सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 90, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 90

६४ प्रमाणवार्त्तिके
स्वभाववादखण्डनम्
'तैक्ष्ण्यादीनां यथा नास्ति कारणं कण्टकादिषु ॥ १८२ ॥
तथाऽकारणमेतत् स्याद्' इति केचित् प्रचक्षते ।
सत्येव यस्मिन् यज्जन्म विकारे वापि विक्रिया ॥ १८३ ॥
तत् तस्य कारणं प्राहुस्तत् तेषामपि विद्यते ।
स्पर्शस्य रूपहेतुत्वाद् दर्शनेऽस्ति निमित्तता ॥ १८४ ॥
नित्यानां प्रतिषेधेन नेश्वरादेश्च सम्भवः ।
असामर्थ्यादतो हेतुर्भववाञ्छा;
परिग्रहः ॥ १८५ ॥
ननु यथा कण्टकादिषु तैक्ष्ण्यादीनां कारणं नास्ति, तथाऽकारण-
मेतत् दुःखं स्यात्, तत् कुतः समुदाय इति केचित् = स्वभाववादिनः प्रचक्षते ।
ते एवं वक्तव्याः--सत्येव यस्मिन् वस्तुनि यस्य जन्म, यस्य विकारे
सत्येव वा यस्य विक्रिया, तत्तस्य जन्मिनो विकारिणश्च कारणं प्राहुर्विद्वांसः ।
तज्जन्म सत्येव बीजोदकपृथिव्यादिषु तदुत्कर्षादिविकारे च विकृतत्वं तेषां कण्ट-
कादीनामप्यस्तीति तेऽपि सहेतुका एव । एवं स्कन्धा अपि ।
ननु स्पर्शे सति भवति चक्षुर्विज्ञानम्, असति च न भवति; न च तत्
कारणम्, अतोऽतिव्याप्तिः ? इत्याह-स्पर्शस्य रूपाद्यविनिर्भागिनः सहकारिभावेन
रूपहेतुत्वात् दर्शने चक्षुर्विज्ञानेऽस्ति निमित्तता पारम्पर्येणेति नाति-
व्याप्तिः ॥ १८२-१८४ ॥
एतच्च व्यतिरेकमभ्युपगम्योक्तम्, न तु रूपमुपदर्श्य स्पर्शाभावे नेत्र-
बुद्धेरभावः शक्यदर्शनः; रूपस्पर्शयोरविनिर्भागवर्त्तित्वात् । तस्य च दुःखस्य
नित्यानां क्रमाक्रमाभ्यामर्थक्रियायामसामर्थ्यात् प्रतिषेधेन च नेश्वरादेः,
आदिग्रहणात् प्रधानपुरुषादेः, कारणात् सम्भव उत्पादः । अतो नित्यादनुत्पत्ते-
र्दुःखस्य हेतुर्भववाञ्छा जन्मतृष्णा, जन्मस्थानावस्था सत्त्वाद्यभिला-
षात्मिका ॥ १८५ ॥