सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 109, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 109

प्रमाणसिद्धिः ८३
यद्यप्येकत्र दोषेण तत्क्षणं चलिता मतिः ॥ २४१ ॥
विरक्तो नैव तत्रापि कामीव वनितान्तरे ।
त्याज्योपादेयभेदे हि सक्तिर्यैकभाविनी ॥ २४२ ॥
सा बीजं सर्वसक्तीनां पर्यायेण समुद्भवे ।
निर्दोषविषयः स्नेहो निर्दोषः साधनानि च ॥ २४३ ॥
एतावदेव च जगत् क्वेदानीं स विरज्यते ।
सदोषताऽपि चेत् तस्य, तत्रात्मन्यपि सा समा ॥ २४४ ॥
यद्यप्येकत्रापराधकारिणि दोषदर्शनात् तत्क्षणं नियतकालमनुरागाच्चलिता
मतिः; विरागभजनात् ॥ २४१ ॥
तथाप्यसौ नैव १ तत्र विरक्तः; सर्वथा पर्यायेण रागोत्पत्तेः । किं
पुनः ? अन्यत्र कामीव क्वचित् कामिन्यां रागकारिण्यां विरक्तोऽपि वनितान्तरे
विरक्तः । तस्यामपि वा क्रमेण ।
किञ्च—प्रतिघानुनयविषयत्वात् त्याज्योपादेयभेदे हि सति सक्तिरा-
सक्तिर्यैकस्मिन् भाविनी द्वेषविषयतया, अनुरागविषयतया वा ॥ २४२ ॥
सा सक्तिर्बीजं कारणं सर्वसक्तीनां पर्यायेण परिपाट्या समुद्भव-
निमित्तम् । तथा हि—क्वचिद् द्वेषासक्त्या तदनुकूलप्रतिकूलयोः प्रतिघानुनयौ
भवतः । तथानुरागासक्त्यापि क्वचित् तयोरेवानुनयद्वेषौ भवतः । तदेवमात्मनो २
निर्दोषत्वात् निर्दोषविषयः स्नेहो निर्दोषः स्वयम् उपभोगसाधनानि चेन्द्रिय-
शरीरादीनि शब्दरसरूपादीनि निर्दोषाणि; आत्मादीनां सर्वेषां प्रत्येकं दुखहेतुत्वा-
भावात् ॥ २४३ ॥
एतावदेव च जगत्; त्रिभिर्जगतः संग्रहात् । क्वेदानीं स मोक्तु-
कामो विरज्यते । समुदायाद्दोषदर्शनात् तत एव विरज्यते चेत् ? नन्वेवमात्म-
न्यपि वैराग्यं प्राप्तम् । न केवलं गुणवत्ता सदोषतापि चेत् तस्य स्नेहेन्द्रियादेः ?
तत्रात्मन्यपि कैवल्येनेष्टे सा सदोषता समा; तस्या अपि स्नेहादिदोष-
वत्त्वात् ॥ २४४ ॥
१. रा० पुस्तके नास्ति । २. तदेवममात्नो—रा० ।