तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 206, कुल 914 में से
संदर्भ में पढ़ें[प्रपा० ३ अनु० १४] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । २०३
नक्षत्राण्याकाशे दृश्यमानानि¹ रूपं तव शरीरस्थानीयम् । अश्विनौ यौ देवौ तौ तव
व्यात्तं विवृतमुखस्थानीयम् । तथाविध हे विराट्पुरुषेष्टमस्मदपेक्षितमात्मबोधं मनीषा-
णानुमन्यस्व देहीत्यर्थः । अमुं लोके दृश्यमानं गवाश्वादिकं मनिषाण प्रयच्छ । किं
बहुना सर्वं मनिषाणैहिकमामुष्मिकं वा सर्वमिष्टं देहि ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्ति-
रीयारण्यकभाष्ये तृतीयप्रपाठके त्रयोदशोऽनुवाकः ॥ १३ ॥
अथ तृतीयप्रपाठके चतुर्दशोऽनुवाकः ।
अथ भर्तृसूक्ताख्यः कश्चिदनुवाकोऽभिधीयते । तस्य च मृत्यवे वेहतमित्यास्मिन्पशौ
नारिष्ठहोमानन्तरमुपहोमार्थत्वेन विनियोगो द्रष्टव्यः । तथा चाऽऽपस्तम्ब आह—
“मृत्यवे वेहतं तत्र भर्तारमुपजुहुयात्” इति । तत्र प्रथमामाह—
भ॒र्ता सन्न्वि॑भ्रियमा॒णो बि॑भर्ति । एको॑ दे॒वो
ब॑हु॒धा निवि॑ष्टः । य॒दा भारं॒ तन्द्रय॑ते स
भ॒र्तुम् । नि॒धाय॑ भा॒रं पुन॒रस्त॑मेति, इति ।
योऽयं प्राणाभिमानी देवः सोऽयं भर्ता पोषकः सन्न्विभ्रियमाणोऽन्तर्यामिणा परमे-
श्वरेण स्वयं धार्यमाणः सन्बिभर्ति देहान्धारयति । स च सूत्रात्मरूपेण स्वयमेक एव
देवस्तत्तच्छरीरेषु बहुधा शरीरानुसारेण बहुप्रकारो निविष्टोऽवस्थितः । अत एव
प्राणविद्याप्रकरणे तत्तच्छरीरानुसारेण प्राणस्यावस्थितिं काण्वा आमनन्ति—“समः
प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः” इत्यादि । स प्राणो यदा
भारं देहरूपं भर्तुं धारयितुं तन्द्रयते तन्द्रीमालस्यं प्राप्नोति, आयुषोऽवसाने हि
तस्याऽऽलस्यं भवति । तदानीं भारं देहरूपं निधाय क्वचिदुत्सृज्य पुनरस्तमेति,
अदर्शनं गच्छति । यथा देहोत्पत्तेः पूर्वमदर्शनं गतस्तथा देहपातादूर्ध्वमपीत्यभिप्रेत्य
पुनरित्युक्तम् ।
अथ द्वितीयामाह—
तमे॒व मृत्युम॒मृतं॒ तमा॑हुः । तं भ॒र्तारं॒ तमु॑
गो॒प्तार॑माहुः । स भू॒तो भ्रि॒यमा॑णो
बिभर्ति । य ए॒नं वेद॑ स॒त्येन॑ भ॒र्तुम्, इति ।
१ ग. ॰नि तव रूपस्थानीयानि . अ० । ५ ख. ॰त्मकत्वेन स्व० ।