तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 204, कुल 914 में से
संदर्भ में पढ़ेंप्रपा० ३ अनु० १३] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । २०१
योऽयं विराड्रूपो नारायणाख्यः पुरुषः सोऽयमद्भ्यः संभूतः सर्वत्र व्याप्तेषु जलेषु
तेरमध्ये मण्डवद्ब्रह्माण्डगोलकमुत्पन्नम् । न केवलमद्भ्य एव किंतु पृथिव्यै रसाच्च
म्प्याः संबन्धी योऽयं रसः सारस्तस्मादप्युत्पन्नः । “मण्डस्य योऽयं घनीभावः स
र्थिवः, ये च तन्मध्ये द्रवांशास्त आप्याः, यत्कठिनं सा पृथिवी, यद्द्रवं तदापः”
त्यादिश्रुतेः । विश्वकर्मणो जगत्कर्तुः परमेश्वरादधिसमवर्तताऽऽधिक्येन निष्पन्नो
ोऽयं ब्रह्माण्डाभिमानी चेतनः पुमान्सोऽयमीश्वरांशस्तस्य विराट्पुरुषस्य रूपं चतुर्दश-
क³रूपायवयसंस्थानं विदधन्निष्पादयंस्त्वष्टा विश्वकर्मा⁴ जगदीश्वरः । एति प्रवर्तते ।
रूपस्य विराडाख्यस्य संबन्धि तद्विश्वं प्रसिद्धं देवमनुष्यादिरूपं सर्वं जगदग्रे सृष्ट्या-
त्राजातं सर्वत उत्पन्नम् ।
अथ द्वितीयामाह—
वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्॑ । आ॒दि॒त्यव॑र्णं
तम॑सः प॒रस्ता॑त् । तमे॒वं वि॒द्वान॒मृत॑ इ॒ह
भ॑वति । नान्यः पन्था॑ विद्य॒तेऽय॑नाय, इति ।
पूर्ववद्व्याख्येयम् ।
अथ तृतीयामाह--
प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः । अजा॑यमानो बहु॒धा
विजा॑यते ( १ ) । तस्य॒ धीराः॒ परि॑जानन्ति
योनि॑म् । मरी॑चीनां प॒दमि॑च्छन्ति वे॒धस॑ः, इति ।
ब्रह्माण्डरूपे गर्भेऽन्तर्मध्ये प्रजापतिर्विग्रहवान्भूत्वा चरति । स च वास्तवेन रूपेण
त्यं ज्ञानमनन्तं ब्रह्म²त्यादिश्रुत्या प्रतिपादनादजायमान एव तथाऽपि मायिकेन रूपेण
हुधा स्थावरजङ्गमादिबहुप्रकारो विशेषेण जायते । तस्य प्रजापतेर्योनिं जगत्कारण।
पं वास्तवं स्वरूपं धीरा धैर्यवन्तो योगेन निरुद्धेन्द्रिया महात्मानो जानन्ति ।
धसो विधातारः सृष्टिकर्तारस्तमेवोपास्य मरीचीनां मरीच्यत्रिप्रमुखानां(णां)महर्षीणां
दं जगदुत्पादकत्वलक्षणमिच्छन्ति ।
अथ चतुर्थीमाह—
यो दे॒वेभ्य॒ आत॑पति । यो दे॒वानां॑ पु॒रोहि॑तः । पूर्वो॑ यो
१ क. ख. सर्वतो । २ क. ˚ह्मन् । म॑ । ३ ख. ˚लोका।˚ । ४ क. ˚र्मा सर्वं ज˚। ५ ख.
। ˚होत्येतादृशत्वाद्वा˚ । ६ ख. ˚तारस्त्यीक˚ ।
२६