प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 94, कुल 532 में से
संदर्भ में पढ़ें६८ प्रमाणवार्त्तिके
अवस्था वीतरागाणां दयया कर्मणाऽपि वा ।
आक्षिप्तेऽविनिवृत्तीष्टेः;
सहकारिक्षयादलम् ॥ १९५ ॥
नाक्षेप्तुमपरं कर्म भवतृष्णाविलङ्घिनाम् ।
दुःखज्ञानेऽविरुद्धस्य पूर्वसंस्कारवाहिनी ॥ १९६ ॥
वस्तुधर्मो दयोत्पत्तिर्न सा सत्त्वानुरोधिनी ।
आत्मान्तरसमारोपाद् रागो धर्मेऽतदात्मके ॥ १९७ ॥
भवत्वात्मग्रहविपर्यस्तानां सुखाद्यभिलाषात् प्रवृत्तिक्षणा संसारे स्थितिः,
उन्मूलितात्मग्रहयोनिसकलदोषराशयस्तु¹ कस्मादासते ? इत्याह—अवस्था वीत-
रागाणां दययापि कर्मणापि वा वीतमोहानामपि दुःखाद् दुःखहेतोश्च लोकमु-
द्धर्तुकामतया स्थितिः । तावत्कालानुबन्धिशरीराक्षेपकेन कर्मणा वा स्थितिः ।
तदेवाह—आक्षिप्ते कर्मणा कार्येऽविनिवृत्तेर्निवृत्त्यभावस्येष्टेः ।
यद्येवम्, जन्मान्तराक्षेपकस्य कर्मणः सद्भावात् भावान्तरं च स्याद् ? इत्याह—
सहकारिण आत्मात्मीयादिविपर्यासज्ञानस्य तृष्णायाश्च क्षयान्नालं न शक्तं
कर्माक्षेप्तुमपरं भवं भवतृष्णाविलङ्घिनाम् । तृष्णालङ्घना = नैरात्म्यदृष्टिरि-
त्यात्मात्मीयादिमोहनिवृत्तिश्चोक्ता । अनेन सहकारिवैकल्यमुक्तम् ।
ननु दया सत्त्वदर्शनात्, तच्च क्षीणं मुक्तानाम्, तत् कथं दयया स्थितिः ?
इत्याह—दुःखस्यानित्यदुःखशून्यानात्मकाकारस्य ज्ञाने सत्यविरुद्धस्य द्वेषा-
भावात् सर्वत्राप्रतिहतस्य पूर्वसंस्कारवाहिनी पूर्वाभ्यासप्रवृत्ता या दयोत्पत्तिः
सा न सत्त्वानुरोधिनी सत्त्वदृष्टिवशा; किन्तु वस्तुनो दुःखस्य कृपाविषयतया-
ऽभ्यस्तस्य धर्मः । उन्मूलितात्मदृष्टीनामपि दुःखस्य कृपाविषयतयाऽभ्यस्तस्य
सम्मुखीभावमात्रेण दयोत्पद्यत इत्यर्थः ।
एवं तर्हि रागोऽपि मुक्तानां स्याद् ? इत्याह—आत्मान्तरस्य स्थिर-
सुखात्मात्मीयरूपस्यारोपात् धर्मे स्कन्धमात्ररूपेऽतदात्मके वस्तुनोऽस्थिरादि-
स्वभावे रागोऽभिष्वङ्गरूपो भवति ॥ १९५–१९७ ॥
१. उन्मीलित०—रा० ।