प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 93, कुल 532 में से
संदर्भ में पढ़ेंप्रमाणसिद्धिः ६७
तदनात्यन्तिकं हेतोः प्रतिबन्धादिसम्भवात् ॥ १९२ ॥
चतुराकारं निरोधसत्यम्
संसारित्वादनिर्मोक्षो नेष्टत्वादप्रसिद्धितः ।
यावच्चात्मनि¹ न प्रेम्णो हानिः स परितप्स्यति ॥ १९३ ॥
तावद् दुःखितमारोप्य न च स्वस्थोऽवतिष्ठते ।
मिथ्याध्यारोपहानार्थं यत्नोऽसत्यपि मोक्तरि ॥ १९४ ॥
मोहकर्मणोस्तृष्णाया असम्मुखीभावे जन्मन आक्षेपकत्वासम्भवात्, यथा—
विमुक्तिः चित्तस्य । इत्युक्तः समुदायः ।
तदेतद् यथोक्तकारण(समुदय)स्वभावं दुःखमनात्यन्तिकं सम्भवदुच्छेदम्;
दुःखहेतोस्तृष्णायाः प्रतिबन्धस्य सम्भाव्यमानत्वात् । आदिशब्दादविद्यादेः
सहकारिणो वैकल्यसम्भवात् । अनेन निरोध एव नास्तीति वादिनः² प्रति
निरोधत इति कथितम् ॥ १९१–१९२ ॥
ननु संसारित्वादनिर्मोक्षो मुक्तिर्नास्ति कस्यचित्, तत् कथं निरोधस-
म्भावना ? नैष दोषः, इष्टत्वात् । को नाम मुक्तिं संसारिण इच्छति, अप्रसि-
द्धितस्तस्य । न हि संसारी कश्चिदस्ति, किन्तु दुःखं केवलं हेतुबलात् प्रवर्तते,
तदभावाच्च न भवतीति ब्रूमः ।
यदि संसारी कश्चिन्नास्ति, को मुक्त्यर्थी किमर्थं प्रवर्तते ? इत्याह—
यावच्चात्मनि एकत्वाहङ्कारविषयेषु स्कन्धेषु प्रेम्णः स्नेहस्य न हानिः, तावद्
दुःखितमात्मानमारोप्य स प्राण्यभिमतो दुःखसन्तानः परितप्स्यति दुःखमास्ते ।
न च दुःखहेत्वपगमोपायाभ्यां स क्लेशं विना स्वस्थोऽवतिष्ठते । किन्तु
मिथ्याध्यारोपस्य संसारित्वाध्यवसायस्य हानार्थं यत्नोऽसत्यपि कस्मिंश्चि-
दात्मादौ मोक्तरि । न हि यथावस्त्वेव व्यवहारः, किन्तु यथाव्यवसायञ्च । यथा
हि रज्जुरपि सर्पाध्यवसायविषयत्वात् परिहारविषयः, एवम् ‘अहमेव बद्धोऽह-
मेव मोक्ष्यामि’ इत्यध्यारोपान्मुक्त्यर्थं व्यायामः ॥ १९३–१९४ ॥
१. यावदात्मवि—पाठ० ।
२. मीमांसकादीनित्यर्थः ।