सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

५२ प्रमाणवार्त्तिके
५. सुगतत्वाद् भगवान् प्रमाणम्
त्रिगुणं सुगतत्वम्
हेतोः प्रहाणं त्रिगुणं सुगतत्वमनिःश्रयात् ॥ १४१ ॥
दुःखस्य शस्तं नैरात्म्यदृष्टेश्च १ युक्तितोऽपि १ वा ।
पुनरावृत्तिरित्युक्तौ जन्मदोषसमुद्भवौ ॥ १४२ ॥
आत्मदर्शनबीजस्य हानादपुनरागमः ।
तद्भूतभिन्नात्मतया शेषमक्लेशनिज्वरम् ॥ १४३ ॥
कायवाग्बुद्धिवैगुण्यं मार्गोक्त्यपटुतापि वा ।
सुगतत्वं व्याचिख्यासुराह—हेतोः समुदयस्य प्रहाणं निरोधः सुगतत्वम्,
तच्च त्रिगुणं गुणत्रययुक्तम् । सुशब्दस्य त्रिविधोऽर्थः—१. प्रशस्तता सुरूपवत्,
२. अपुनरावृत्तिः सुनष्टज्वरवत् २, ३. निःशेषता च सुपूर्णघटवत् ३ ।
तत्र ‘प्रशस्तं भगवान् ज्ञातवान् = सुगतः’ इति प्रशस्तार्थमाह—अनिः-
श्रयाद् अनाश्रयणाद् दुःखस्य शस्तं सुगतत्वम् । तत् पुनर्दुःखानाश्रयणं
नैरात्म्यदृष्टेः । आत्मदर्शी ह्यात्मनि स्निह्यन् तद्दुःखसुखपरिहारप्राप्तीच्छया
जन्म दुःखरूपमादत्ते, प्रहीणात्मदर्शनस्तु नैतादृश इति प्रहीणदुःखोपायो
युक्तितोऽपि वा युक्तिपरिदृष्टेनोपायेन वा गमनात् तत्सुगतत्वं प्रशस्तम् ।
अथ वा—अपुनरावृत्त्या गमनं सुगतत्वम्, तदाख्यातुमाह—जन्मनो
रागादेश्च दोषस्य समुद्भवौ पुनः पुनः पुनरावर्तनात् पुनरावृत्तिरित्युक्तौ ॥
१४१–१४२ ॥
नैरात्म्यभावनासात्म्ये तु आत्मदर्शनस्य जन्मप्रबन्धबीजस्य हानादपुनरा-
गमोऽपुनरावृत्तिः । तत् पुनरात्मदर्शनबीजस्य हानं भूतात् सत्यात् नैरात्म्याद्
भिन्नात्मतयाऽन्यत्वात् । न हि सात्मीभूतप्रतिपक्षस्य विपक्षबीजसम्भवः ॥ १४३॥
निःशेषं वागमनात् सुगतत्वम् । तदाह—कायवैण्यम् अचापलेऽप्युत्प्लुत्य
गमनादि, वाग्वैगुण्यं मानाभावेऽपि वृषलीवादादि, बुद्धिवैगुण्यं नित्यासमाधा-
नादव्याकृतचित्तावस्थानम्—एतत् त्रयं शेषम् । सकलक्लेशोपक्लेशप्रशमाद-
१-१. दृष्टेस्तद्युक्ति०-पाठा० । २. अनष्टज्वरवत्-रा० । ३. अपूर्णघटवत्-रा० ।

प्रमाणसिद्धिः ५३
अशेषहानमभ्यासाद्;
सर्वज्ञबाधने जैमिनीयमतम्
उक्त्यादेर्दोषसंक्षयः ॥ १४४ ॥
नेत्येके;
तत्प्रतिवचनम्
व्यतिरेकोऽस्य सन्दिग्धो व्यभिचार्यतः ।
अक्षयित्वं च दोषाणां नित्यत्वादनुपायतः ॥ १४५ ॥
उपायस्यापरिज्ञानादपि^१ वा परिकल्पयेत् ।
हेतुमत्त्वाद् विरुद्धस्य हेतोरभ्यासतः क्षयात् ॥ १४६ ॥
हेतुस्वभावज्ञानेन तज्ज्ञानमपि साध्यते ।
क्लेशम् । निर्ज्वरं चादोषमूलत्वात् । मार्गस्य क्षणिकनैरात्म्यभावनादेरुक्ता-
वपटुतापि वा शेषम्, तत्परित्यागादशेषहानमभ्यासादिति निःशेषगमनात्
सुगतत्वम् ॥ दर्शितं त्रिगुणं सुगतत्वम् ॥
तदेवं सर्वज्ञस्य सम्भवानुमानं प्रतिपाद्य तद्बाधकं दूषयितुमाह—एके
जैमिनीयाः 'उक्त्यादेर्हेतो रथ्यापुरुषवत् रागादिदोषसंक्षयः कस्यचिन्नास्ति'
इत्याहुः । व्यतिरेको विपक्षाद् व्यावृत्तिः अस्य वक्तृत्वादिहेतोः सन्दिग्धः,
अतो व्यभिचार्यनैकान्तिकोऽयमिति विस्तरतो विपञ्चयिष्यते ।
किञ्च—अक्षयित्वं दोषाणां यो मन्यते, स नित्यत्वाद्वाऽकाशवत्,
अनुपायत उपायाभावाद् वा, नष्टस्य पुनरुन्मज्जनवत् ॥ १४४-१४५ ॥
उपायस्यापरिज्ञानाद् वा मूर्खस्य शब्दज्ञानवत् परिकल्पयेत् ।
एषां त्रयाणामपि हेतूनामसिद्धत्वं दर्शयति—हेतुमत्त्वाद् विरुद्धस्य
हेतुमत्त्वाद् दोषाणामनित्यत्वम्, ततोऽसिद्धं नित्यत्वं दोषाणाम् । हेतोरात्मदर्श-
नस्य विरुद्धस्य नैरात्म्यस्याभ्यासतः क्षयादुपायाभावोऽप्यसिद्धः ॥ १४६ ॥
हेतोरात्मदर्शनस्य स्वभावज्ञानेन तत् ज्ञानमपि तन्निवृत्त्युपायस्य तद्वि-
१. ॰परिज्ञानादिति—पाठा० ।

५४ प्रमाणवार्त्तिके
६. तायित्वाद् भगवान् प्रमाणम्
तायः स्वदृष्टमार्गोक्तिः, वैफल्याद् वक्ति नानृतम् ॥ १४७ ॥
दयालुत्वात् परार्थञ्च सर्व्वारम्भाभियोगतः ।
तस्मात्¹ प्रमाणम्;
तायो वा चतुःसत्यप्रकाशनम् ॥ १४८ ॥
चतुरार्यसत्यनिरूपणम्
१. दुःखसत्यम्
दुःखं संसारिणः स्कन्धाः;
पर्ययरूपस्य ज्ञानञ्च साध्यते । यथा दाने ज्ञाते तद्विपर्यरूपत्वान्मात्सर्यस्य
तद्विपक्षतावसीयत इति तृतीयोऽप्यसिद्धः ॥ प्रत्युक्तं सर्वज्ञस्य बाधनम् ॥
तायित्वं व्याख्यातुमाह—दुःखहेतुनिवर्त्तकत्वेन स्वयं दृष्टस्य मार्गस्यो-
क्तिर्देशना² = तायः, कारणे कार्योपचारात् । तया हि सत्त्वान् तायते, तद्योगात्
तायित्वम् । स च वैफल्याद् वक्ति नानृतम् । आत्मसुखाद्यभिलाषादिना
कश्चिदसत्यं वदति, अज्ञानाद्वा; प्रहीणात्मदर्शनस्य साक्षात्कृततत्तत्त्वस्य तदुभयं
नास्ति ॥ १४७ ॥
विशेषतः सत्याभिधानहेतुरेव कृपाऽस्तीत्याह—दयालुत्वाच्च परार्थञ्च
सर्वस्य मार्गाभ्यासादेरारम्भेऽभियोगतः परार्थमेवोद्दिश्य भगवानभिसम्बुद्धः,
कथं तस्य मिथ्याभिधानेन सत्त्ववञ्चनाशङ्कापि ! तस्मात् तायित्वात् प्रमाणं
भगवान् । यथादृष्टार्थप्रवक्तृत्वं हि संवादित्वमेवेति प्रथमप्रमाणलक्षणयोगात्
प्रामाण्यमनेनोक्तम् ।
द्वितीयलक्षणयोगमप्याह—तायो वा चतुःसत्यप्रकाशनम् । परैरज्ञातस्य
सत्यचतुष्टयस्य प्रकाशनं वा तायः । तद्योगात् तायी प्रमाणं भगवानुक्तः ॥
१४८ ॥
आर्यसत्येषु दुःखमाह—रूपवेदनासंज्ञासंस्कारविज्ञानाख्याः पञ्च स्कन्धाः ।
जन्ममरणप्रबन्धः संसारः, तद्वन्तः; दुःखं तिसृभिर्दुःखताभिः ।
१. ततः—पाठा० । २. मार्गस्योक्तेर्देशना—रा० ।

प्रमाणसिद्धिः ५५
रागादेः पाटवेक्षणात् ।
अभ्यासान्न यदृच्छातोऽहेतोर्जन्मविरोधतः ॥ १४९ ॥
व्यभिचारान्न वातादिधर्मः प्रकृतिसङ्करात् ।
अदोषश्च तदन्योऽपि धर्मः किं तस्य नेष्यते ॥ १५० ॥
न सर्वधर्मः सर्वेषां समरागप्रसङ्गतः ।
रूपादिवददोषश्चेत् तुल्यं तत्रापि चोदनम् ॥ १५१ ॥
आधिपत्यं विशिष्टानां यदि तत्र न कर्मणाम् ।
ननु यदि स्कन्धा एव प्रतीत्यसमुत्पन्नाः, न तु कश्चित् सत्त्वो यः संसरति,
तदा रागादयो यादृच्छिका अहेतवः स्युः ? इत्याह—अभ्यासाद् रागादेः पाट-
वस्ये क्षणात् । अभ्यासादेव ते भवन्ति, न तु यदृच्छातः । न ह्यकारणाद्
विशेषसम्भवः । नाप्यहेतुका रागादयोऽहेतोर्हेतुरहितस्य जन्मविरोधतः ।
न ह्याकाशं कदाचिज्जायते ॥ १४९ ॥
स्यादेतत्—वातप्रकृतिर्मोहवान्, पित्तप्रकृतिर्द्वेषवान्, श्लेष्मप्रकृती राग-
वानिति वातादिधर्मो दोषगणः ? इत्याह—न व्यभिचाराद् वातादिधर्मो
रागादिः । वातप्रकृतिरपि न मोहबहुलः, पित्तप्रकृतिरपि न पटुद्वेषः, श्लेष्म-
प्रकृतिश्च नोद्भूतरागविशेषः कश्चिद् दृश्यते—इति वातादिव्यभिचारिणो मोहा-
दयो न तद्धेतवः । प्रकृतिसंकराददोषश्चेत् संकीर्णप्रकृतयो हि पुरुषाः; प्रत्येकं
वातपित्तश्लेष्मणां सत्त्वात्, अतो दोषाणां न कारणव्यभिचारः ? यद्येवम्,
तस्याद्वेषादेरन्यो धर्मः खरत्वादि तस्य वातादेः किं नेष्यते ॥ १५० ॥
अथ प्रत्येकं सर्वेषां रागादिधर्मः, ततो न व्यभिचारः ? इत्याह—न सर्वधर्मः
सर्वेषाम्; समस्य रागस्य प्रसङ्गात् नानाप्रकृतिकत्वेऽपि रागादिहेतोः समान-
त्वात् । रूपादिवददोषश्चेत् यथा भूतमात्रहेतुकत्वेऽपि रूपादय उत्कृष्यन्ते,
अपकृष्यन्ते च क्वचित्, तथा रागादयोऽपीति चेत् ? तुल्यं तत्र रूपादावपि
चोदनं समत्वस्य ॥ १५१ ॥
आधिपत्यं विशिष्टानां कर्मणां श्रुताश्रुतलक्षणानाम् । यदि तत्र रूपादौ
कार्ये नेष्यते भूतसहकारिणां कर्मणां वैशिष्ट्यात् रूपादिविशेष इत्यर्थः ।

५६ प्रमाणवार्त्तिके
विशेषेऽपि च दोषाणामविशेषाद्;
असिद्धता ॥ १५२ ॥
न विकाराद् विकारेण सर्वेषाम्, न च सर्वजाः ।
कारणे वर्धमाने च कार्यहानिर्न युज्यते ॥ १५३ ॥
तापादिष्विव;
रागादेर्विकारोऽपि सुखादिजः ।
वैषम्यजेन दुःखेन रागस्यानुद्भवो यदि ॥ १५४ ॥
वाच्यं केनोद्भवः साम्यान्मदवृद्धिः स्मरस्ततः ।
स्यादेतत्—न दोषमात्राद् रागादयः, अपि तु तेषां परिणामविशेषात्, यथा
व्याधयः, ततो न समरागतादिप्रसङ्गः ? इत्याह—विशेषेऽपि च दोषाणां
प्रकोपादिनाऽविशेषात् रागादीनां न दोषपरिणामहेतुता ॥ १५२ ॥
ननु 'अविशेषात्' इत्यसिद्धो हेतुः, कफाद्युत्कर्षे रागाद्युत्कर्षदृष्टेः ? इत्याह—
नासिद्धताऽविशेषस्य । तथा हि—सर्वेषां कफादीनां विकारेणोत्कर्षेण
पीडया विकारात् द्वेषो भवति, न रागादयः । सर्वजत्वाददोष इति चेत् ? न च
सर्वजाः समरागतादिप्रसङ्गादित्युकैः ॥
किञ्च—सन्निपातावस्थायां कारणे कफादिके वर्धमाने कार्यस्य रागादे-
र्हानिर्न युज्यते, तापादिष्विव तापादीनामिव पित्तादिवृद्धौ ।
स्यादेतद्—दोषाणां साम्ये रागादयो भवन्ति, वैषम्ये तु द्वेषादयः, ततो
विशेषेऽपि दोषाणां न विशिष्यन्ते रागादय इत्यसिद्धो हेतुः ? इत्याह—रागादे-
र्दोषसाम्यावस्थायां विकारोऽपि वृद्धिलक्षणो यः स सुखादिजः; आन्तरधातु-
साम्यस्पर्शप्रभवेण सुखादिना वर्धन्ते रागादयः ।
वैषम्यजेन दुःखेन द्वेषस्योत्पादनात् तद्विरुद्धस्य रागस्यानुद्भवो यदि
मतः, तदा वाच्यं केन हेतुना रागस्योद्भवः । साम्याद् दोषाणां मदस्य
शुक्रस्य वृद्धिः, स्मरो रागः ।

प्रमाणसिद्धिः ५७
रागी विषमदोषोऽपि दृष्टः साम्येऽपि नापरः ॥ १५५ ॥
क्षयादसृक्स्रुतोऽप्यन्ये;
नैकस्त्रीनियतो मदः ।
तेनैकस्यां न तीव्रः स्याद्, अङ्गं रूपाद्यपीति चेत् ॥ १५६ ॥
न सर्वेषामनेकान्तान्न चाप्यनियतो भवेत् ।
अगुणग्राहिणोऽपि स्यात्; अङ्गं सोऽपि गुणग्रहः ॥ १५७ ॥
यदि सर्वो गुणग्राही स्याद्, हेतोरविशेषतः ।
यदवस्थो मतो रागी न द्वेषी स्याच्च तादृशः ॥ १५८ ॥
शुक्रवृद्धेर्यदीष्टमेतदप्ययुक्तम्; यतः रागी विषमदोषोऽपि रागचरितः कश्चिद्
दृष्टः, साम्येऽपि नापरः प्रतिसंख्यानबली मन्दरागप्रकृतिर्वा दृष्टः ॥ १५३-१५५ ॥
क्षयाच्छुक्रस्यासृक्स्रुतो रक्तं क्षरन्तोऽप्यन्ये रागबहुला दृष्टा इति
शुक्रमपि न रागहेतुः ।
किञ्च—नैकस्त्रीनियतो मदः । न ह्येकां स्त्रियमपेक्ष्य शुक्रं शुक्रीभवति,
अपि तु सर्वाः । तेन साधारणत्वेन शुक्रस्य तज्जन्यो राग एकस्यां स्त्रियां न
तीव्रः स्यात्, किन्तु साधारणः । अङ्गं रूपाद्यपीति चेत् रूपयौवनोपचारादि
च सहकारि रागवृद्धेरिति चेत् ? न युक्तमेतत्; सर्वेषां रूपादीनामनेकान्तत्वात्
रूपादिरहितेष्वपि रागोत्कर्षदृष्टेः । किञ्च—यदि शुक्रं रूपादि च स्त्रियाः
कारणं रागस्य, तदा न चाप्यनियतोऽविषयीकृतस्त्रीविशेषः साधारणो रागो न
भवेत् ; रूपादि सहकारिणोऽव्यापारात् । तथा रूपवत्या अगुणमशुभभावनाभावितं
गृह्णतोऽपि रागः स्यात् ; शुक्ररूपयोस्तद्धेत्वोः सद्भावात् । अङ्गं निमित्तं
सोऽपि गुणग्रहः, ततोऽशुभां भावयतो न स्याद् रागः ॥ १५६–१५७ ॥
यदि सर्वः शुभाशुभभावको गुणग्राही स्यात् ; गुणग्रहस्य हेतो रूपादेः
सर्वान् प्रत्यविशेषतः ।
किञ्च—यदवस्थः श्लेष्मप्रकृतिस्थः पुरुषो रागी मतः, तदवस्थो न
द्वेषी स्यात् ॥ १५८ ॥

५८ प्रमाणवार्त्तिके
तयोरसमरूपत्वान्नियमश्चात्र नेष्यते ।
सजातिवासनाभेदप्रतिबद्धप्रवृत्तयः ॥ १५९ ॥
यस्य रागादयस्तस्य नैते दोषाः प्रसङ्गिनः ।
एतेन भूतधर्मत्वं निषिद्धम्;
निःश्रयस्य च ॥ १६० ॥
निषेधान्न पृथिव्यादिनिःश्रिता धवलादयः ।
तदुपादाय शब्दश्च हेत्वर्थः स्वाश्रयेण च ॥ १६१ ॥
अविनिर्भागवर्तित्वाद् रूपादेराश्रयोऽपि वा ।
कुतः ? इत्याह—तयो रागद्वेषयोरसमरूपत्वाद् विरुद्धत्वात् तदुत्पादिक-
योरवस्थयोरपि विरोधः । स्यादेतद्, रागोत्पादिकायामवस्थायां द्वेषो न भवत्येव ?
इत्याह—नियमश्चात्र नेष्यते । श्लेष्मावस्थो रागी न द्वेषी—इति नात्र नियमः ।
तवापि कस्मादमी समरागप्रसङ्गादयो दोषा न भवन्ति ? इत्याह—
सजातिवासना आत्मात्मीयग्रहमूलस्य सजातेः पूर्वपूर्वाभ्यस्तस्य रागादेर्वासना-
ऽपरापररागादिजनिकाः शक्तयः तासां भेदः परस्परतः, तत्र प्रतिबद्धा प्रवृत्तिः
र्जन्म येषां ते तथा रागादयो यस्य बौद्धस्य मते, तस्य नैतेऽनन्तरमुक्ता
दोषाः प्रसङ्गिनः ।
एतेन वातादिधर्मत्वनिषेधेन भूतधर्मत्वं निषिद्धं रागादेर्बोद्धव्यम्;
दोषाणां मरुत्तेजोऽम्भःस्वभावत्वात् ।
भवन्तु सभागहेतुकाः, पृथिव्याद्याश्रितास्तु स्युः, धवलादिवत् ? इत्याह—
निश्रयस्याश्रयस्य निषेधाद् “अनाश्रयात् सदसतोः” ( प्र० वा० १. ६५ )
इत्यादिना न पृथिव्यादिनिःश्रिता धवलादयोऽपि, कुत एव रागादयः !
कथं तर्हि भूतान्याश्रित्योपादाय रूपमुत्पद्यत इतीष्टम् ? इत्याह—तदुपा-
दाय शब्दश्च तानि भूतानि उपादाय शब्दश्च हेत्वर्थः । भूतानि हेतूकृत्यो-
पादाय रूपमुत्पद्यत इत्यर्थः । स्वाश्रयेण भूतचतुष्केण रूपादेरेकसामग्र्यधीन-
त्वेन अविनिर्भागवर्त्तित्वाद् विभागेनानवस्थितेराश्रयोऽपि वा भूतचतुष्कम् ।

प्रमाणसिद्धिः ५९
मदादिशक्तेरिव चेद् विनिर्भागः;
न वस्तुनः ॥ १६२ ॥
शक्तिरर्थान्तरं वस्तु नश्येन्नाश्रितमाश्रये ।
तिष्ठत्यविकले याति, तत्तुल्यं चेन्न भेदतः ॥ १६३ ॥
भूतचेतनयोः;
भिन्नप्रतिभासावबोधतः ।
आविकारश्च कायस्य तुल्यरूपं भवेन्मनः ॥ १६४ ॥
रूपादिवत्;
विकल्पस्य क्वार्थपरतन्त्रता ।
अनपेक्ष्य यदा कार्यं वासनाबोधकारणम् ॥ १६५ ॥
स्यादेतत्, सुराया मदशक्तेः, आदिशब्दात् कनकादेरुन्मादशक्तेरिवाश्रित-
त्वेऽपि विनिर्भागो भूतैः सह चैतन्यस्य स्यात् । यथा मदशक्तिरहिता व्यापन्ना
सुरा दृश्यते, एवं चैतन्यरहितानि भूतान्यपि स्युरिति चेत् ? न वस्तुनः सुरादेः
शक्तिरर्थान्तरम्, किन्तु वस्त्वेवार्थक्रियाशक्तं शुक्त्याद्यवस्थायां नश्येत् ।
असमर्थस्य चोत्पत्तिर्नाश्रितं शक्त्याद्यविकल आश्रये तिष्ठति याति अपैति ।
तत्तुल्यं चेत् भूतचेतनयोरप्यैकात्म्यम् । तद्भूतचैतन्ये भूते नष्टे निश्चेतनं
भूतान्तरमुत्पद्यत इति चेत् ? न युक्तमेतत्; भेदतो भूतचैतन्ययोः ।
कथम् ? इत्याह—भिन्नप्रतिभासावबोधतः । भिन्नाकारज्ञानविषयतया
भिन्ने भूतचैतन्ये नान्यथा क्वचिदपि भेदसिद्धिः । यदि च देहचित्तयोरैक्यम्,
तदा आविकारश्च कायस्य यावन्न विक्रियते देहम्, तावत्तुल्यमेकाकारं
भवेन्मनो रूपादिवत् ।
स्यादेतत्, एकरूपत्वेऽपि देहस्वार्थानां नानारूपत्वात् ज्ञानमपि तथा ? इत्याह–
विकल्पस्य क्वार्थपरतन्त्रता, येनार्थनानात्वात् कल्पनापि तथा स्यात् !
अनपेक्षितसन्निधयः उपादानवशेन विकल्पाः प्रवर्तन्ते इति वासनाभेदादेषां भेदः ।
एवञ्चानपेक्ष्य यदा कार्यं किञ्चिज्ज्ञानं वासनाबोधस्य प्रबोधस्य
कारणं स्यात् ॥ १५९–१६५ ॥

६० प्रमाणवार्त्तिके
ज्ञानं स्यात् कस्यचित् किञ्चित् कुतश्चित् तेन किञ्चन ।
अविज्ञानस्य विज्ञानानुपादानाच्च सिध्यति ॥ १६६ ॥
विज्ञानशक्तिसम्बन्धादिष्टं चेत् सर्ववस्तुनः ।
एतत् सांख्यपशोः कोऽन्यः सलज्जो वक्तुमीहते ॥ १६७ ॥
अदृष्टपूर्वमस्तीति तृणाग्रे करिणां शतम् ।
यद् रूपं दृश्यतां यातं तद् रूपं प्राङ् न दृश्यते ॥ १६८ ॥
शतधा विप्रकीर्णेऽपि हेतौ तद् विद्यते कथम् ।
रागाद्यनियमोऽपूर्वप्रादुर्भावे प्रसज्यते ॥ १६९ ॥
भूतात्मताऽनतिक्रान्तः सर्वो रागादिमान् यदि ।
सर्वः समानरागः स्याद् भूतातिशयतो न चेत् ॥ १७० ॥
कस्यचिदुत्पद्यमानस्य ज्ञानस्य तदा तेन प्रबोधकानुरोधेन कुतश्चिज्ज्ञा-
नादनन्तरं किञ्चन ज्ञानं स्यादिति सुस्थमस्य पक्षे । अविज्ञानस्य विज्ञान-
शून्यस्य लोष्टादेर्विज्ञानानुपादानाच्च सिध्यति विज्ञानादेव विज्ञानम् ॥१६६॥
सर्वस्य वस्तुनो विज्ञानशक्तिसम्बन्धादविज्ञानाद् विज्ञानानुत्पादनमिष्टं
चेत् ? एतद् विज्ञानस्य शक्तिरूपतयाऽवस्थानं सांख्यपशोः कोऽन्यः सलज्जो
वक्तुमीहते, यो ब्रूयाद्—अदृष्टमपि तृणाग्रे करिणां शतमस्तीति ।
तथा हि—यदि शक्तिरभिव्यक्तिरूपाद् विज्ञानादन्या, तदाऽविज्ञानत्वं
सिद्धम्; अथानन्या, तदा यद्रूपं ज्ञानाख्यं दृश्यतां यातमभिव्यक्तावस्थायां तद्रूपं
प्राक् शक्त्यवस्थायां शतधापि विप्रकीर्णे हेतौ न दृश्यते, कथं तद् विद्यत
इति नाविज्ञानत्वमसिद्धम् ।
किञ्च—न चेत् परलोकादागच्छति चित्तसन्तानः, तदाऽपूर्वसत्त्वप्रादुर्भावे
रागाद्यनियमश्चक्षुराद्यनियमवत् प्रसज्यते । यथा चक्षुःकरचरणाद्यमतानियमः
पुरुषे नेक्ष्यते, कदाचित् कस्यचिदभावदर्शनात्; तथा रागी रागितरो नीरागश्च
कश्चित् स्यात् ॥ १६७–१६९ ॥
भूतात्मताया अनतिक्रान्तः सर्वः पुमान् रागादिमान् यदि, तदासर्वः
समानरागः स्यात्; भूतात्मताया अविशेषात् । भूतानामवान्तरादतिशयतः

प्रमाणसिद्धिः ६१
भूतानां प्राणिताऽभेदेऽप्ययं भेदो यदाश्रयः ।
तन्निर्ह्रासातिशयवत् तद्भावात् तानि हापयेत् ॥ १७१ ॥
न चेद् भेदेऽपि रागादिहेतुतुल्यात्मताक्षयः ।
सर्वत्र रागः सदृशः स्याद्धेतोस्सद्दशात्मनः ॥ १७२ ॥
न हि गोप्रत्ययस्यास्ति समानात्मभुवः क्वचित् ।
तारतम्यं पृथिव्यादौ प्राणितादेरिहापि वा ॥ १७३ ॥
औष्ण्यस्य तारतम्येऽपि नानुष्णोऽग्निः कदाचन ।
तथेहापीति चेन्नाग्नेरौष्ण्याद् भेदनिषेधतः ॥ १७४ ॥
तारतम्यानुभविनो यस्यान्न्यस्य सतो गुणाः ।
समानरागता प्रसङ्गो न चेत् । भूतानां प्राणिताया अभेदेऽप्ययं भेद उत्कट-
मन्दरागत्वादिको यदाश्रयो यदवान्तरविशेषवत् कारणमाश्रित्य तत्कारणं
निर्ह्रासातिशयवत् अपचयतारतम्यवत् तद्भावाद् रागादिमत्त्वात् तानि भूतानि
हापयेत् भ्रंशयेदिति नीरागोऽपि कश्चित् सत्त्वः स्यात् ॥ १७०-१७१ ॥
भेदे मन्दोत्कटरागादिजनकेऽवान्तरभूतविशेषेऽपि रागादिहेतुत्वेन या
तुल्यात्मता सदृशता तस्याः क्षयो न चेत्, सर्वत्र पुंसि सदृशो रागादिः
स्यात्; सदृशात्मनो हेतोर्भावात् ॥ १७२ ॥
न हि गोप्रत्ययस्यास्ति समानात्मभुवः सदृशकारणोत्पत्तेः क्वचित्
शाबलेयादौ तारतम्यम्, अपि तु सर्वत्र समानतैव । पृथिव्यादौ सदृशे
हेतौ प्राणितादेरिह चार्वाकमतेऽपि वा विशेषो न विद्यते ॥ १७३ ॥
औष्ण्यस्य तारतम्येऽपि खादिराग्न्यादौ नानुष्णोऽग्निः कदाचन ।
तथेह रागादितारतम्येऽपि न वीतरागः कश्चिदिति चेत् कदाचन ? नैतद्युक्तम्;
अग्नेरौष्ण्याद् भेदस्य निषेधतः । नैतद्युक्तम्; भास्वररूपोष्णस्पर्शादिरग्नि-
रुच्यते, तेनौष्ण्याभावेऽग्निरेव न स्यात् । रागादिस्तु भूतेभ्योऽन्यः, तदभावेऽपि
तेषां भावात् ॥ १७४ ॥
अतः सविशेषणं हेतुं दर्शयति । गुणेभ्योऽन्यस्य यस्य सतो धर्मिणो ये
तारतम्यानुभविनो गुणास्ते क्वचिद् धर्मिणि प्रतिहन्यन्ते । तद्भेदे

६२ प्रमाणवार्तिके
ते कचित् प्रतिहन्यन्ते तद्भेदे धवलादिवत् ॥ १७५ ॥
रूपादिवन्न नियमस्तेषां भूताविभागतः ।
तत् तुल्यं चेन्न रागादेः सहोत्पत्तिप्रसङ्गतः ॥ १७६ ॥
विकल्प्यविषयत्वाच्च विषया न नियामकाः ।
सभागहेतुविरहाद् रागादेर्नियमो न वा ॥ १७७ ॥
सर्वदा सर्वबुद्धीनां जन्म वा हेतुसन्निधेः ।
दुःखसत्यस्य चतुराकारत्वम्
कदाचिदुपलम्भात् तदध्रुवं दोषनिःश्रयात् ॥ १७८ ॥
भूतभेदे धवलादिवत् । न हि सर्वो भूतपरिणामः शुक्लः ॥ १७५ ॥
स्यादेतद्, भूतधर्मो रूपादिर्यथा अवश्यम्भूत्वा भवति, तथा रागोऽपि
देहिनः स्यादित्याह—रूपादिवन्न नियमो रागादेः; तेषां रूपादीनां भूताविभा-
गतः । न हि रूपादिसामान्यं विना भूतानि वर्तन्ते । रागादेरपि तद्भूतावि-
निर्भागवर्तित्वं तुल्यं चेत् ? नैतदस्ति; रागादेर्भूतैः सहोत्पत्तिप्रसङ्गतो विषयैः
कादाचित्कसन्निधानैर्नियमित्वात् ॥ १७६ ॥
न सहोत्पादप्रसङ्ग इति चेद् ? आह—विकल्प्यः कल्पितः, तद्विषयत्वाच्च
रागादेर्विषया रूपादयोऽग्राह्यत्वान्न नियामकाः । किञ्च—अविज्ञानस्य विज्ञान-
हेतुत्वात् नेत्युक्तम् । तन्मते सभागस्य च हेतोर्विरहाद् रागादेर्नियमो
देशकालस्वभावविषयो न वा स्याद्; अहेतुत्वात् ॥ १७७ ॥
भूतान्येव हि हेतुरिति चेत् ? तर्हि सर्वदा सर्वबुद्धीनां सुखदुःखेच्छा-
द्वेषरागकृपादीनां जन्म वा स्यात्; हेतोर्भूतसङ्घातस्य सन्निधेः । तदेवं
“रागादेः पाटवेक्षणात्” ( प्र० वा० १. १४९ ) इत्यादिना चतुर्णामरूपिणां
स्कन्धानां सभागहेतुकत्वे साधिते साधितं संसारित्वमुपादानस्कन्धानाम्, त एव
दुःखमित्युक्ताः ।
दुःखसत्यञ्च—अनित्यतः, दुःखतः, शून्यतः, अनात्मतश्चेति चतुराकार-
माख्यातुमाह—कदाचिदुपलम्भाद् दुःखमध्रुवमनित्यम्; दोषनिःश्रयात्
रागादिदोषाश्रयेणोत्पत्तेः ॥ १७८ ॥

प्रमाणसिद्धिः ६३
दुःखं हेतुवशत्वाच्च न चात्मा नाप्यधिष्ठितम् ।
नाकारणमधिष्ठाता नित्यं वा कारणं १ कथम् ॥ १७९ ॥
तस्मादनेकमेकस्माद् भिन्नकालं न जायते ।
कार्यानुत्पादतोऽन्येषु सङ्गतेष्वपि हेतुषु ॥ १८० ॥
हेत्वन्तरानुमानं स्यान्नैतत् नित्येषु विद्यते ।
२. चतुराकारं समुदयसत्यम्
कादाचित्कतया सिद्धा दुःखस्यास्य सहेतुता ॥ १८१ ॥
नित्यं सत्त्वमसत्त्वं वा हेतोर्बाह्यानपेक्षणात् २ ।
हेतुवशत्वाच्च । 'सर्वं परवशं दुःखम्' इति न्यायात् दुःखं तत् । न
चात्माश्रयम् ; अनात्मनः आत्मविलक्षणत्वात् । नाप्यधिष्ठितम्; अधिष्ठातुरात्म-
नोऽभावात् । अनेन शून्यत इत्याख्यातम् ॥
कस्मात् पुनरात्मा नाधिष्ठाता ? इत्याह—नाकारणमधिष्ठाता; अतिप्रसङ्गात् ।
नित्यं वा द्रव्यं कारणं कथम्, तस्य क्रमयौगपद्याभ्यामर्थक्रियाविरहात् ॥ १७९॥
तस्मादनेकं भिन्नकालदृश्यमानं सुखदुःखादिकार्यं नैकस्माज्जायते;
एकस्यानेककरणे समर्थस्य सकृदेव तत्क्रियाप्रसङ्गात् ।
किञ्च—अनेकेषु हेतुषु सङ्गतेषु मिथो मिलितेष्वपि कार्यानुत्पादतो
हेत्वन्तरानुमानं स्यात् । यथा रूपालोकमनस्कारेषु सत्स्वपि चक्षुर्विज्ञानमनुत्पद्य-
मानं चक्षुरनुमापयति । नैतत् कार्यानुत्पत्त्याऽनुमानं नित्येषु विद्यते; तेषाम-
व्यतिरेकित्वात् ।
चतुराकारं दुःखं व्याख्याय, समुदयतः, हेतुतः, प्रत्ययतः, प्रभवतश्च—इति
चतुराकारं समुदयं व्याख्यातुमाह—कादाचित्कतया दुःखस्य सहेतुता
सिद्धा ॥ १८०-१८१ ॥
नित्यं सत्त्वमसत्त्वं वा हेतोर्भवति, यथाऽऽकाशस्य शशविषाणस्य
बाह्यानपेक्षणात् । य एव च दुःखहेतुः स एव समुदयः ।
१. जनकं—पाठा० । २. हेतोरन्यानपे०—पाठा० ।

६४ प्रमाणवार्त्तिके
स्वभाववादखण्डनम्
'तैक्ष्ण्यादीनां यथा नास्ति कारणं कण्टकादिषु ॥ १८२ ॥
तथाऽकारणमेतत् स्याद्' इति केचित् प्रचक्षते ।
सत्येव यस्मिन् यज्जन्म विकारे वापि विक्रिया ॥ १८३ ॥
तत् तस्य कारणं प्राहुस्तत् तेषामपि विद्यते ।
स्पर्शस्य रूपहेतुत्वाद् दर्शनेऽस्ति निमित्तता ॥ १८४ ॥
नित्यानां प्रतिषेधेन नेश्वरादेश्च सम्भवः ।
असामर्थ्यादतो हेतुर्भववाञ्छा;
परिग्रहः ॥ १८५ ॥
ननु यथा कण्टकादिषु तैक्ष्ण्यादीनां कारणं नास्ति, तथाऽकारण-
मेतत् दुःखं स्यात्, तत् कुतः समुदाय इति केचित् = स्वभाववादिनः प्रचक्षते ।
ते एवं वक्तव्याः--सत्येव यस्मिन् वस्तुनि यस्य जन्म, यस्य विकारे
सत्येव वा यस्य विक्रिया, तत्तस्य जन्मिनो विकारिणश्च कारणं प्राहुर्विद्वांसः ।
तज्जन्म सत्येव बीजोदकपृथिव्यादिषु तदुत्कर्षादिविकारे च विकृतत्वं तेषां कण्ट-
कादीनामप्यस्तीति तेऽपि सहेतुका एव । एवं स्कन्धा अपि ।
ननु स्पर्शे सति भवति चक्षुर्विज्ञानम्, असति च न भवति; न च तत्
कारणम्, अतोऽतिव्याप्तिः ? इत्याह-स्पर्शस्य रूपाद्यविनिर्भागिनः सहकारिभावेन
रूपहेतुत्वात् दर्शने चक्षुर्विज्ञानेऽस्ति निमित्तता पारम्पर्येणेति नाति-
व्याप्तिः ॥ १८२-१८४ ॥
एतच्च व्यतिरेकमभ्युपगम्योक्तम्, न तु रूपमुपदर्श्य स्पर्शाभावे नेत्र-
बुद्धेरभावः शक्यदर्शनः; रूपस्पर्शयोरविनिर्भागवर्त्तित्वात् । तस्य च दुःखस्य
नित्यानां क्रमाक्रमाभ्यामर्थक्रियायामसामर्थ्यात् प्रतिषेधेन च नेश्वरादेः,
आदिग्रहणात् प्रधानपुरुषादेः, कारणात् सम्भव उत्पादः । अतो नित्यादनुत्पत्ते-
र्दुःखस्य हेतुर्भववाञ्छा जन्मतृष्णा, जन्मस्थानावस्था सत्त्वाद्यभिला-
षात्मिका ॥ १८५ ॥

प्रमाणसिद्धिः ६५
यस्माद् देशविशेषस्य तत्प्राप्त्याशाकृतो नृणाम् ।
सा भवेच्छाप्त्यनाप्तीच्छोः प्रवृत्तिः सुखदुःखयोः ॥ १८६ ॥
यतोऽपि प्राणिनः कामविभवेच्छे च ते मते ।
सर्वत्र चात्मस्नेहस्य हेतुत्वात् सम्प्रवर्तते ॥ १८७ ॥
असुखे सुखसंज्ञस्य;
तस्मात् तृष्णा भवाश्रयः ।
विरक्तजन्मादृष्टेरित्याचार्याः सम्प्रचक्षते ॥ १८८ ॥
यस्माद् देशविशेषस्य परिग्रहः तत्प्राप्तितृष्णाकृतो नृणाम् । नृशब्दः
प्राण्युपलक्षणः । ततो गर्भस्थानादानमपि तत्तृष्णाकृतमेव ॥ १८६ ॥
ननूक्तं भगवता—“तत्र कतमत्समुदय आर्यसत्यम् ? पौनर्भाविकी नन्दी राग-
सहगता तत्रतत्राभिनन्दिनी यदुत कामतृष्णा भवतृष्णा विभवतृष्णा च” ( दी०
नि० २.२२ ) इति तत् कथमेका भवतृष्णोच्यते समुदयसत्यमिति ? अत्राह—
यतः कारणात् प्राणिनः सुखदुःखयोः क्रमेणाप्त्यनाप्तीच्छोः प्रवृत्ति-
र्गर्भस्थानपरिग्रहाय, अतः सा भवेच्छापि । कामविभवेच्छे च ते मते ।
सुखप्राप्तीच्छा = कामतृष्णा, दुःखवियोगेच्छा = विभवतृष्णा । भवतृष्णायां सुख-
दुःखप्राप्तिपरिहारेच्छापूर्विकायां गर्भस्थानोपादानेच्छात्मिकायां द्वयोरपि संग्रहाद-
विरोधः ॥ १८७ ॥
समुदयस्य च समुदायात्मकत्वात् सर्वत्र विषयेऽसुखे सुखरहिते सुखसंज्ञस्य
दुःखविपर्यस्तस्य । अनेनाशूचौ शुचिविपर्यासोऽपि कथितः । न ह्यशूचौ तथा
मन्यमान कस्यचित् सुखसंज्ञाऽऽत्मस्नेहेनेति । आत्मस्नेहस्य हेतुत्वादिति
अहङ्कारममकारोत्थापितस्य । अनेनात्मनि आत्मस्नेहविपर्यास उक्तः । सम्प्रवर्तत
इत्यनेनानित्यविपर्यासः सूचितः । न हि नित्यविपर्यासं विना फलार्थी प्रवर्तते ।
तदेवं चतुर्विपर्यासवासितमानस एवात्मस्नेहात् सुखदुःखप्राप्तिपरिजिहीर्षया
प्रवर्तते । तथा गर्भस्थानेऽपि सुखदुःखप्राप्तिपरिहारेच्छैव तृष्णा । तस्मात्
तृष्णा भवस्याश्रयो हेतुः । अनेन 'हेतुतः' आख्यातम् ।
ननु “विरक्तस्य जन्मादृष्टेः” ( न्या० सू० ३.१.२५ ) इत्याचार्या
प्र० वा० : ५

६६ प्रमाणवार्त्तिके
अदेहरागाद्दृष्टेश्च देहाद् रागसमुद्भवः ।
निमित्तोपगमादिष्टमुपादानं तु वार्यते ॥ १८९ ॥
इमां तु युक्तिमन्विच्छन् बाधते स्वमतं स्वयं ।
जन्मना सहभावश्चेत् जातानां रागदर्शनात् ॥ १९० ॥
सभागजातेः प्राक् सिद्धिः;
कारणत्वेऽपि नोदितम् ।
अज्ञानम्, उक्ता तृष्णैव सन्तानप्रेरणाद् भवे ॥ १९१ ॥
आनन्तर्याच्च कर्मापि सति तस्मिन्नसम्भवात् ।
गौतमादयोपि सम्प्रचक्षते । अदेहस्य रागदृष्टेश्च देहाद् रागसमुद्भवः
स्थितः, ततो न देही वीतरागः ? अत्राह—निमित्तस्य सहकारणस्योपगमात्
देहोऽस्य रागस्य सहकारि कारणमिष्टम्, ततो नानिष्टमापद्यते । उपादानं तु
देहो रागस्य वार्यते । राग एव तूपादानकारणम् । न च रागो जन्महेतुः;
विरक्तस्य करुणया जन्मसम्भवात् । रक्तस्यापि तृष्णयैव जन्मग्रहः । अनेन
‘प्रत्ययतः’ इति व्याख्यातम् ॥ १८८-१८९ ॥
“विरक्तजन्मादृष्टेः” इतीमां युक्तिमन्विच्छन् चार्वाकः स्वमतं स्वयं
बाधते; ‘रागहेतुको देहः, तद्धेतुकश्च रागः’ इति अन्योऽन्यहेतुत्वात् जन्मप्रबन्ध-
सिद्धेः । वीतरागाभ्युपगमाच्च स्वमतबाधास्य जन्मना सहभावो रागादीनाम्, न
पूर्वं रागोऽस्ति; जातानां रागदर्शनात् । अतो न रागो देहहेतुरिति
चेत् ॥ १९० ॥
नन्वेवं देहोऽपि न स्याद् रागहेतुः; सहभावात् । न चाहेतुकता । ततः
सभागात् सजातीयाद् रागाज्जातेरुत्पादात् प्राग् रागस्य सिद्धिरित्यायातम् ।
नन्वविद्या तृष्णा कर्म च जन्मकारणम्, तत् कथं तृष्णैव केवला समुदय
उक्तः ? इत्याह—कारणत्वेऽपि नोदितमज्ञानमविद्या मोहापरसंज्ञकम् ।
उक्ता तृष्णैव तयैव सन्तानस्य पञ्चस्कन्धसन्ततेः प्रेरणात् किमर्थं भवे
जन्मनिमित्तं कर्मापि हेतुत्वेऽपि नोक्तं समुदयत्वेन सति तस्मिन्नज्ञाने कर्मणि
च । तृष्णाऽसम्मुखीभावेऽभावाज्जन्मनः । आनन्तर्याच्च तृष्णायाः सतोरपि

प्रमाणसिद्धिः ६७
तदनात्यन्तिकं हेतोः प्रतिबन्धादिसम्भवात् ॥ १९२ ॥
चतुराकारं निरोधसत्यम्
संसारित्वादनिर्मोक्षो नेष्टत्वादप्रसिद्धितः ।
यावच्चात्मनि¹ न प्रेम्णो हानिः स परितप्स्यति ॥ १९३ ॥
तावद् दुःखितमारोप्य न च स्वस्थोऽवतिष्ठते ।
मिथ्याध्यारोपहानार्थं यत्नोऽसत्यपि मोक्तरि ॥ १९४ ॥
मोहकर्मणोस्तृष्णाया असम्मुखीभावे जन्मन आक्षेपकत्वासम्भवात्, यथा—
विमुक्तिः चित्तस्य । इत्युक्तः समुदायः ।
तदेतद् यथोक्तकारण(समुदय)स्वभावं दुःखमनात्यन्तिकं सम्भवदुच्छेदम्;
दुःखहेतोस्तृष्णायाः प्रतिबन्धस्य सम्भाव्यमानत्वात् । आदिशब्दादविद्यादेः
सहकारिणो वैकल्यसम्भवात् । अनेन निरोध एव नास्तीति वादिनः² प्रति
निरोधत इति कथितम् ॥ १९१–१९२ ॥
ननु संसारित्वादनिर्मोक्षो मुक्तिर्नास्ति कस्यचित्, तत् कथं निरोधस-
म्भावना ? नैष दोषः, इष्टत्वात् । को नाम मुक्तिं संसारिण इच्छति, अप्रसि-
द्धितस्तस्य । न हि संसारी कश्चिदस्ति, किन्तु दुःखं केवलं हेतुबलात् प्रवर्तते,
तदभावाच्च न भवतीति ब्रूमः ।
यदि संसारी कश्चिन्नास्ति, को मुक्त्यर्थी किमर्थं प्रवर्तते ? इत्याह—
यावच्चात्मनि एकत्वाहङ्कारविषयेषु स्कन्धेषु प्रेम्णः स्नेहस्य न हानिः, तावद्
दुःखितमात्मानमारोप्य स प्राण्यभिमतो दुःखसन्तानः परितप्स्यति दुःखमास्ते ।
न च दुःखहेत्वपगमोपायाभ्यां स क्लेशं विना स्वस्थोऽवतिष्ठते । किन्तु
मिथ्याध्यारोपस्य संसारित्वाध्यवसायस्य हानार्थं यत्नोऽसत्यपि कस्मिंश्चि-
दात्मादौ मोक्तरि । न हि यथावस्त्वेव व्यवहारः, किन्तु यथाव्यवसायञ्च । यथा
हि रज्जुरपि सर्पाध्यवसायविषयत्वात् परिहारविषयः, एवम् ‘अहमेव बद्धोऽह-
मेव मोक्ष्यामि’ इत्यध्यारोपान्मुक्त्यर्थं व्यायामः ॥ १९३–१९४ ॥
१. यावदात्मवि—पाठ० ।
२. मीमांसकादीनित्यर्थः ।

६८ प्रमाणवार्त्तिके
अवस्था वीतरागाणां दयया कर्मणाऽपि वा ।
आक्षिप्तेऽविनिवृत्तीष्टेः;
सहकारिक्षयादलम् ॥ १९५ ॥
नाक्षेप्तुमपरं कर्म भवतृष्णाविलङ्घिनाम् ।
दुःखज्ञानेऽविरुद्धस्य पूर्वसंस्कारवाहिनी ॥ १९६ ॥
वस्तुधर्मो दयोत्पत्तिर्न सा सत्त्वानुरोधिनी ।
आत्मान्तरसमारोपाद् रागो धर्मेऽतदात्मके ॥ १९७ ॥
भवत्वात्मग्रहविपर्यस्तानां सुखाद्यभिलाषात् प्रवृत्तिक्षणा संसारे स्थितिः,
उन्मूलितात्मग्रहयोनिसकलदोषराशयस्तु¹ कस्मादासते ? इत्याह—अवस्था वीत-
रागाणां दययापि कर्मणापि वा वीतमोहानामपि दुःखाद् दुःखहेतोश्च लोकमु-
द्धर्तुकामतया स्थितिः । तावत्कालानुबन्धिशरीराक्षेपकेन कर्मणा वा स्थितिः ।
तदेवाह—आक्षिप्ते कर्मणा कार्येऽविनिवृत्तेर्निवृत्त्यभावस्येष्टेः ।
यद्येवम्, जन्मान्तराक्षेपकस्य कर्मणः सद्भावात् भावान्तरं च स्याद् ? इत्याह—
सहकारिण आत्मात्मीयादिविपर्यासज्ञानस्य तृष्णायाश्च क्षयान्नालं न शक्तं
कर्माक्षेप्तुमपरं भवं भवतृष्णाविलङ्घिनाम् । तृष्णालङ्घना = नैरात्म्यदृष्टिरि-
त्यात्मात्मीयादिमोहनिवृत्तिश्चोक्ता । अनेन सहकारिवैकल्यमुक्तम् ।
ननु दया सत्त्वदर्शनात्, तच्च क्षीणं मुक्तानाम्, तत् कथं दयया स्थितिः ?
इत्याह—दुःखस्यानित्यदुःखशून्यानात्मकाकारस्य ज्ञाने सत्यविरुद्धस्य द्वेषा-
भावात् सर्वत्राप्रतिहतस्य पूर्वसंस्कारवाहिनी पूर्वाभ्यासप्रवृत्ता या दयोत्पत्तिः
सा न सत्त्वानुरोधिनी सत्त्वदृष्टिवशा; किन्तु वस्तुनो दुःखस्य कृपाविषयतया-
ऽभ्यस्तस्य धर्मः । उन्मूलितात्मदृष्टीनामपि दुःखस्य कृपाविषयतयाऽभ्यस्तस्य
सम्मुखीभावमात्रेण दयोत्पद्यत इत्यर्थः ।
एवं तर्हि रागोऽपि मुक्तानां स्याद् ? इत्याह—आत्मान्तरस्य स्थिर-
सुखात्मात्मीयरूपस्यारोपात् धर्मे स्कन्धमात्ररूपेऽतदात्मके वस्तुनोऽस्थिरादि-
स्वभावे रागोऽभिष्वङ्गरूपो भवति ॥ १९५–१९७ ॥
१. उन्मीलित०—रा० ।

प्रमाणसिद्धिः ६९
दुःखसन्तानसंस्पर्शमात्रेणैवं दयोदयः ।
मोहश्च मूलं दोषाणां स च सत्त्वग्रहः;
विना ॥ १९८ ॥
तेनाद्यहेतौ न द्वेषो, न दोषोऽतः कृपा मता ।
नामुक्तिः पूर्वसंस्कारक्षयेऽन्याप्रतिसन्धिः ॥ १९९ ॥
अक्षीणशक्तिः संस्कारो येषां तिष्ठन्ति तेऽनघाः ।
मन्दत्वात् करुणायाश्च न यत्नः स्थापने महान् ॥ २०० ॥
तिष्ठन्त्येव पराधीना येषां तु महती कृपा ।
सत्कायदृष्टेर्विगमादाद्य एवाभवो भवेत् ॥ २०१ ॥
दयोदयस्तु दुःखसन्तानस्य संस्पर्शो दर्शनं तन्मात्रेणैव भवति । न
तत्र सत्त्वदर्शनापेक्षा ।
यथा दुःखदर्शनात् दयोत्पत्तिः, तथापकारिणि द्वेषोऽपि स्याद् ? इत्याह—
मोहश्च मूलमादिकारणं दोषाणाम्, स च मोहः सत्त्वग्रहः ॥ १९८ ॥
उन्मूलितसत्त्वदृष्टेश्च तेन सत्त्वग्रहेण विनाऽऽद्यहेतावपकारिणि न द्वेषो-
ऽस्ति; आत्मनोऽदर्शनात् तदपकारान्यभावात् । अतो दोषमूलस्यात्मग्रहस्या-
भावादुत्पद्यमाना कृपा न दोषो मता ।
यदि पूर्वकर्मवेधतस्तदैव न निर्वाणम्, तदा सांसारिकतैव स्याद् ?
इत्याह—नामुक्तिः, किन्तु मुक्तिरेव पूर्वसंस्कारक्षये पूर्वकर्मवेधक्षये सत्यन्यस्य
दुःखस्य हेतुवैकल्यादप्रतिसन्धितः ॥ १९९ ॥
येषां पुनर्महाकृपाणां प्रणिधानपरिपूष्टस्य जन्माक्षेपककर्मणः संस्कारोऽक्षी-
णशक्तिः, तेऽनघाः सम्यक्सम्बुद्धाः यावदाकाशं तिष्ठन्त्येव । श्रावकाणां तु
कर्मणो नियतकालस्थितिकदेहाक्षेपकत्वान्मन्दत्वात् करुणाया यत्नश्च महान्
स्थापने नास्तीति न सदा स्थितिः ॥ २०० ॥
तिष्ठन्त्येव सर्वदा ते पराधीनाः परेषामुपकरणीकृतात्मनो महामुनयः ।
येषामकारणवत्सलानां महती कृपा ।

७० प्रमाणवार्त्तिके
मार्गे चेत् सहजाहानेर्न हानौ वा भवः कुतः ।
सुखी भवेयं दुःखी वा मा भूवमिति तृष्यतः ॥ २०२ ॥
यैवाऽहमिति धीः सैव सहजं सत्त्वदर्शनम् ।
न ह्यपश्यन्नहमिति कश्चिदात्मनि स्निह्यति ॥ २०३ ॥
न चात्मनि विना प्रेम्णा सुखकामोऽभिधावति ।
दुःखस्योत्पादहेतुत्वं बन्धः, नित्यस्य तत् कुतः ॥ २०४ ॥
अदुःखोत्पादहेतुत्वं मोक्षः, नित्यस्य तत् कुतः !
नन्वाद्य एव मार्गे दर्शनमार्गे सत्कायदृष्टेर्विगमात् स्रोतआपन्नस्य
भवो जन्मान्तरबन्धो न भवेदिति चेत् ? सहजाहानेर्न । द्विधा हि सत्काय-
दृष्टिः—आभिसँस्कारिकी या स्कन्धव्यतिरिक्तात्माध्यवसायिनी, सहजा च । तत्र
प्रथमा दर्शनमार्गे हीयते, न द्वितीया भावनामार्गहेया । सा च मोहः, तृष्णायाश्च
हेतुरिति भवति जन्मप्रबन्धः । यदि तु पटुतरप्रज्ञस्याद्य एव मार्गो मार्गान्तर-
स्वभावः, तदा हानौ वा सहजाया आत्मदृष्टेः पुनर्भवः कुतः !
कीदृशं पुनस्तत् सहजसत्त्वदर्शनम् ? इत्याह—सुखी भवेयं दुःखी वा
मा भूवमिति तृष्यतः कांक्षमाणस्य यैवाहमिति धीः सैव सहजं सत्त्व-
दर्शनमुच्यते ।
तदप्रहीणं स्रोतआपन्नस्येति कथं ज्ञायते ? इत्याह—न ह्यपश्यन्नहमिति
कश्चिदात्मनि स्निह्यति, किन्तु पश्यन्नेव ॥ २०१–२०३ ॥
न चात्मनि विना प्रेम्णा सुखकामः कश्चिद् गर्भस्थानादिमभि-
धावति । अभिधावति च गर्भस्थानम् प्रहीणाभिसंस्कारिकः सत्त्वदृष्टिरपि स्रोत-
आपन्नं तदस्याप्रहीणं सहजं सत्त्वदर्शनम् ।
ननु सत्यात्मनि बन्धमोक्षावेकाधिकरणौ युक्तौ ? नेत्याह—दुःखस्यो-
पादानस्कन्धानामुत्पादहेतुत्वं बन्धः । तत्कुतो नित्यस्य ? क्रमयौगपद्याभ्या-
मर्थक्रियाविरहात् ॥ २०४ ॥
अदुःखोत्पादहेतुत्वं दुःखम्, प्रत्ययहेतुता मोक्षः, तच्च नित्यस्य
कुतः ! न हि पूर्वापरैकस्य भावस्य दुःखहेतोः पश्चादहेतुत्वं युक्तम् ।

प्रमाणसिद्धिः ७१
अनित्यत्वेन योऽवाच्यः स हेतुर्न हि कस्यचित् ॥ २०५ ॥
बन्धमोक्षावप्यवाच्ये¹ न युज्येते कथञ्चन¹ ।
नित्यं तमाहुर्विद्वांसो यः स्वभावो न नश्यति ॥ २०६ ॥
त्यक्त्वेमां ह्रेपणीं दृष्टिमतोऽनित्यः स उच्यताम् ।
चतुराकारं मार्गसत्यम्
उक्तो मार्गः, तदभ्यासादाश्रयः परिवर्त्तते ॥ २०७ ॥
स्यादेतत्—न नित्यस्य हेतुत्वं बन्धमोक्षौ च युक्ताविति, “नित्यत्वानित्य-
त्वाभ्यामवाच्यस्य पुद्गलस्य तौ भविष्यतः” इति मन्वानं वैभाषिकं प्रत्याह—
अनित्यत्वेन योऽवाच्यः । अनित्यत्वमुपलक्षणम् ; नित्यत्वेनाप्यवाच्यः ।
स हेतुर्न हि कस्यचित् ; तस्यैवाभावात् । तथा हि यद्यसावनित्यो न भवति,
स्यान्नित्यः ॥ २०५ ॥
अथ नित्यो न भवति, स्यादनित्यः । अन्योऽन्याभावलक्षणत्वाद्द्वयोरेकविधि-
प्रतिषेधस्यापरप्रतिषेधविधिनान्तरीयकत्वात् न क्वचिद् वस्तुनि द्वयप्रतिषेधसम्भव
इति पुद्गलस्याभावादहेतुत्वम् । अतो बन्धमोक्षावप्यवाच्ये पुद्गले न
युज्येते कथञ्चन ।
अथ नित्यत्वेनावाच्यत्वान्न दोष इति चेत् ? नन्वेवमनित्य एवोक्तः
स्यात् । तथा हि—नित्यं तमाहुर्विद्वांसो यः स्वभावः सर्वदा न नश्यति ।
स चेदीदृशो न भवत्यनित्य एव स्यात् ॥ २०६ ॥
अत्रेमां पुद्गलदृष्टिं पुद्गलनैरात्म्यवादिनः संस्कारानित्यतावादिनश्च शास्तुः
शिष्याणां ह्रेपणीं लज्जावर्द्धनीं त्यक्त्वाऽनित्यः स पुद्गल उच्यतां येन बन्ध-
मोक्षौ युज्येते । एकाकारो निरोधो व्याख्यातः । त्रय आकारा वक्ष्यन्ते ।
मार्गसत्यं चतुराकारं वक्तुमाह—उक्तो मार्गः शास्तृपदव्याख्यावसरे
(प्र० वा० १. १४०) नैरात्म्यदर्शनलक्षणः । तस्याभ्यासादाश्रयः क्लेश-
वासनाभूतमालयविज्ञानं परिवर्त्तते क्लिष्टदशानिरोधात् क्लेशविसंयुक्तचित्तप्रबन्धा-
त्मना परिणमति ॥ २०७ ॥
१-१. कारिकांशोऽयं मुद्रितपुस्तके न दृश्यते, तथापि वृत्त्यनुरोधादत्र स्थापितः ।