प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
प्रमाणसिद्धिः ६९
दुःखसन्तानसंस्पर्शमात्रेणैवं दयोदयः ।
मोहश्च मूलं दोषाणां स च सत्त्वग्रहः;
विना ॥ १९८ ॥
तेनाद्यहेतौ न द्वेषो, न दोषोऽतः कृपा मता ।
नामुक्तिः पूर्वसंस्कारक्षयेऽन्याप्रतिसन्धिः ॥ १९९ ॥
अक्षीणशक्तिः संस्कारो येषां तिष्ठन्ति तेऽनघाः ।
मन्दत्वात् करुणायाश्च न यत्नः स्थापने महान् ॥ २०० ॥
तिष्ठन्त्येव पराधीना येषां तु महती कृपा ।
सत्कायदृष्टेर्विगमादाद्य एवाभवो भवेत् ॥ २०१ ॥
दयोदयस्तु दुःखसन्तानस्य संस्पर्शो दर्शनं तन्मात्रेणैव भवति । न
तत्र सत्त्वदर्शनापेक्षा ।
यथा दुःखदर्शनात् दयोत्पत्तिः, तथापकारिणि द्वेषोऽपि स्याद् ? इत्याह—
मोहश्च मूलमादिकारणं दोषाणाम्, स च मोहः सत्त्वग्रहः ॥ १९८ ॥
उन्मूलितसत्त्वदृष्टेश्च तेन सत्त्वग्रहेण विनाऽऽद्यहेतावपकारिणि न द्वेषो-
ऽस्ति; आत्मनोऽदर्शनात् तदपकारान्यभावात् । अतो दोषमूलस्यात्मग्रहस्या-
भावादुत्पद्यमाना कृपा न दोषो मता ।
यदि पूर्वकर्मवेधतस्तदैव न निर्वाणम्, तदा सांसारिकतैव स्याद् ?
इत्याह—नामुक्तिः, किन्तु मुक्तिरेव पूर्वसंस्कारक्षये पूर्वकर्मवेधक्षये सत्यन्यस्य
दुःखस्य हेतुवैकल्यादप्रतिसन्धितः ॥ १९९ ॥
येषां पुनर्महाकृपाणां प्रणिधानपरिपूष्टस्य जन्माक्षेपककर्मणः संस्कारोऽक्षी-
णशक्तिः, तेऽनघाः सम्यक्सम्बुद्धाः यावदाकाशं तिष्ठन्त्येव । श्रावकाणां तु
कर्मणो नियतकालस्थितिकदेहाक्षेपकत्वान्मन्दत्वात् करुणाया यत्नश्च महान्
स्थापने नास्तीति न सदा स्थितिः ॥ २०० ॥
तिष्ठन्त्येव सर्वदा ते पराधीनाः परेषामुपकरणीकृतात्मनो महामुनयः ।
येषामकारणवत्सलानां महती कृपा ।
७० प्रमाणवार्त्तिके
मार्गे चेत् सहजाहानेर्न हानौ वा भवः कुतः ।
सुखी भवेयं दुःखी वा मा भूवमिति तृष्यतः ॥ २०२ ॥
यैवाऽहमिति धीः सैव सहजं सत्त्वदर्शनम् ।
न ह्यपश्यन्नहमिति कश्चिदात्मनि स्निह्यति ॥ २०३ ॥
न चात्मनि विना प्रेम्णा सुखकामोऽभिधावति ।
दुःखस्योत्पादहेतुत्वं बन्धः, नित्यस्य तत् कुतः ॥ २०४ ॥
अदुःखोत्पादहेतुत्वं मोक्षः, नित्यस्य तत् कुतः !
नन्वाद्य एव मार्गे दर्शनमार्गे सत्कायदृष्टेर्विगमात् स्रोतआपन्नस्य
भवो जन्मान्तरबन्धो न भवेदिति चेत् ? सहजाहानेर्न । द्विधा हि सत्काय-
दृष्टिः—आभिसँस्कारिकी या स्कन्धव्यतिरिक्तात्माध्यवसायिनी, सहजा च । तत्र
प्रथमा दर्शनमार्गे हीयते, न द्वितीया भावनामार्गहेया । सा च मोहः, तृष्णायाश्च
हेतुरिति भवति जन्मप्रबन्धः । यदि तु पटुतरप्रज्ञस्याद्य एव मार्गो मार्गान्तर-
स्वभावः, तदा हानौ वा सहजाया आत्मदृष्टेः पुनर्भवः कुतः !
कीदृशं पुनस्तत् सहजसत्त्वदर्शनम् ? इत्याह—सुखी भवेयं दुःखी वा
मा भूवमिति तृष्यतः कांक्षमाणस्य यैवाहमिति धीः सैव सहजं सत्त्व-
दर्शनमुच्यते ।
तदप्रहीणं स्रोतआपन्नस्येति कथं ज्ञायते ? इत्याह—न ह्यपश्यन्नहमिति
कश्चिदात्मनि स्निह्यति, किन्तु पश्यन्नेव ॥ २०१–२०३ ॥
न चात्मनि विना प्रेम्णा सुखकामः कश्चिद् गर्भस्थानादिमभि-
धावति । अभिधावति च गर्भस्थानम् प्रहीणाभिसंस्कारिकः सत्त्वदृष्टिरपि स्रोत-
आपन्नं तदस्याप्रहीणं सहजं सत्त्वदर्शनम् ।
ननु सत्यात्मनि बन्धमोक्षावेकाधिकरणौ युक्तौ ? नेत्याह—दुःखस्यो-
पादानस्कन्धानामुत्पादहेतुत्वं बन्धः । तत्कुतो नित्यस्य ? क्रमयौगपद्याभ्या-
मर्थक्रियाविरहात् ॥ २०४ ॥
अदुःखोत्पादहेतुत्वं दुःखम्, प्रत्ययहेतुता मोक्षः, तच्च नित्यस्य
कुतः ! न हि पूर्वापरैकस्य भावस्य दुःखहेतोः पश्चादहेतुत्वं युक्तम् ।
प्रमाणसिद्धिः ७१
अनित्यत्वेन योऽवाच्यः स हेतुर्न हि कस्यचित् ॥ २०५ ॥
बन्धमोक्षावप्यवाच्ये¹ न युज्येते कथञ्चन¹ ।
नित्यं तमाहुर्विद्वांसो यः स्वभावो न नश्यति ॥ २०६ ॥
त्यक्त्वेमां ह्रेपणीं दृष्टिमतोऽनित्यः स उच्यताम् ।
चतुराकारं मार्गसत्यम्
उक्तो मार्गः, तदभ्यासादाश्रयः परिवर्त्तते ॥ २०७ ॥
स्यादेतत्—न नित्यस्य हेतुत्वं बन्धमोक्षौ च युक्ताविति, “नित्यत्वानित्य-
त्वाभ्यामवाच्यस्य पुद्गलस्य तौ भविष्यतः” इति मन्वानं वैभाषिकं प्रत्याह—
अनित्यत्वेन योऽवाच्यः । अनित्यत्वमुपलक्षणम् ; नित्यत्वेनाप्यवाच्यः ।
स हेतुर्न हि कस्यचित् ; तस्यैवाभावात् । तथा हि यद्यसावनित्यो न भवति,
स्यान्नित्यः ॥ २०५ ॥
अथ नित्यो न भवति, स्यादनित्यः । अन्योऽन्याभावलक्षणत्वाद्द्वयोरेकविधि-
प्रतिषेधस्यापरप्रतिषेधविधिनान्तरीयकत्वात् न क्वचिद् वस्तुनि द्वयप्रतिषेधसम्भव
इति पुद्गलस्याभावादहेतुत्वम् । अतो बन्धमोक्षावप्यवाच्ये पुद्गले न
युज्येते कथञ्चन ।
अथ नित्यत्वेनावाच्यत्वान्न दोष इति चेत् ? नन्वेवमनित्य एवोक्तः
स्यात् । तथा हि—नित्यं तमाहुर्विद्वांसो यः स्वभावः सर्वदा न नश्यति ।
स चेदीदृशो न भवत्यनित्य एव स्यात् ॥ २०६ ॥
अत्रेमां पुद्गलदृष्टिं पुद्गलनैरात्म्यवादिनः संस्कारानित्यतावादिनश्च शास्तुः
शिष्याणां ह्रेपणीं लज्जावर्द्धनीं त्यक्त्वाऽनित्यः स पुद्गल उच्यतां येन बन्ध-
मोक्षौ युज्येते । एकाकारो निरोधो व्याख्यातः । त्रय आकारा वक्ष्यन्ते ।
मार्गसत्यं चतुराकारं वक्तुमाह—उक्तो मार्गः शास्तृपदव्याख्यावसरे
(प्र० वा० १. १४०) नैरात्म्यदर्शनलक्षणः । तस्याभ्यासादाश्रयः क्लेश-
वासनाभूतमालयविज्ञानं परिवर्त्तते क्लिष्टदशानिरोधात् क्लेशविसंयुक्तचित्तप्रबन्धा-
त्मना परिणमति ॥ २०७ ॥
१-१. कारिकांशोऽयं मुद्रितपुस्तके न दृश्यते, तथापि वृत्त्यनुरोधादत्र स्थापितः ।
७२ प्रमाणवार्त्तिके
सात्म्येऽपि दोषभावश्चेन्मार्गवत्,
नाविभुत्वतः ।
विषयग्रहणं धर्मो विज्ञानस्य यथास्ति सः ॥ २०८ ॥
गृह्यते सोऽस्य जनको विद्यमानात्मनेति च ।
एषा प्रकृतिरस्यास्तन्निमित्तान्तरतः स्खलत् ॥ २०९ ॥
व्यावृत्तौ प्रत्ययापेक्षमदृढं सर्पबुद्धिवत् ।
अनेन मार्गत इति मार्गाकारो दर्शितः; क्लेशविसंयोगहेतुत्वात् ।
मार्गस्याभ्यासप्रकर्षात् सात्म्येऽपि प्रकृतित्वे च प्राप्ते पुनर्दोषाणां मोहा-
दीनां भावः प्राप्नोति चेत् । मार्गवत् यथा बन्धावस्थायां दोषसात्म्येऽपि
मार्गोऽभ्यासवशादाविर्भवति ?
अत्राह—नाविभुत्वतः असमर्थ्यात् । मार्गसात्म्येऽपि स्थितस्य चेतसि
न दोषाणामुत्पत्तुं सामर्थ्यमस्ति; तन्निदानभूतस्य सत्त्वदर्शनस्योन्मूलितत्वात् ।
अनेन शान्तत इति निरोधाकार उक्त; दोषाणां सर्वथा शान्तत्वात् ।
सत्त्वदर्शनमेव पुनः कस्मान्न भवति ? इत्याह—विषयग्रहणं विज्ञानस्य
तावत् सति ग्राह्यग्राहकभावो धर्मो यथा चास्ति स स विषयस्तथा गृह्यते
विज्ञानेन विषयिणा । स च विषयोऽस्य विज्ञानस्य जनको विद्यमानेनात्मना
यथावस्थितेन रूपेण ।
यथावस्थितवस्तुग्रहणञ्च । नात्मैषा प्रकृतिः स्वभावो ज्ञानस्य विषयिणः ।
यथास्वभावं स्वग्राहिज्ञानजननं च विषयस्य प्रकृतिः । अस्याः प्रकृतेस्तज्ज्ञानं
निमित्तान्तरतः आन्तरादविद्यारूपादागन्तुकाच्च विषयदोषादेः स्खलद् विषय-
ग्रहणविपरीताकारं भवति ॥ २०८-२०९ ॥
तच्च व्यावृत्तौ विषयविपरीतग्रहणाकारताया निवृत्त्यर्थं प्रत्ययापेक्षं
भ्रान्तिनिवर्तककारणमपेक्षमाणमदृढमस्थास्नु १ सर्पबुद्धिवत् । यथा सर्पबुद्धी
रज्ज्वा भ्रान्तिनिमित्ता जाता रज्जुस्वरूपग्राहिणः प्रत्ययान्निवृत्ता न पुनरुद्भवतीति,
१. ०मपेक्ष्यमाणम्—रा० ।
प्रमाणसिद्धिः ७३
प्रभास्वरमिदं चित्तं प्रकृत्यागन्तवो मलाः ॥ २१० ॥
तत्प्रागप्यसमर्थानां पश्चाच्छक्तिः क्व तन्मये ।
नालं प्ररोढुमत्यन्तं स्यन्दिन्यामग्निवद् भुवि ॥ २११ ॥
बाधकोत्पत्तिसामर्थ्यगर्भे शक्तोऽपि वस्तुनि ।
तथा भ्रान्तिनिमित्तनिरासात् दृष्टे ( नैरात्म्ये वस्तुनि सति ) नास्ति ( सत्त्वे ) दृष्टि-
सम्भवः; ज्ञानस्य विषयस्वरूपग्रहणप्रवणत्वात्, विषयस्य च स्वाकारार्पणप्रवृत्तत्वात्।
किञ्च—प्रभास्वरमनात्मभूतदोषसञ्चयमिदं चित्तं प्रकृत्या स्वभावेन ।
ये तु मनोदोषा दृश्यन्ते ते भ्रान्तिनिमित्तोपनीतत्वादागन्तवोऽस्वभावभूताश्चेतसः,
तमस्तुहिनादय इव नभसः ॥ २१० ॥
तत्प्रागपि तस्मान्नैरात्म्यदर्शनात् पूर्वमपि ततः श्रुतिचिन्ताद्यवसानेऽप्या-
पातविष्कम्भनादुत्पत्तुमसमर्थानां मलानां पश्चान्मार्गनिष्पत्तौ शक्तिरुत्पत्तुं क्व
तन्मये मार्गसात्म्ये स्वरूपे ।
एतदेवाह—शक्तोऽप्युद्धतोऽपि मनोमलो नालमत्यन्तं प्ररोढुं वस्तुनि
चित्तसन्ताने, कीदृशे ? बाधकोत्पत्तिसामर्थ्यगर्भे सर्वदृष्टिबाधकस्य नैरात्म्य-
दर्शनस्य मार्गसत्यस्योत्पत्तिः१, तस्यां सामर्थ्यं प्रभविष्णुत्वं तद्गर्भे आनन्तर्यस्य
गर्भे तस्मिन् । स्यन्दिन्यां भुवि अग्निवत् । यथा हि वह्नेर्हेतुबलादुत्पन्नोऽपि
स्यन्दिन्यां भुवि बाधकवत्यां नात्यन्तं प्ररोहति, तथा मार्गोत्पत्तिसामर्थ्यगर्भे
चेतस्युत्पन्ना अपि मला नात्यन्तं विरोहन्ति । सात्मीभूतमार्गे हेतुवैकल्यान्नोत्पद्यन्त
एव ॥ २११ ॥
कथं च नैरात्म्यदर्शिनो मलोत्पत्तिराशंक्यते । न तावद् हेतुसाकल्यात्,
सत्त्वदृष्टेर्हेतुभूताया अभावात् नैरात्म्यदर्शनवत्, सत्त्वदर्शनं च भावनयोत्पन्नं
हेतुरिति चेत् ?
कुतस्तस्य भावना ? किन्नैरात्म्यस्य सोपद्रवत्वात् ? किञ्च—अभूतत्वेन
भ्रमहेतुत्वात् ? अस्वभावेनोपहन्तुं शक्यत्वाद्वा ? एतत् त्रयमसङ्गतम् । इत्याह—
१. मार्गसत्योत्पत्तिः—रा० ।
निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः ॥ २१२ ॥
न बाधा यत्नवत्त्वेऽपि बुद्धेस्तत्पक्षपाततः ।
आत्मग्रहैकयोनित्वात्, कार्यकारणभावतः ॥ २१३ ॥
रागप्रतिघयोर्बाधा भेदेऽपि न परस्परम् ।
मोहाविरोधान्मैत्र्यादेर्नात्यन्तं दोषनिग्रहः ॥ २१४ ॥
तन्मूलाश्च मलाः सर्वे;
स च सत्कायदर्शनम् ।
दोषाराशेरुद्वेगकस्य प्रहाणेन निरुपद्रवस्य प्रमाणसंवादित्वेन भूतार्थस्य सत्या-
र्थस्यानारोपितत्वेन स्वभावस्य प्रकृतेर्नैरात्म्यस्याभिरुचितविषयस्य विपर्यये-
ष्वात्माद्याकारेष्वभ्यासे सोपद्रवत्वादिना प्रयत्न एव तावन्न सम्भवति प्रेक्षकस्य ।
सम्भवेऽपि वा विपर्ययैः ॥ २१२ ॥
न बाधा नैरात्म्यस्य सात्मीभूतस्य स्वभावस्यास्ति; बुद्धेस्तत्र दोषप्रतिपक्षे
गुणवति मार्गे पक्षपातात् । न हि स्वभावः साक्षात्कृतोऽन्यथा कर्तुं शक्यः ।
अनेन प्रणीत इति निरोधाकारो दर्शितः ।
ननु यदि नैरात्म्यसात्मत्वदर्शनयोः परस्परभेदाद् बाधा, तदा रागप्रतिघयो-
रपि स्याद् ? इत्याह—आत्मग्रह एको योनिः कारणं तयोस्तौ, तयोर्भावस्तस्मा-
देककारणत्वात् रागप्रतिघयोर्भेदेऽपि न परस्परं बाधा, रूपरसयोरिव ।
तथा कार्यकारणभावतोऽपि नान्योन्यं बाधा । तथा हि—यदैकस्मिन्
रागस्तदा तदपकारिणि द्वेषः, यदा च क्वचिद् द्वेषस्तदा तदुपकारिणि रागोऽपीति
परस्परकार्यकारणभावान्नास्ति विरोधः, चक्षुरादिबुद्धीनामिव ।
ननु द्वेषादिप्रतिपक्षा मैत्र्यादयो न च तानुच्छिन्दन्ति ? इत्याह—मोहा-
विरोधान्मैत्र्यादेः । मैत्रीकरुणादयो मोहाविरोधिनः, अतश्च दोषकारणावैकल्या-
न्नात्यन्तं द्वेषादिदोषाणां निग्रहो मैत्र्यादेः । आपातविष्कम्भनमात्रं तु भवति;
मोहस्यानपायात् ॥ २१३–२१४ ॥
तन्मूलाश्च मलाः सर्वे प्रसूयन्ते ।
विद्यायाः प्रतिपक्षत्वाच्चैत्तत्वेनोपलब्धितः ॥ २१५ ॥
मिथ्योपलब्धिरज्ञानं युक्तेश्चान्यदयुक्तिमत् ।
व्याख्येयोऽत्र विरोधो यः;
तद्विरोधाच्च तन्मयैः ॥ २१६ ॥
विरोधः शून्यतादृष्टेः सर्वदोषैः प्रसिध्यति ।
ननु सत्त्वदर्शनं दोषमूलम् , न मोहः ? इत्याह—स च मोहः सत्काय-
दर्शनम् ।
ननु मोहोऽसम्प्रख्यानरूपः, सत्त्वदृष्टिस्तु विपरीतार्थप्रतिपत्तिरूपा, तत् कथं
मोह एव सत्त्वदर्शनम् ? इत्याह—विद्यायाः प्रतिपक्षत्वात् । विद्याया
नैरात्म्यदृष्टेर्विपक्षोऽविद्या । स चाप्रख्यानमात्रं वा रूपादि वा न भवति; निर्वाणे-
ऽपि तयोर्भावात् । किन्तु मिथ्योपलब्धिरज्ञानमविद्याऽधर्मानृतवत् , विद्यायाः
सदर्थत्वात् । चैत्तत्वेनोपलब्धितश्च चैत्तत्वेन करणेनोपलब्धिरूपत्वाच्च ॥२१५॥
“आश्रयालम्बनाकार
७६ प्रमाणवार्त्तिके
नाक्षयः प्राणिधर्मत्वाद् रूपाविवदसिद्धितः ॥ २१७ ॥
सम्बन्धे प्रतिपक्षस्य त्यागस्यादर्शनावपि¹।
न काठिन्यवदुत्पत्तिः पुनर्दाषविरोधिनः ॥ २१८ ॥
सात्मत्वेनानपायत्वाद् अनेकान्ताच्च भस्मवत् ।
यः पश्यत्यात्मानं तत्रास्याहमिति शाश्वतः स्नेहः ॥ २१९ ॥
स्नेहात् सुखेषु तृष्यति, तृष्णा दोषांस्तिरस्कुरुते²।
भूतनैरात्म्यानां न पुनर्दाषलेशोत्पत्तिः । अनेन ‘निःशरणतः’ इति निरोधाकारो
निर्दिष्टः; दोषेभ्यः सर्वथा निःशरणात् ।
स्यादेतद्—अक्षयो रागादिः प्राणिधर्मत्वादूपादिवत् ? न युक्तमेतद्;
असिद्धितः । न हि प्राणी कश्चिदस्ति यद्धर्मा रागादयः सिद्ध्यन्ति, सत्त्वे
दृष्टौ तु सत्यां केवलमुपलभ्यन्त इति प्रतीत्यसमुत्पादमात्रमेतत् ॥२१६-२१७॥
तेषां प्रतिपक्षस्य नैरात्म्यदर्शनस्य सम्बन्धे सम्मुखीभावे त्यागस्यापात-
विष्कम्भणस्यादर्शनादपि सम्भवप्रतिपक्षत्वेनोच्छेदसम्भवात् नाक्षयित्वम् ।
स्यादेतत्—ताम्रादीनामग्नियोगाद् द्रवावस्थायां नष्टमपि काठिन्यं पुनः
शीतसम्पर्कादुत्पद्यते, तद्वन्नष्टानामति दोषाणां मार्गसाम्ये पुनः कुतश्चिद्धेतोस्तपत्तिः
स्यात् ? अत्राह—न काठिन्यवदुत्पत्तिः पुनर्दोषाणाम्; दोषविरोधिनो
नैरात्म्यस्य सात्मत्वेन प्रकृतिस्वेनानपायात् । न ह्यव्याहते विरोधििन तद्विरुद्धस्यो-
त्पत्तिरग्नाविव शीतकाठिन्यं कादाचित्कत्वादग्निनिवृत्तौ तद्विरोधिन्या द्रवतायाः स्व-
रसिरोधादुत्पद्यते । अनैकान्ताच्च भस्मवद् यथा भस्मनि भूते पुनर्न काष्ठोत्पत्तिः,
तथा नैरात्म्यसात्मतायां न पुनर्नष्टानां दोषाणामुत्पत्तिरित्यनैकान्तिकता नष्टोत्पत्तेः ।
नन्वात्मभावनयापि मोक्षोऽस्ति, तत् किं नैरात्म्यभावनया, यदाहुः—
“आत्मा••••मन्तव्यो निदिध्यासितव्यः” (बृह. उ. ४.५.६) इत्यादि ? अत्राह—
यः पश्यत्यात्मानं तत्रात्मन्यस्य द्रष्टुरहमिति शाश्वतोऽनपायी
स्नेहो भवति ॥ २१८-२१९ ॥
स्नेहादात्मस्नेहात् सुखेषु तृष्यति, तृष्णावान् भवतीति । तृष्णा च
१. त्यागसंसर्जनादपि—पाठा० । २. दोषाँस्थिरीकुरुते-पाठा० ।
प्रमाणसिद्धिः ७७
गुणदर्शी परितुष्यन् ममेति तत्साधनान्युपादत्ते ॥ २२० ॥
तेनात्माभिनिवेशो यावत् तावत् स संसारे ।
आत्मनि सति परसंज्ञा, स्वपरविभागात् परिग्रहद्वेषौ ॥ २२१ ॥
अनयोः सम्प्रतिबद्धाः सर्वे दोषाः प्रजायन्ते ।
नियमेनात्मनि स्निह्यंस्तदीये न विरज्यते ॥ २२२ ॥
न चास्त्यात्मनि निर्दोषे स्नेहापगमकारणम् ।
स्नेहः सदोष इति चेत् ततः किं तस्य वर्जनम् ॥ २२३ ॥
सुखसाधनत्वेनाध्यवसितानां वस्तूनां दोषानशुचित्वादीन् तिरस्कुरुते प्रच्छादयति
दोषतिरस्करणात् ।
गुणदर्शी शुचित्वेष्टत्वगुणान् पश्यन् परितुष्यन् ममेति 'ममेदं सुखम्'
इति गर्द्धमानस्तस्य सुखस्य साधनानि गर्भगमनादीन्युपादत्ते ॥ २२० ॥
तेनात्मदर्शनमूलत्वेन जन्मादेरात्माभिनिवेशो यावत्, तावत् स
आत्मदर्शी संसार एव ।
न केवलं जन्मप्रबन्धः, तस्य दोषा अपि समस्ताः सन्तीत्याह—आत्मनि
सति ततोऽन्यस्मिन् परसंज्ञा परबुद्धिर्भवति । स्वपरविभागाच्च कारणात्
स्वपरयोर्यथाक्रमं परिग्रहोऽभिष्वङ्गः, द्वेषः परित्यागस्तौ भवतः ॥ २२१ ॥
अनयोरनुनयप्रतिषेधयोः सम्प्रतिबद्धाः सर्वे दोषा रागमत्सर्यैर्ष्यादयः
प्रजायन्ते ।
यद्यप्यात्मनि स्नेहवान्, तथाप्यात्मीये सुखसाधने वैराग्यान्न संसरतीति
चेत् ? नैतद्युक्तम्; यतः आत्मनि स्निह्यन् प्रीयमाणस्तदोय आत्मीये सुख-
साधने नियमेन न विरज्यतेऽभिष्वजत्येव, तत् कथमात्मीयविरागान्मुक्तिः,
आत्मस्नेहस्यात्मीयवैराग्यविरोधिवात् ॥ २२२ ॥
तमेव त्यजतीति चेत् ? आह—यद्यप्यात्मा निर्दोषः, तथापि स्नेहः
सदोष इति चेत् । ततः सदोषत्वात् किं कर्त्तव्यम् ? तस्य स्नेहस्य
वर्जनम् ॥ २२३ ॥
७८ प्रमाणवार्तिके
अदूषितेऽस्य विषये न शक्यं तस्य वर्जनम् ।
प्रहाणिरिच्छाद्वेषादेर्गुणदोषानुबन्धनः ॥ २२४ ॥
तयोर्दृष्टिविषये;
न तु बाह्येषु यः क्रमः ।
न हि स्नेहगुणात् स्नेहः किन्त्वर्थगुणदर्शनात् ॥ २२५ ॥
कारणेऽविकले तस्मिन् कार्यं केन निवार्यते ।
का वा सदोषता दृष्टा स्नेहे दुःखसमाश्रयः ॥ २२६ ॥
अदूषितेऽस्य विषय आत्मनि न शक्यं तस्य वर्जनम् । न हि स्नेहः
स्वगुणदोषाभ्यामुपादीयते त्यज्यते वा, किन्तु विषयस्य । विषयश्च निर्दोष इति
कथमस्य वर्जनम् !
किञ्च— इच्छाद्वेषादेर्गुणदोषानुबन्धिनो यथाक्रमं विषयस्य गुणदोषा-
नुवर्त्तिनः प्रहाणिः प्रहाण्युपायः ॥ २२४ ॥
तयोर्गुणदोषयोर्दृष्टिविषयेऽनन्योपायतादर्शनार्थमुपचारः । विषयगुणदोषा-
दर्शने एवेच्छा द्वेषादिप्रहाण्युपाय इत्यर्थः ।
नन्वदृष्टोऽपि इच्छादिरनिच्छामात्रात्१ त्यज्यमानो दृश्यते ? इत्याह— न
तु बाह्येषु वस्तुषु यः क्रमोऽनिच्छामात्रकृतत्यागरूपः स आन्तरेष्वपि
स्नेहादिषु युक्तः । बाह्याधीनं बाह्यमनिच्छया त्यक्तुं शक्यम्, आत्मदर्शनाधीनं तु
न शक्यपरिहारम्; अविकलहेतुत्वेनोत्पत्तेः ।
किञ्च— न हि स्नेहगुणात् स्नेहः क्रियते, किन्त्वर्थस्य विषयस्य
गुणदोषदर्शनात् जायते ॥ २२५ ॥
कारणेऽविकले तस्मिन् विषयगुणे कार्यं स्नेहः केन निवार्यते,
न केनचित् ।
का वा सदोषता दृष्टा स्नेहे, येनायं वर्जयितव्यः । दुःखस्य समा-
श्रयश्चेद्, दोषः । तथा हि— आत्मनि स्निह्यन् तत्सुखसाधनेषु तृष्णावान्
दुःखभूतं संसारमुपादत्ते ॥ २२६ ॥
१. इत्यादि०—रा० ।
प्रमाणसिद्धिः ७९
तथापि न विरागोऽत्र स्वत्वदृष्टेर्यथात्मनि ।
न तैर्विना दुःखहेतुरात्मा चेत् तेऽपि तादृशाः ॥ २२७ ॥
निर्दोषं द्वयमप्येवं वैराग्यान्न द्वयोस्ततः ।
दुःखभावनया स्याच्चेदहिदष्टाङ्गहानिवत् ॥ २२८ ॥
आत्मीयबुद्धिहान्याऽत्र त्यागो न तु विपर्यये ।
उपभोगाश्रयत्वेन गृहीतेष्विन्द्रियादिषु ॥ २२९ ॥
स्वत्वधीः केन वार्येत वैराग्यं तत्र तत् कुतः ।
प्रत्यक्षमेव सर्वस्य केशादिषु कलेवरात् ॥ २३० ॥
तथापि दुःखहेतुत्वेऽपि न विरागोऽत्र स्नेहे, यथात्मनि स्वत्वदृष्टेः
दुःखनिदानभूताया हेतावात्मनि न विरागः ।
यदि दुःखहेतौ विरागः, तदा स्वत्वे दृष्टिद्वारेण सर्वं दुःखमिति तस्य हेता-
वात्मन्येव स युक्तः । न चास्त्येतत् ।
न तैः स्नेहबुद्धीन्द्रियादिभिरात्मीयैर्विना दुःखहेतुरात्मा चेत् ? तेऽपि
स्नेहादयः तादृशा आत्मानमन्तरेण न दुःखहेतवः ॥ २२७ ॥
एवं परस्परसापेक्षत्वे निर्दोषं द्वयमपि स्नेहादिरात्मा च वैराग्यान्न
द्वयोरपि ततः कार्यम् । तथा च संसारो दोषाश्च दुर्वाराः; हेतुसाकल्यात् ।
प्रवृत्तिर्यदि स्नेहादिषु दुःखभावनया, हानिः स्यात् । अहिदष्टस्याङ्गस्य
हानिवत् । यथा आत्मीयमप्यहिदष्टमङ्गं दुःखवशाद् विरज्य त्यज्यते, अनुपभोगा-
श्रयत्वात् ॥ २२८ ॥
आत्मीयबुद्धिहान्या तत्राहिदष्टाङ्गे त्यागो न तु विपर्यये आत्मीय-
बुद्धिसत्तायाम् । यस्मादुपभोगस्याश्रयत्वेन कारणत्वेन गृहीतेष्विन्द्रियादिषु
स्वत्वे धीरात्मीयत्वबुद्धिः केन हेतुना वार्येत, न केनचित् । तत्कुतस्तत्रोप-
भोगसाधने स्वीयावयवे वैराग्यं येन त्यज्यते ! ततो यत् त्यज्यते आत्मीयबुद्धि-
हान्या एव । न चैवं स्नेहादिष्वात्मीयबुद्धिहानिरस्ति येनैषां त्यागः स्यात् ।
एतच्च प्रत्यक्षमेव सर्वस्य । केशादिषु कलेवरात् च्युतेष्वात्मीयबुद्धि-
८० प्रमाणवार्त्तिके
च्युतेषु सघृणा बुद्धिर्जायतेऽन्येषु सस्पृहा ।
समवायादिसम्बन्धजनिता तत्र हि स्वधीः ॥ २३१ ॥
स¹ तथैवेति सा दोषदृष्टावपि¹ न हीयते ।
समवायाद्यभावेऽपि सर्वत्रास्त्युपकारिता ॥ २३२ ॥
दुःखोपकारान्न भवेदंगुल्यामिव चेत् स्वधीः ।
न ह्येकान्तेन तद् दुखं भूयसा सविषान्नवत् ॥ २३३ ॥
विशिष्टसुखसङ्गात् स्यात् तद्विरुद्धे विरागिता ।
विषयेषु सघृणा बुद्धिर्जायते जनस्य । अन्यत्राच्युतेष्वात्मीयबुद्धिविषयेषु
सस्पृहा । दुःखभावनया आत्मीयबुद्धिरेव हीयत इति चेत् ? न युक्तमिदम्;
समवायादिसम्बन्धजनिता हि यस्मात् तत्र बुद्ध्यादौ स्वधीः । तथा
चात्मनः सुखादिना समवायः सम्बन्धः, शरीरेण संयोगः, शरीराश्रितैः रूपादिभिः
संयुक्तसमवायः, श्रोत्रेन्द्रियेण संयोगश्चक्षुरादिभिः संयोगिसंयोग आत्मसम्बन्धः
॥ २२९-२३१ ॥
स दुःखभावनायामपि तथैवेति सा स्वधीर्दोषदृष्टावपि न हीयते;
निमित्तस्यावैकल्यात् । अथ समवायादिर्नास्त्येव, तदा समवायाद्यभावेऽपि
सर्वत्र बुद्ध्यादावस्त्युपकारिता तत्कृता ॥ २३२ ॥
तत्र स्वधीरशक्यधारणा दुःखोपकारात् दुःखोपनिधानात् न भवेदहिदष्टा-
यामङ्गुल्यामिव स्नेहबुद्ध्यादौ स्वधीरिति चेत् ? न ह्येकान्तेन तत्स्नेहादि-
दुःखं दुःखहेतुः, पर्यायेण सुखहेतुत्वादपि; किन्तु भूयसा तद् दुःखम्, सविषा-
न्नवत् । परिणतिदुःखहेतुरपि विषान्नमापातसुखं च ॥ २३३ ॥
ननु सविषयमन्नं सुखमिश्रञ्च वैराग्यविषयः स्वहितकामानाम्, एवं स्नेहादि-
रपि स्याद् ? इत्याह—विशिष्टे सुखे सुखसाधने तदात्वपरिणामयोरनुग्रहीतरि
विषादिदोषरहितभोजनादौ सङ्गादभिष्वङ्गात् स्यात् तद्विरुद्धे सविषान्नादौ
विरागिता ।
१-१. 'सम्बन्धः स तथैवेति दृष्टावपि'—भाष्यसम्मतः पाठः ।
प्रमाणसिद्धिः ८१
किञ्चित् परित्यजेत् सौख्यं विशिष्टसुखतृष्णया ॥ २३४ ॥
नैरात्म्ये तु यथालाभमात्मस्नेहात् प्रवर्तते ।
अलाभे मत्तकासिन्या दृष्टा तिर्यक्षु कामिता ॥ २३५ ॥
यस्यात्मा वल्लभस्तस्य स नाशं कथमिच्छति !
निवृत्तसर्वानुभवव्यवहारगुणाश्रयम् ॥ २३६ ॥
इच्छेत् प्रेम कथम्; प्रेम्णः प्रकृतिर्न हि तादृशी ।
वैराग्याच्च किञ्चित् सौख्यं परिणतिदुःखबहुलं परित्यजेदात्मकामो
विशिष्टस्य सुखस्य परिणामाविरुद्धस्य तृष्णया अभिलाषेण । यदा त्वात्मनि सति
न किञ्चित् सुखैकरूपं सर्वं सुखं दुःखसंमिश्रं तदा क्व परिहारः कस्मिन्ननुरागः
स्वीकार्यः ! न चेच्छया शक्यपरिहाराः स्नेहादयः; तत्कारणस्यात्मनोऽवैकल्या-
दित्युक्तम् ॥ २३४ ॥
नन्वनैरात्म्यपक्षेऽपि दुःखं सकलम्, तन्निरोधः परसुखम्, तत् क्वचित्
तृष्णया प्रवृत्तिर्न स्यात् ? इत्याह—नैरात्म्यतत्त्वेऽध्यारोपादात्मस्नेहात् सुख-
विपर्यासात् दुःखेष्वपि सुखतयाऽध्यवसितेषु विषयेषु यथालाभं प्राप्त्यनुक्रमेण
प्रवृत्तिर्भवति; निर्वाणसुखव्युत्पत्त्यभावात् । व्युत्पत्तावपि तन्मार्गासात्मत्वाभावात् ।
सात्मीकृतमार्गास्तु क्वचिन्न प्रवर्तन्त एव । तथा चालाभे मत्तकासिन्या
मत्तगजगामिन्या कामुकस्य तिर्यक्षु कामिता दृष्टा । बलवानात्मस्नेहो विशिष्ट-
सुखसाधनस्यालाभे सुखाभासहेतौ च प्रवर्तयति ॥ २३५ ॥
किञ्च—यदि बुद्धीन्द्रियशरीरादीनां दुःखहेतुत्वात् तेषु वैराग्यात् तत्यागात्
कैवल्यमात्मन इष्टम् । मुक्तिदशायां तदात्मभोगादिसकलपरिच्छेदाभावात् नाशावि-
शेषात्नाश एवेष्टः स्यात्, तच्चेदमयुक्तमित्याह—यस्यात्मा वल्लभस्तस्य
स कथं नाशमिच्छति न नाशं कैवल्यमप्रतीतिविषयत्वादिच्छति !
कथं पुनः केवलमात्मानमिच्छन् नाशमिच्छति ? इत्याह—निवृत्तः सर्वस्या-
नुभवव्यवहारस्य समाश्रयम् आश्रयणं यस्मात् तं नाशलक्षणाविशिष्टमित्यर्थः ।
नाशाविशिष्टञ्चात्मानं कथं प्रेम स्नेहातिशय इच्छेत् ! यस्मात् प्रेम्णः प्रकृति-
प्र० वा० : ६
८२ प्रमाणवार्त्तिके
सर्वथात्मग्रहः स्नेहमात्मनि द्रढयत्यलम् ॥ २३७ ॥
आत्मीयस्नेहबीजं तु तदवस्थं व्यवस्थितम् ।
यत्नेऽप्यात्मीयवैराग्यं गुणलेशसमाश्रयात् ॥ २३८ ॥
वृत्तिमान् प्रतिबध्नाति, तद्दोषान् संवृणोति च ।
आत्मन्यपि विरागश्चेदिदानीं यो विरज्यते ॥ २३९ ॥
त्यजत्यसौ यथात्मानं व्यर्थाऽतो दुःखभावना ।
दुःखभावनयाऽप्येष दुःखमेव विभावयेत् ॥ २४० ॥
प्रत्यक्षं पूर्वमपि तत् तथापि न विरागवान् ।
स्तादृशी स्वविषयनाशैषणस्वभावा न भवति, तस्मात् सर्वथा आत्मग्रह
आत्मनि स्नेहमलमत्यर्थं द्रढयति ॥ २३६-२३७ ॥
स आत्मग्रहश्चात्मोपकारिषु । आत्मीयस्नेहबीजं तदवस्थं व्यवस्थित-
मिति तत्प्रतिबद्धानां दोषाणामनिवृत्तिः ।
स्यादेतत्—आत्मीये दोषदर्शनाद् वैराग्यमुत्पद्यते ? इत्याह—दोषदर्शनाद्
यत्नेऽपि सति तावत्कालमात्मीयेषु वैराग्यं यदुत्पन्नं तदात्मस्नेहो वृत्तिमाना-
त्मीयेषु गुणलेशस्य सुखसाधनत्वस्य समाश्रयणात् प्रतिबध्नाति । तद्दोषाँश्च
दुःखसाधनादीन् संवृणोति । तत् कुत आत्मस्नेहवत आत्मीये वैराग्ययोगः;
आत्मस्नेहस्य सर्वदोषमूलत्वात् !
आत्मन्यपि विरागश्चेद् बाध्यते ? ननूक्तमत्र—न चात्मनि निर्दोषे
स्नेहापगमकारणमस्ति । भवतु तावत्, तथापीदानीमत्रापि पक्षे यो यत्र
विरज्यतै तेन स तं त्यजति यथात्मानम् । न ह्यात्मनि विरक्तोऽपि तं त्यजति,
तथात्मीयेऽपि विरक्तस्तं न त्यक्ष्यतीति व्यर्था अतो दुःखभावना; आत्मनो
ऽत्यागात् । दुःखभावनयापि एष भावको दुःखमेव भाव्यमानं विभावयेत्
प्रकाशयेत् ॥ २३८-२४० ॥
तच्च भावनातः पूर्वमपि प्रत्यक्षमेव दुःखमात्मस्नेहादिशस्त्रप्रहाराद्यनुभव-
काले तथापि प्रत्यक्षीकृतात्मस्नेहादिदुःखत्वेऽपि न विरागवान् तेषु कश्चित्तदा,
ततो भावनाप्रकर्षेऽप्येवं स्यात्; साक्षात्करणत्वात् तस्य । तच्च न विरागहेतुः प्रागिव
प्रमाणसिद्धिः ८३
यद्यप्येकत्र दोषेण तत्क्षणं चलिता मतिः ॥ २४१ ॥
विरक्तो नैव तत्रापि कामीव वनितान्तरे ।
त्याज्योपादेयभेदे हि सक्तिर्यैकभाविनी ॥ २४२ ॥
सा बीजं सर्वसक्तीनां पर्यायेण समुद्भवे ।
निर्दोषविषयः स्नेहो निर्दोषः साधनानि च ॥ २४३ ॥
एतावदेव च जगत् क्वेदानीं स विरज्यते ।
सदोषताऽपि चेत् तस्य, तत्रात्मन्यपि सा समा ॥ २४४ ॥
यद्यप्येकत्रापराधकारिणि दोषदर्शनात् तत्क्षणं नियतकालमनुरागाच्चलिता
मतिः; विरागभजनात् ॥ २४१ ॥
तथाप्यसौ नैव १ तत्र विरक्तः; सर्वथा पर्यायेण रागोत्पत्तेः । किं
पुनः ? अन्यत्र कामीव क्वचित् कामिन्यां रागकारिण्यां विरक्तोऽपि वनितान्तरे
विरक्तः । तस्यामपि वा क्रमेण ।
किञ्च—प्रतिघानुनयविषयत्वात् त्याज्योपादेयभेदे हि सति सक्तिरा-
सक्तिर्यैकस्मिन् भाविनी द्वेषविषयतया, अनुरागविषयतया वा ॥ २४२ ॥
सा सक्तिर्बीजं कारणं सर्वसक्तीनां पर्यायेण परिपाट्या समुद्भव-
निमित्तम् । तथा हि—क्वचिद् द्वेषासक्त्या तदनुकूलप्रतिकूलयोः प्रतिघानुनयौ
भवतः । तथानुरागासक्त्यापि क्वचित् तयोरेवानुनयद्वेषौ भवतः । तदेवमात्मनो २
निर्दोषत्वात् निर्दोषविषयः स्नेहो निर्दोषः स्वयम् उपभोगसाधनानि चेन्द्रिय-
शरीरादीनि शब्दरसरूपादीनि निर्दोषाणि; आत्मादीनां सर्वेषां प्रत्येकं दुखहेतुत्वा-
भावात् ॥ २४३ ॥
एतावदेव च जगत्; त्रिभिर्जगतः संग्रहात् । क्वेदानीं स मोक्तु-
कामो विरज्यते । समुदायाद्दोषदर्शनात् तत एव विरज्यते चेत् ? नन्वेवमात्म-
न्यपि वैराग्यं प्राप्तम् । न केवलं गुणवत्ता सदोषतापि चेत् तस्य स्नेहेन्द्रियादेः ?
तत्रात्मन्यपि कैवल्येनेष्टे सा सदोषता समा; तस्या अपि स्नेहादिदोष-
वत्त्वात् ॥ २४४ ॥
१. रा० पुस्तके नास्ति । २. तदेवममात्नो—रा० ।
तत्राविरक्तस्तद्दोषे क्वेदानीं स विरज्यते ।
गुणदर्शनसम्भूतं स्नेहं बाधितदोषदृक् ॥ २४५ ॥
स चेन्द्रियादौ न त्वेवं बालादेरपि सम्भवात् ।
दोषवत्यपि सद्भावात् स्वभावाद् गुणवत्यपि ॥ २४६ ॥
अन्यत्रात्मीयतायां वा व्यतीतादौ विहानितः ।
तत एव च नात्मीयबुद्धेरपि गुणेक्षणम् ॥ २४७ ॥
कारणम्; हीयते सापि तस्मान्नागुणदर्शनात् ।
अपि चासद्गुणारोपः स्नेहात् तत्र हि दृश्यते ॥ २४८ ॥
एवं तर्ह्यात्मदोषमेव वैराग्यभावनाया जहादिति चेत् ? तत्रात्मन्यविरक्तस्त-
दोषे क्वेदानीमात्मदर्शनकाले स मुमुक्षुर्विरज्यते । यथा सदोषेऽप्यात्मन्यात्म-
दर्शनादविरक्तः, तथा तद्दोषेऽपि स्नेहादात्मीयत्वदर्शनान्न विरज्येत ।
अपि च—गुणदर्शनसम्भूतं स्नेहं बाधितदोषस्य दृक् दृष्टिः ॥२४५॥
स च स्नेहो नेन्द्रियादावेवं गुणदर्शनान्न दृष्टः । बालादेरपि गुणपरीक्षा-
मभ्युपगम्य चक्षुरादावात्मीयत्वमात्रेण स्नेहस्य सम्भवात् । गुणदोषदर्शनात्
न स्नेहभावाभावौ; किन्त्वात्मीयत्वदर्शनादर्शनात् तदन्वयव्यतिरेकानुविधानादिति ।
दर्शयति च स्वकीये चक्षुरादौ गुणविकले काणत्वादिदोषवत्यप्यात्मीयत्वपरामर्शात्
स्नेहस्य सद्भावादन्यत्र परकीये नेत्रादौ दोषरहिते गुणवत्यपि ॥ २४६ ॥
आत्मीयतायामपि वाऽतीतादौ केशनखादौ, आदिशब्दाल्लूनाङ्गुल्यादौ,
वर्तमाने न स्नेह आत्मीयत्वेनादृष्टेर्विहानितः परित्यागात् स्वत्वस्य तत एव च
बालादेरपि भावात् । आत्मीयबुद्धेरपि न गुणेक्षणं कारणम्, किन्त्वात्म-
दर्शनमेव ॥ २४७ ॥
तस्माद् गुणदर्शनहेतुकत्वाभावात् सा आत्मीयबुद्धिरपि अगुणस्य दोषस्य
दर्शनान्न हीयते ।
प्रमाणसिद्धिः ९५
तस्मात् तत्कारणाबाधी विधिस्तं बाधते कथम् ।
परापरप्रार्थनातो विनाशोत्पादबुद्धितः ॥ २४९ ॥
इन्द्रियादौ पृथग्भूतमात्मानं वेत्त्ययं जनः ।
तस्मान्नैकत्वदृष्ट्यापि स्नेहः स्निह्यन् स आत्मनि ॥ २५० ॥
उपलम्भान्तरङ्गेषु प्रकृत्यैवानुरज्यते ।
प्रत्युत्पन्नात् तु यो दुःखान्निर्वेदो द्वेष ईदृशः ॥ २५१ ॥
न वैराग्यम्;
तदाप्यस्य स्नेहोऽवस्थान्तरेषणात् ।
द्वेषस्य दुःखयोनित्वात् स तावन्मात्रसंस्थितिः ॥ २५२ ॥
तस्मात् तस्य स्नेहादेः कारणस्यात्मदर्शनस्याबाधी अबाधको विधिर्दीक्षा
दुःखभावनादिरूपः तं स्नेहादिं बाधते कथम्; कारणानिवृत्त्या कार्यनिषेधस्य
कर्तुमशक्यत्वात् ।
सांख्यास्तु मन्यन्ते—"चेतनाचेतनयोः पुरुषप्रधानयोर्यावदैक्यं मन्यते
पुरुषः, तावत् स स्नेहवान् अयुक्तश्च; भेदप्रतीतौ न स्नेहो वियुक्तश्च" इति ।
अत्राह—काणत्वादिदोषयुक्तस्य परापरस्य विशिष्टविशिष्टस्य चक्षुःशरीरादिकस्य
प्रार्थनात् । आत्मनश्चान्यस्यानभिलाषतः । तस्मात् पृथग्भूतमात्मानमयममुक्तो-
ऽपि जनो वेत्ति । तथा विनाशोत्पादबुद्धितः ॥ २४८-२४९ ॥
शरीरेन्द्रियादौ विपर्ययाच्चात्मनि भिन्नमात्मानं तेभ्यो वेत्ति । तस्मा-
न्नैकत्वदृष्ट्यापि स्नेहः; किन्त्वात्मदर्शनात् । स आत्मदर्शी स्निह्यन्नात्मनि
उपलम्भान्तरङ्गेषूपभोगसाधनेष्विन्द्रियादिषु प्रकृत्या स्वभावेनैवानुरज्यते ।
प्रत्युत्पन्नात्तु वर्तमानात् पुनर्दुःखान्निर्वेदो यः स न वैराग्यम्, किन्तु द्वेष
ईदृशः ॥ २५०-२५१ ॥
यस्मात्तदापि निर्वेदावस्थायां स्नेहोऽस्यास्ति, न च विरक्तस्य स्नेहसम्भवः,
तदस्तित्वमेव कुत इति चेत् ? अवस्थान्तरस्य दुःखहेतोर्निर्वेदकारिण्यामवस्थायां
विलक्षणस्यैषणात् । न हि स्नेहमन्तरेणैकत्यागादपरवाञ्छा; द्वेषस्य दुःखस्य
८६ प्रमाणवार्त्तिके
तस्मिन् निवृत्ते प्रकृतिं स्वामेव भजते पुनः ।
औदासीन्यं तु सर्वत्र त्यागोपादानहानितः ॥ २५३ ॥
वासीचन्दनकल्पानां वैराग्यं नाम कथ्यते ।
संस्कारदुःखतां मत्वा कथिता दुःखभावना ॥ २५४ ॥
सा च नः प्रत्ययोत्पत्तिः सा नैरात्म्यदृगाश्रयः ।
मुक्तिस्तु शून्यतादृष्टेस्तदर्थाः शेषभावनाः ॥ २५५ ॥
योनित्वात् । स निर्वेदाख्यो द्वेषो यावद् दुःखमनुवर्तते तावन्मात्रं तावत्काल-
परिमाणं संस्थितिरस्येति ॥ २५२ ॥
तथा तस्मिन् दुःखे कारणनिरोधान्निवृत्ते पुनः स्वामेव प्रकृतिं विषये-
ष्त्वविरागलक्षणां भजते सत्त्वदर्शी ।
कीदृशं तर्हि वैराग्यं युक्तम् ? आह—सत्त्वदृष्ट्यभावात् सर्वत्र विषये
प्रतिकूलत्वानुकूलत्वाभ्यामनध्यवसिते त्यागोपादानयोर्हानितो वासीचन्दन-
कल्पानां वासीचन्दनयोः कल्पाः सदृशा ये वासीचन्दनकल्पा वा ये तेषां
साक्षात्कृतनैरात्म्यतत्त्वानामौदासीन्यमनुनयप्रतिघरहितत्वं पुनर्वैराग्यं नाम आगम-
प्रसिद्धं कथ्यते ।
ननु यदि दुःखभावनया स्नेहादिहान्या न मुक्तिः, तत् कथं भगवतोक्ता
दुःखभावना ? इत्याह—संस्कारदुःखतां मत्वा कथिता दुःखभावना ।
न हि दुःखदुःखतामभिसन्धाय तद्भावनोक्ता, किं तर्हि ? संस्कारदुःखताम्
॥ २५३–२५४ ॥
सैव किमुच्यते ? इत्याह—सा च संस्कारदुःखता नोऽस्माकं सौगतानां
प्रत्ययोत्पत्तिर्हेतुपारतन्त्र्यम् । सा प्रत्ययोत्पत्तिर्नैरात्म्यस्य दृशो दर्शनस्या-
श्रयः कारणम् ।
तथा हि—हेतुफलभूताः क्षणक्षयिणो भावाः प्रवृत्तयो नात्मरूपाः, नाप्यात्मा-
धिष्ठिता इति सँस्कारदुःखताभावना नैरात्म्यदर्शनानुकूला, सैव च मुक्तिहेतुरित्याह—
मुक्तिस्तु शून्यताया निरात्मताया दृष्टेः । शेषस्य नित्यदुःखादेर्भावना-
स्तदर्था निरात्मदर्शनार्थाः ॥ २५५ ॥
प्रमाणसिद्धिः ८७
अनित्यात् प्राह तेनैव दुःखं दुःखान्निरात्मताम् ।
अविरक्तश्च तृष्णावान् सर्वारम्भसमाश्रितः ॥ २५६ ॥
सोऽमुक्तः क्लेशकर्मभ्यां संसारी नाम तादृशः ।
आत्मीयमेव यो नेच्छेद् भोक्ताप्यस्य न विद्यते ॥ २५७ ॥
आत्मापि न तदा तस्य क्रियाभोगौ हि लक्षणम् ।
तस्मादनादिसन्तानतुल्यजातीयबीजिकास् ॥ २५८ ॥
तेनैवानित्यदुःखभावनायाः शून्यताभावनानुकूलत्वेन भगवान् अनित्याद्
अनित्यत्वाद् दुःखं संसारिस्कन्धानां हानाद् दुःखाद् दुःखत्वान्निरात्मतामाह ।
तद्यथा—"रूपं भिक्षवो नित्यमनित्यं वा ? अनित्यं भदन्त । यदनित्यं तद् दुःखं
सुखं वा ? दुःखं भदन्त । यदनित्यं दुःखं विपरिणामधर्मकं कल्प्यं नु तदेव द्रष्टुः–
एतन्मम्, एषोऽमस्मि, एष मे आत्मेति ? नो हीदं भदन्त ।" ( म० नि०
३. ९. ५. ५ ) इत्येवं हेतुफलभावनेनात्मदर्शनमेव मुक्तेरुपाय इति कथितम् ।
तदेवाचार्येणोक्तम् ।
उक्तो मार्गः, तदभ्यासादाश्रयः परिवर्तत इति नास्ति विरोधः ।
य पुनरात्मदर्शी सोऽविरक्त एव । अविरक्तश्च तृष्णावान् । हान्युपा-
दानलक्षणान् कर्मप्रसवहेतून् समाश्रितः ॥ २५६ ॥
सोऽमुक्तः क्लेशकर्मभ्यां आत्मदर्शनप्रवृत्तिकारणकाभ्यां संसारी नाम
प्रसिद्धः तादृशः । तदेवमात्मनि सति नात्मीयत्यागः, तथाऽमुक्तिरित्युक्तम् ।
भवतु वाऽत्मीयत्यागः, तथाप्यात्मीयमेव यो नेच्छेत्, तन्मतेऽस्यात्मीयस्य
भोक्ता न विद्यते; भोग्यापेक्षत्वाद् भोक्तृत्वस्य ॥ २५७ ॥
भोक्त्रभावे आत्मापि नास्तीति प्रसङ्गात् । कुत इति चेत् ? हि यस्मात्
तस्यात्मनः क्रियाभोगौ लक्षणं कर्त्ता भोक्ता चात्मोच्यते । यदा चात्मीयमेव
नास्ति किमर्थं कर्म कर्तव्यम्, किं वा भोक्तव्यम् ! कर्तृत्वभोक्तृत्वाभावादात्मा-
भाव एव स्वीकृतः स्यात् ! तस्मात् सत्यात्मनि आत्मीयं तत्स्नेहादिसत्त्वेऽनुच्छेद
एवं संसारस्य । तस्मात् संसारादुद्विजमाना मुमुक्षव उत्खातमूलामुद्धृतकारणां
सत्त्वदृष्टिं कुरुत ।
उत्खातमूलां कुरुत सत्त्वदृष्टिं मुमुक्षवः ।
आगमस्य तथाभावनिबन्धनमपश्यताम् ॥ २५९ ॥
मुक्तिमागममात्रेण वदन्न परितोषकृत् ।
मोक्षे दीक्षाविधिर्किञ्चित्करः
नालं बीजादिसंसिद्धो विधिः पुंसामजन्मने ॥ २६० ॥
तैलाभ्यङ्गाग्निदाहादेरपि मुक्तिप्रसङ्गतः ।
प्राग् गुरोर्लाघवात् पश्चान्न पापहरणं कृतम् ॥ २६१ ॥
मा भूद् गौरवमेवास्य न पापं गुर्व्वमूर्त्तितः ।
ननु किमस्या मूलम् ? इत्याह—अनादिसन्तानस्तुल्यजातीयः पूर्वपूर्व-
सत्त्वदर्शनस्वभावोऽविद्यारूपो बीजं कारणं यस्यास्तां सत्त्वदर्शनमविद्यास्वभावं
पूर्वपूर्वमुत्तरोत्तरस्य सत्त्वदर्शनस्य हेतुरित्यर्थः ।
ननूक्तमीश्वरेणागमे—"अस्त्यात्मा, मोक्षश्चास्य दीक्षाविधिना" ( )
इति, तत्किमत्र चिन्त्यते; "तत्कारणाबाधी विधिस्तं बाधते कथम्" ( प्र० वा०
१. २४९ ) इत्यादिनाक्तत्वात् ? अत्राह—आगमस्य तथाभावस्य प्रतिपादि-
तार्थसंवादित्वस्य निबन्धनं हेतुमपश्यतां मुमुक्षूणामागममात्रेण मुक्तिं वदन्
न परितोषकृद् भवति ।
नन्वस्ति प्रामाण्यनिबन्धनमागमस्य दीक्षाविधिस्पृष्टस्यानारोहधर्मकत्वदर्शनम्,
यथा हि बीजं दीक्षाविधिस्पृष्टं न प्ररोहति तथा पुमानपि दीक्षितो न पुनर्भवति ?
इत्याह—नालं शक्तो बीजादिषु संसिद्धो विधिर्दीक्षायाः पुंसामजन्मने;
तैलाभ्यङ्गाग्निदाहादेरपि संसारान्मुक्तिप्रसङ्गतः । तैलेनाभ्यक्तं बीजमग्निना
च स्पृष्टं न प्ररोहति, तथा पुरुषोऽपि तैलाभ्यङ्गाग्निदाहाभ्यां न पुनर्भवेत् ।
स्यादेतत्—दीक्षायाः प्राक् पापगुरोरुत्तरं तुलया लाघवात् पापाभावोपलम्भ
आगमप्रमाण्यनिबन्धनम् ? इत्याह—प्राग् गुरोर्लाघवात् पश्चान्न पापहरणं
कृतम् । दीक्षायाः प्राग् गुरोः पश्चाल्लाघवात् दीक्षया न पापहरणस्य दीक्षितस्य,
किन्तु गौरवमेवास्य कृतं सत् मा भूदिति कस्मान्न कल्प्यते । लाघवं हि
गौरवविरोधि दृश्यमानं तदभावमेव गमयेत, न पापभावम् । पापमेव गुर्विति