑नाय विद्यते, इति ।
धाता प्रजापतिर्यं विराट्पुरुषमुदाजहार ध्यातॄणामुपकारार्थं प्रख्यापितवान् ।
सः प्रदिशश्चतस्रो दिक्षु वर्तिनः सर्वान्प्राणिनः प्रविद्वान्प्रकर्षेण जानञ्शक्र इन्द्रस्तद-
हार्धं प्रख्यापितवान् । धातुरिन्द्रस्योपदेशात्तं विराट्पुरुषमेवमुक्त प्रकारेण विद्वा-
न्सात्कुर्वनिहास्मिन्नेव जन्मन्मृतो मरणरहितो भवति । यदा विराट्पुरुषोऽह-
। साक्षात्करोति तदानीं वर्तमानदेहस्यै तँत्स्वरूपत्वाभावात्तन्मरणेनायमपासको न


१ ग. 'यं पु° । २ क. 'क्यमित्य° । ३ क. 'स्य रटस्तरु' । ४ ख. तदृप्रत्यक्षरू ।
• 'वादन्यमा' ।

श्रियते । अयनायामृतत्वप्राप्तयेऽन्यः पन्था यथोक्तविराट्पुरुषसाक्षात्कारमन्तरेणान्यो
मार्गो न विद्यते । न हि कर्मसहस्रैरप्यमृतत्वं संपादयितुं शक्यते । ' न कर्मणा न
प्रजया धनेन ' इत्यादिशास्त्रात् ।
७. अथाष्टादशीमाह—
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः । तानि॒ धर्मा॑णि प्रथ॒-
मान्या॑सन् । ते ह॒ नाकं॑ महि॒मान॑: सचन्ते ।
यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ( ७ ) , इति ।
पूरु॑षः पु॒रोऽग्रतो॒ऽजायत कृ॒तोऽक॑ल्पयन्नास॒न्दे च॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके
द्वादशोऽनुवाकः ॥ १२ ॥
अत्र कृत्स्नानुवाकतात्पर्यं संक्षिप्योपन्यस्यति—देवाः प्रजापतिप्राणरूपा यज्ञेन
यथोक्तेन मानसेन संकल्पेन यज्ञं यथोक्तयज्ञस्वरूपं प्रजापतिमयजन्त पूजितवन्तः।
तस्मात्पूजनात्तानि प्रसिद्धानि धर्माणि जगद्रूपविकाराणां धारकाणि प्रथमानि
मुख्यभूतान्यासन् । एतावता सृष्टिप्रतिपादकोऽनुवाकभागार्थः संगृहीतः । अथोपासन-
तत्फलरूपोऽनुवाकभागार्थः संगृह्यते—यत्र यस्मिन्विराट्प्राप्तिरूपे नाके पूर्वे साध्या
पुरातना विराडुपास्तिसाधका देवाः सन्ति तिष्ठन्ति तं नाकं विराट्प्राप्तिरूपं स्वं
ते महिमानस्तदुपासका महात्मानः सचन्ते समवयन्ति प्राप्नुवन्ति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्ति-
रीयारण्यकभाष्ये तृतीयप्रपाठके द्वादशोऽनुवाकः ॥ १२ ॥
अथ तृतीये त्रयोदशोऽनुवाकः ।
अथोत्तरनारायणाख्यः कश्चिदनुवाकस्तस्य च विनियोगं पुरुषमेधे आपस्त
आह—“उत्तरनारायणेनाऽऽदित्यमुपस्थाय” इति । तत्र प्रथमामृचमाह—
अ॒द्भ्यः संभूत॑: पृथि॒व्यै रसा॑च्च । विश्व॑क-
र्मण॒: सम॑वर्त॒ताधि॑ । तस्य॒ त्वष्टा॑ वि॒दध॑-
द्रूप॑मेति । तत्पुरु॑षस्य वि॒श्वमाजा॑न॒मग्रे॑, इति ।
१ क. ख. 'राड्रूपोपा' । २ ख. ग. समयन्ति ।

प्रपा० ३ अनु० १३] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । २०१
योऽयं विराड्रूपो नारायणाख्यः पुरुषः सोऽयमद्भ्यः संभूतः सर्वत्र व्याप्तेषु जलेषु
तेरमध्ये मण्डवद्ब्रह्माण्डगोलकमुत्पन्नम् । न केवलमद्भ्य एव किंतु पृथिव्यै रसाच्च
म्प्याः संबन्धी योऽयं रसः सारस्तस्मादप्युत्पन्नः । “मण्डस्य योऽयं घनीभावः स
र्थिवः, ये च तन्मध्ये द्रवांशास्त आप्याः, यत्कठिनं सा पृथिवी, यद्द्रवं तदापः”
त्यादिश्रुतेः । विश्वकर्मणो जगत्कर्तुः परमेश्वरादधिसमवर्तताऽऽधिक्येन निष्पन्नो
ोऽयं ब्रह्माण्डाभिमानी चेतनः पुमान्सोऽयमीश्वरांशस्तस्य विराट्पुरुषस्य रूपं चतुर्दश-
क³रूपायवयसंस्थानं विदधन्निष्पादयंस्त्वष्टा विश्वकर्मा⁴ जगदीश्वरः । एति प्रवर्तते ।
रूपस्य विराडाख्यस्य संबन्धि तद्विश्वं प्रसिद्धं देवमनुष्यादिरूपं सर्वं जगदग्रे सृष्ट्या-
त्राजातं सर्वत उत्पन्नम् ।
अथ द्वितीयामाह—
वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्॑ । आ॒दि॒त्यव॑र्णं
तम॑सः प॒रस्ता॑त् । तमे॒वं वि॒द्वान॒मृत॑ इ॒ह
भ॑वति । नान्यः पन्था॑ विद्य॒तेऽय॑नाय, इति ।
पूर्ववद्व्याख्येयम् ।
अथ तृतीयामाह--
प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः । अजा॑यमानो बहु॒धा
विजा॑यते ( १ ) । तस्य॒ धीराः॒ परि॑जानन्ति
योनि॑म् । मरी॑चीनां प॒दमि॑च्छन्ति वे॒धस॑ः, इति ।
ब्रह्माण्डरूपे गर्भेऽन्तर्मध्ये प्रजापतिर्विग्रहवान्भूत्वा चरति । स च वास्तवेन रूपेण
त्यं ज्ञानमनन्तं ब्रह्म²त्यादिश्रुत्या प्रतिपादनादजायमान एव तथाऽपि मायिकेन रूपेण
हुधा स्थावरजङ्गमादिबहुप्रकारो विशेषेण जायते । तस्य प्रजापतेर्योनिं जगत्कारण।
पं वास्तवं स्वरूपं धीरा धैर्यवन्तो योगेन निरुद्धेन्द्रिया महात्मानो जानन्ति ।
धसो विधातारः सृष्टिकर्तारस्तमेवोपास्य मरीचीनां मरीच्यत्रिप्रमुखानां(णां)महर्षीणां
दं जगदुत्पादकत्वलक्षणमिच्छन्ति ।
अथ चतुर्थीमाह—
यो दे॒वेभ्य॒ आत॑पति । यो दे॒वानां॑ पु॒रोहि॑तः । पूर्वो॑ यो
१ क. ख. सर्वतो । २ क. ˚ह्मन् । म॑ । ३ ख. ˚लोका।˚ । ४ क. ˚र्मा सर्वं ज˚। ५ ख.
। ˚होत्येतादृशत्वाद्वा˚ । ६ ख. ˚तारस्त्यीक˚ ।
२६

२०२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०३अनु०१३]
दे॒वेभ्यो॑ जा॒तः । नमो॑ रु॒चाय॑ ब्राह्म॑ये , इति॑ ।
यः परमेश्वरो देवेभ्यो देवार्थमातपति सर्वत्र प्रकाशते, देवानां देवत्वसिद्धये
तत्तद्धृदयेषु चैतन्यरूपेण प्रविश्याऽऽविर्भवति । यश्च देवानां पुरोहितो बृहस्पतिर्बभूव
“बृहस्पतिर्देवानां पुरोहितः” इति श्रुतेः । यश्च देवेभ्यः पूर्वो जातः प्रथमभावी हिर-
ण्यगर्भरूपेणोत्पन्नः “हिरण्यगर्भः समवर्तताग्रे” इति श्रुतेः । तादृशाय रुचाय रोच-
मानाय स्वयंप्रकाशाय ब्राह्मये परब्रह्मस्वरूपाय ब्रह्मणा वेदेन प्रतिपाद्याय वा नमो
नमस्कारोऽस्तु ।
अथ पञ्चमीमाह—
रुचं॑ ब्रा॒ह्मं ज॒नय॑न्तः । दे॒वा अग्रे॑
तद॑ब्रुवन् । यस्त्वै॒वं ब्रा॑ह्म॒णो
वि॒द्यात् । तस्य॑ दे॒वा अस॒न्वशे॑, इति॑।
देवाः सर्वेऽग्रे सृष्ट्यादौ ब्रह्मविद्यासंप्रदायप्रवर्तनकाले ब्राह्मं रुचं परब्रह्मसंबन्धि
चैतन्यं जनयन्तो विद्यया प्रादुर्भावयन्तस्तद्ब्रह्मतत्त्वं संबोध्याब्रुवन्वक्ष्यमाणं वाक्यमुक्त-
वन्तः । किं तद्वाक्यमिति तदुच्यते— हे परमात्मन्यः कश्चिद् ब्राह्मणः पुमांस्त्वामेवं
यथोक्तप्रकारेण विद्यात्तस्य ब्रह्मविदः सर्वे देवा वशेऽसन्नधीना भवन्ति, स्वयं हि
तेषां देवानामन्तर्यामी परमात्मा भवति, तस्माद्देवा एतदधीना न त्वस्य देवा ईश्वराः।
एतमेवार्थं वाजसनेयिनो विस्पष्टमामनन्ति—“ य एवं वेदाहं ब्रह्मास्मीति स इदं
सर्वं भवति तस्य देवाश्च नाभूत्या ईशते, आत्मा ह्येषा५ स भवति ” इति ।
अथ यजुरात्मानं कंचिन्मन्त्रमाह—
ह्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्यौ॑ । अ॒हो॒रा॒त्रे पा॒र्श्वे । नक्ष॑-
त्राणि॑ रू॒पम् । अ॒श्विनौ॒ व्यात्त॑म् । इ॒ष्टं म॑निषाण ।
अ॒मुं म॑निषाण । सर्वं॑ मनिषाण ( २ ), इति॑ ॥
जायते॒ वशे॑ स॒प्त च॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके
त्रयोदशोऽनुवाकः ॥ १३ ॥
हीर्लज्जाभिमानिनी देवता । लक्ष्मीरैश्वर्याभिमानिनी देवता । हे परमात्मन् ह्रीश्च
लक्ष्मीश्च ते तव पत्न्यौ भार्यास्थानीये । ये चाहोरात्रे ते पार्श्वे पार्श्वद्वयस्थानीये
१ ख. ॰र्तका ब्रा० ।

[प्रपा० ३ अनु० १४] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । २०३
नक्षत्राण्याकाशे दृश्यमानानि¹ रूपं तव शरीरस्थानीयम् । अश्विनौ यौ देवौ तौ तव
व्यात्तं विवृतमुखस्थानीयम् । तथाविध हे विराट्पुरुषेष्टमस्मदपेक्षितमात्मबोधं मनीषा-
णानुमन्यस्व देहीत्यर्थः । अमुं लोके दृश्यमानं गवाश्वादिकं मनिषाण प्रयच्छ । किं
बहुना सर्वं मनिषाणैहिकमामुष्मिकं वा सर्वमिष्टं देहि ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्ति-
रीयारण्यकभाष्ये तृतीयप्रपाठके त्रयोदशोऽनुवाकः ॥ १३ ॥
अथ तृतीयप्रपाठके चतुर्दशोऽनुवाकः ।
अथ भर्तृसूक्ताख्यः कश्चिदनुवाकोऽभिधीयते । तस्य च मृत्यवे वेहतमित्यास्मिन्पशौ
नारिष्ठहोमानन्तरमुपहोमार्थत्वेन विनियोगो द्रष्टव्यः । तथा चाऽऽपस्तम्ब आह—
“मृत्यवे वेहतं तत्र भर्तारमुपजुहुयात्” इति । तत्र प्रथमामाह—
भ॒र्ता सन्न्वि॑भ्रियमा॒णो बि॑भर्ति । एको॑ दे॒वो
ब॑हु॒धा निवि॑ष्टः । य॒दा भारं॒ तन्द्रय॑ते स
भ॒र्तुम् । नि॒धाय॑ भा॒रं पुन॒रस्त॑मेति, इति ।
योऽयं प्राणाभिमानी देवः सोऽयं भर्ता पोषकः सन्न्विभ्रियमाणोऽन्तर्यामिणा परमे-
श्वरेण स्वयं धार्यमाणः सन्बिभर्ति देहान्धारयति । स च सूत्रात्मरूपेण स्वयमेक एव
देवस्तत्तच्छरीरेषु बहुधा शरीरानुसारेण बहुप्रकारो निविष्टोऽवस्थितः । अत एव
प्राणविद्याप्रकरणे तत्तच्छरीरानुसारेण प्राणस्यावस्थितिं काण्वा आमनन्ति—“समः
प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः” इत्यादि । स प्राणो यदा
भारं देहरूपं भर्तुं धारयितुं तन्द्रयते तन्द्रीमालस्यं प्राप्नोति, आयुषोऽवसाने हि
तस्याऽऽलस्यं भवति । तदानीं भारं देहरूपं निधाय क्वचिदुत्सृज्य पुनरस्तमेति,
अदर्शनं गच्छति । यथा देहोत्पत्तेः पूर्वमदर्शनं गतस्तथा देहपातादूर्ध्वमपीत्यभिप्रेत्य
पुनरित्युक्तम् ।
अथ द्वितीयामाह—
तमे॒व मृत्युम॒मृतं॒ तमा॑हुः । तं भ॒र्तारं॒ तमु॑
गो॒प्तार॑माहुः । स भू॒तो भ्रि॒यमा॑णो
बिभर्ति । य ए॒नं वेद॑ स॒त्येन॑ भ॒र्तुम्, इति ।
१ ग. ॰नि तव रूपस्थानीयानि . अ० । ५ ख. ॰त्मकत्वेन स्व० ।

).
संद॒धे: सं has no accent, द॒ has anudatta, धे has no accent.
ब्रह्म॑णै॒षः: ब्र has no accent, ह्म॑ has udatta, णै॒ has anudatta, षः has no accent.
।

Line 22:
रम॑ते॒ तस्मि॑न्नुत॒ जीर्णे॒ शया॑ने । नैनं॑ जहात्यह॑स्सु पू॒र्व्ये॑षु, इति ।
Wait, let's re-verify:
"रम॑ते॒" -> र, म॑ (udatta), ते॒ (anudatta).
"तस्मि॑न्नुत॒" -> त, स्मि॑ (udatta), न्न, ुत॒ (anudatta under त॒).
"जीर्णे॒" -> जी, र्णे॒ (anudatta under णे).
"शया॑ने" -> श, या॑ (udatta), ने.
।
"नैनं॑" -> नै, नं॑ (udatta).
"जहात्यह॑स्सु" -> ज, हा, त्य, ह॑ (udatta), स्सु.
"पू॒र्व्ये॑षु" -> पू॒ (anudatta), र्व्ये॑ (udatta), षु.
, इति ।

Lines 23-27:
यतो यस्मात्कारणादयं प्राण आबभूवाऽ

[प्रपा० ३ अनु० १४] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ३०५
शयने सत्यपि तन्नायं प्राणो रमते क्रीडते(ति) । पूर्वेद्युः पूर्वकृतैः कर्मभिः संपादि-
तेष्वहस्सु बहुष्वपि दिवसेषु नैनं जहाति, एनं जीर्णि पुरुषं स प्राणो न परित्यजति ⸱
अथ पञ्चमीमाह—
त्वामापो॑ अनु॒ सर्वा॑श्चरन्ति जान॒तीः । व॒त्सं
पर्य॑सा पुना॒नाः । त्वम॒ग्नि५ ह॑व्य॒वाह५ समि॑-
न्त्से त्वं॒ भ॒र्ता मा॑त॒रिश्वं॑ प्र॒जाना॑म् ( २ ), इति ।
हे प्राण त्वां वायुरूपं सर्वा आपोऽनुसंचरन्ति, यत्र वायुः प्रवलं वाति तत्रे-
ऽधिकं सद्द्ष्टिजलं प्रवर्तते । तत्र दृष्टान्तः—यथा जानतीः स्वस्ववत्साभिज्ञा गावः
पयसा पुनानाः स्वकीयेन क्षीरेण स्रवन्त्यः पोषयन्त्यो वत्समनुसंचरन्ति त

  • क - ्त - ं = असदव्यक्तं!
    Wait, look at "व्यक्तं": it has व followed by य = व्य.
    So: असद (asat + a-) + व्यक्तं (-vyaktam) = असदव्यक्तं!
    That is brilliant. Yes, असदव्यक्तं = असत् (the word being commented upon) + अव्यक्तं (its meaning)!

L18:
"तोऽव्यक्तात्त्वेन सद्रूपादाकाशाद्वायुरूपोऽयं प्राण आवभूवाऽऽभिमुख्येनोत्पन्नः । स"
Wait, at the start of L18: "तोऽव्यक्तात्त्वेन":
Wait, the previous line ended with "तस्मात्स-"
So: "तस्मात्सतोऽव्यक्तात्त्वेन" = तस्मात् सतः अव्यक्तात् तेन? Or अव्यक्तात्त्वेन?
Wait, "सतः" (from Sat) "अव्यक्तात्" (from Avyakta) "तेन"? Or "सतोऽव्यक्तात् त्वेन"?
Look at the word: "तोऽव्यक्तात्त्वेन" - wait, look at the double त: त् + त् + व + े + न? Or त् + व + े + न?
It is त्त्वेन.

L19:
"वायुरूपः प्राणो यं यं देवमनुष्यादिदेहं जजानोत्

ायनं मा विवधीर्विक्रमस्व ॥" is indeed TA 3.15.1!
And 3.15.2 starts with: "मा छिन्दो मृत्यो मा वधीः मा मे बलं..."!
Now, what is TA 3.14?
Mantra 14 ends with:
"...तद्वै तदानीमेव त्वं प्राणोऽभवः । प्राणयति प्रकर्षेण चेष्टयतीति व्युत्पत्त्या प्राणनामकोऽभूः । कीदृशस्त्वम्—प्रजापतेर्महान्भोगोऽत्यन्तभोगहेतुः ॥"
And the mantra words being commented on are:
"यद्यदा त्वं भुजो..."
Wait, in the mantra:
"यदा त्वं भुजो..." or "भुजो भोगान्..."
Wait, the mantra text of 3.14:
Does it contain:
"भुजो..."? "प्रजापतेर्महान् भोगः..."?
Yes, "प्रजापतेर्महान् भोगः"!
And before that:
"यदा... प्राणोऽभवः..."?
Wait, look at line 4:
"यद्यदा त्वं भुजो भोगान्कारिष्यमाणः सन्भवदेवानवच्छिद्रवर्तिनश्चक्षुरादीन्द्री-"
Wait, "सन्भवदेवानवच्छिद्रवर्तिनश्चक्षुरादीन्द्री-" - could it be:
"सन् भवदे

? No, it's ऽ.
Second glyph: It looks like ४ or ५ or ३?
Let's look at how Anandashrama prints it:
In Taittiriya, does it print ऽ and ३? No, wait!
Could it be ऽ followed by ३? But it doesn't look like ३.
Wait, could it be ऽ followed by १? No.
Let's look at the shape of that glyph:
It has:

  • A top curve or loop?
  • A vertical downstroke on the left, curving at the bottom to the right, and then going up?
    Wait, that is ५!
    Wait, why would it be ५? Or is it ऽ and ४?
    Wait, let's look at ऽ and ४ - could it be ऽ and ३ where the 3 is just drawn with a straight top?
    Wait, let's look at other lines in the page:
    Line 1: विवृ॑हो - wait, let's look at line 1 again:
    विवृ॑हो मा प्रमो॑षीः । प्र॒जां मा मे॑ रीरिष॒ आयु॑-
    रुग्र॑ । नृ॒चक्ष॑सं त्वा ह॒विषा॑ विधेम, इति ।

Let's check line-by-line carefully: