सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

Pashupata Sutras of Lakulisha with Panchartha Bhashya

भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा

DevanagariSanskritpublished166 पृष्ठ

नृत्तं प्रयोक्तव्यम् । डुंडुंकारो नाम य एष जिह्वाग्रतालुसंयोगा-
न्निष्पद्यते पुण्यो वृषनादसदृशः सः । डुंडुंकरणं डुंडुंकारः ।
कारशब्दो डुंडुंकारस्योपहाराङ्गावधारणार्थः । नम इति । ना-
प्योष्ठीयं कर्तव्यं नोपांशु । मानसं तु नमस्करणं नमस्कारः ।
कारशब्दो वाचिकोपांशुप्रतिषेधार्थं मानसोपहाराङ्गावधारणार्थं चेत्यर्थः ।
जप्यं नाम सद्योजातादिष्वक्षरपङ्क्त्यां मनसा भावस्य सञ्चार-
विचारः । तज्जप्यम् । उपेति विशेषणे क्रियोपसंहारे समस्तत्वे
च । उपहरणाद् उपहारो व्रतं नियम इत्यर्थः । उपह्रियते
निवेद्यते नियोगमात्रकर्तृत्वात् साधकेनेत्युपहारः । (उपतिष्ठेद्) ।
अत्रोपेत्यभ्युपगमे । अभ्युपगतेन विधिस्थेन प्रणतविनतेनेत्यर्थः ।
तिष्ठेदित्यैकाग्र्यं प्रत्याहाराभावस्थितिमेवाधिकुरुते । सर्वकरणानां
वृत्तौ प्रत्याहारं कृत्वा कायिकवाचिकमानसिकामिः क्रियाभि-
रुपहारं कृत्वा भृत्यवदुपहारेण स्थेयम् । अपसव्यं च प्रदक्षिण-
मुपरिष्टाद् वक्ष्यामः ॥ ८ ॥
आह--कस्य निर्माल्यं धार्यम् ? । कस्य वा आयतने
वस्तव्यम् ? । क चोपस्थेयमिति ? । तदुच्यते--
महादेवस्य दक्षिणामूर्तेः ॥ ९ ॥
अत्र महान् इत्यभ्यधिकत्वे । सर्वक्षेत्रज्ञानामभ्यधिक उत्कृष्टो
व्यतिरिक्तश्च भवतीत्यभ्यधिकः । ऋषिर्विप्रः, अधिपतिः (अ० ५,
सू० २७ & ४४) । सदाशिवत्वमभ्यधिकत्वं च प्रवक्ष्यामः । अत्र
देव इति दिवु क्रीडायाम् । क्रीडाधर्मित्वात् । अग्न्युष्णत्ववत् ।
क्रीडावानेव भगवान् विद्याकलापशुसंज्ञकं त्रिविधमपि कार्यमुत्पादयति
अनुगृह्णाति तिरोभावयति च । उक्तं हि--

प्रथमोऽध्यायः। १९
“ अप्रचोद्यः प्रचोद्यैस्तु कामकारकरः प्रभुः ।
क्रीडते भगवान् लोकैर्बालः क्रीडनकैरिव ॥ ”
देवस्य इति षष्ठी । स्वस्वामिभावः सम्बन्धः। परिग्रहार्थमेवा-
धिकुरुते । अत्र दक्षिणेति दिक्प्रतिविभागे भवति । आदित्यो
दिशो विभजति । दिशश्च मूर्तिं विभजन्ति । मूर्तिर्नाम यदेतद्
देवस्य दक्षिणे पार्श्वे स्थितेनोदङ्मुखेनोपान्ते यद् रूपमुपलभ्यते
वृषध्वजशूलपाणिनन्दिमहाकालोर्ध्वलिङ्गादिलक्षणं; यद्वा लौकिकाः
प्रतिपद्यन्ते महादेवस्यायतनमिति तत्रोपस्थेयम् । दक्षिणामूर्तिग्रहणात्
पूर्वोत्तरपश्चिमानां मूर्तीनां प्रतिषेधः । मूर्तिनियोगाच्च मूर्त्यभावे
नियमलोपः । भैक्ष्यानुपयोगान्निर्यातानामुक्तत्वाच्चेत्यर्थः । विधि-
रित्युपदिष्टानांमर्थानां भस्मस्नानोपदेशादप्सुस्नानादीनां प्रतिषेधः ।
भस्मशयनोपदेशाद् विषयशयनादीनां प्रतिषेधः । आयतने वसत्यर्थो-
पदेशाच्छेषवसत्यर्थप्रतिषेधः । हसिताद्युपदेशाच्छेषोपहारप्रतिषेधः ।
निर्माल्योपदेशात् प्रत्यग्राणां माल्यानां प्रतिषेधः । भस्मनिर्माल्य-
लिङ्गोपदेशाच्छेषलिङ्गप्रतिषेधः । महादेवग्रहणादन्यदेवताभक्तिप्रतिषेधः ।
दक्षिणामूर्तिग्रहणात् पूर्वपश्चिमानां मूर्तीनां प्रतिषेधः । एवं (दक्षि-
णामूर्तिरित्युक्ते ?) अस्य ब्राह्मणस्य पूर्वप्रसिद्धा नियमा नियमैः
प्रतिषिध्यन्ते । कीलकप्रतिकीलकवत् पुराणोदकनवोदकवच्चेति ॥
अत्रेदं भस्मप्रकरणं समाप्तम् ।
आह—नियमाभिधानादेव हि संशयः । यत्र यमास्तत्र
नियमाः । मिथुनमेवैतद् यस्मात् । अतो न संशयः । यमा
अस्मिन् तन्त्रे के चिन्त्यन्ते ? । उच्यते—प्रसिद्धा यमाः
अहिंसादय इति । अत्र त्वन्येषाम्—
१. 3rd Sloka, यमप्रकरण of विशुद्धमुनि in गणकारिका. page 24.

"अहिंसा ब्रह्मचर्यं च सत्यसंव्यवहारकौ ।
अस्तेयमिति पञ्चैते यमा वै संप्रकीर्तिताः ॥ १ ॥
अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम् ।
अप्रमादश्च पञ्चैते नियमाः संप्रकीर्तिताः ॥"
तदिदमस्माकं न भवति । कस्मात् ? । नियमनिवृत्तिदर्शनात् ।
अस्मिन् हि तन्त्रे कालान्तरेण नियमा (नि)वर्तन्ते । (कथम् ?)
आ देहपाताद् यमानां न निवृत्तिरस्ति । कस्मात् ? । हिंसादि-
दोषात् । तस्मादहिंसाद्या दश सर्वे ते यमाः प्रत्यवगन्तव्याः ।
आह—यद्येवं नियमनिवृत्तौ भ्रष्टनियमस्य पतनप्रसङ्गः ।
उच्यते—अवसितप्रयोजनत्वान्न पतनप्रसङ्गः । किञ्च यमानां
प्राधान्यात् । उक्तं हि—
"पतति नियमवांस्तु यमेष्वसक्तो
न तु यमवान् नियमैरलसोऽवसीदेत् ।
इति यमनियमौ समीक्ष्य बुद्ध्या
यमबहुलेष्वतिसन्दधीत बुद्धिम् ॥"
तस्मान्न पतनप्रसङ्गः । अतः प्रसिद्धा यमा अहिंसादयः ।
आह—किं प्रसिद्धा इति कृत्वा गृह्यन्ते ?, आहोस्विच्छक्यमेतेषां
यमानां सर्वज्ञोक्तशास्त्रतः सद्भावो वक्तुम् ? । उच्यते—यद्यन्यत्र
प्रसिद्धा इति किं ? । तत्र चिन्त्यते । (*) कस्मात् ? कृतापदेशात् ।
१. See सूतसंहिता ज्ञानयोगखण्ड, अ० १२ for १० यम...
२. See Manu IV, 204.

  • It seems few lines are missing here.

प्रथमोऽध्यायः । १७
यस्मादुक्तं सूत्रतः—कृतम् (अ० ४, सू० ७) इत्यत्र । कृताप्रतिषेधा-
दकृतप्रतिषेधाच्च कृत्स्ना हिंसा तन्त्रे प्रतिषिद्धा द्रष्टव्येत्यर्थः ।
सा च हिंसा त्रिविधा भवति । दुःखोत्पादनम् अण्डभेदः
प्राणनिर्मोचनमिति । तत्र दुःखोत्पादनं नाम—क्रोशनतर्जनताडन-
निर्भर्त्सनादिवहुभेदोऽपि चतुर्विधस्यापि भूतग्रामस्य मनोवाक्काय-
कर्मभिरभिद्रोहो न कर्तव्यः । एवमहिंसा भवत्येतेषां जन्तूनाम् ।
(अण्डभेदो नाम)—दाहतापधूमोपरोधपरिहारार्थमग्निकरणादानसम्प्रदान-
प्रतिनिधानसन्धुक्षणादीनि न कुर्यात् ; नैव कारयेत् । (तथा
प्राणनिर्मोचनं नाम)—वस्त्रशिक्यभस्माधारभैक्ष्यमार्जनादीनि मुहु-
र्मुहुर्विवेचयितव्यानि । कस्मात् ? । प्राणिनो हि सूक्ष्मचारिणः
क्षिप्रमेव विलयं प्रयान्ति । तस्मात् सूक्ष्मैरङ्ग²पवित्रैः पक्ष्मचामरताल-
वृन्तैर्वस्त्रान्तरैर्वा मुहुर्मुहुर्विग्रन्थ्योदकेन³ वा । हरितेषु तृणेषु नसंसिक्ते
भूप्रदेशे भवति । वसन्तग्रीष्महैमन्तिकान्⁴ अष्टौ मासान् भिक्षुर्विचक्रमेत् ।
दयार्थं सर्वभूतानामेकत्र वर्षासु वसेत् ।
“ वर्षाभेदं तु यः कुर्याद् ब्राह्मणो योगदीक्षितः ।
प्राजापत्येन कृच्छ्रेण ततः पापात् प्रमुच्यते ॥
१. जरायुज (Womb-born), अण्डज (Egg-born), स्वेदज (Sweat-born)
and उद्भिज्ज (Seed-born).
२. Strainer.
३. The idea is to wash Vastra, Sikya &c., and cleanse the same
with water filtered through a close-meshed filter made of hair etc., the
washing being done on a grass-covered area free from mud. This is
to ensure cleanliness by removing dirt as well as by protecting from
possible contamination from the ground.
४. हैमन्तिक includes शिशिर also.
५. वर्षा includes शरद् also.
3

१८ सभाष्ये पाशुपतसूत्रे
शारीरं दृश्यते यत्र भयं कस्याश्चिदापदि ।
दुर्दिने राष्ट्रभङ्गे वा वर्षास्वपि व्यतिक्रमेत् ॥
नासूर्य्यं च व्रजेन्मार्गं नादृष्टां भूमिमाक्रमेत् ।
परिपूताभिरद्भिश्च नित्यं कुर्यात् प्रयोजनम् ॥
संवत्सरकृतं पापं मत्स्यबन्धस्य यद् भवेत् ।
एकाहात् तदवाप्नोति अपूतजलसङ्ग्रही ॥
दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् ।
सत्यपूतां वदेद् वाचं मनःपूतं समाचरेत् १ ॥
हिंसकास्तु निवर्तन्ते ब्रह्मत्वमपि ये गताः ।
तस्मादपूतमुदकं नोपयुञ्जीत योगवित् ॥
अथ नष्टे पवित्रे च गृह्णीयात् त्रिषु वै सकृत् ।
नदीप्रस्रवणे चैव गृहस्थेषु च साधुषु ॥
काण्डानि यानि गृह्यन्ते कन्दाश्चैव प्ररोहिणः ।
बीजानि चैव पक्वानि सर्वाण्येतानि वर्जयेत् ॥
यदा न कुर्याद् द्रोहं च सर्वभूतेषु दारुणम् ।
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥
यो न हिंसति भूतानि स्थावराणि चराणि च ।
आत्मानमिव सर्वाणि सोऽमृतत्वाय कल्पते ॥
न यज्ञदानैर्न तपोऽग्निहोत्रैर्न ब्रह्मचर्येर्न च सत्यवाक्यैः ।
न वेदविद्याध्ययनैर्व्रतैर्वा प्राप्यं फलं यद्यदहिंसकस्य ॥
१. See Manu VI, 46.

प्रथमोऽध्यायः । १९
यो दद्यात् काञ्चनं मेरुं कृत्स्नां चैव वसुन्धराम् ।
समुद्रं रत्नपूर्णं वा न तुल्यं स्यादहिंसया ॥ ”
इत्येवमहिंसा तन्त्रे सिद्धा ।
२. तथा ब्रह्मचर्यं च तन्त्रे सिद्धम् । कस्मात् ? । स्त्रीप्रति-
षेधात् (अ० १, सू० १३), इन्द्रियजयोपदेशाच्च (अ० ५,
सू० ७) । त्रयोदशकस्य करणस्यानुत्सर्गो ब्रह्मचर्यमित्युक्तम् ।
विशेषेण तु जिह्वोपस्थयोरिति । अत्राह —विशेषग्रहणं किम्प्रयोजनम् ? ।
त्रयोदशकस्य करणस्यानुत्सर्गो ब्रह्मचर्यमित्युक्त्वा जिह्वोपस्थयो-
र्विशेषग्रहणं किम्प्रयोजनं क्रियते ? । उच्यते—प्रधानत्वात् ।
तन्मूलत्वादितरप्रवृत्तेः । तन्मूला हीतरेषां प्रवृत्तिर्भवति । कथम् ? ।
जिह्वेन्द्रियविषये उपस्थेन्द्रियविषये वा सक्तः त्रयोदशभिः प्रवर्तते ।
अत एतदुक्तं विशेषेण (तु) जिह्वोपस्थयोरिति ।
“ जिह्वोपस्थनिमित्तं हि पतनं सर्वदेहिनाम् ।
तस्मादमित्रवत् पश्येज्जिह्वोपस्थं हि मानवः ॥ ”
अथवा मनःपूर्वकत्वात् सर्ववृत्तीनां तन्निग्रहात् सर्ववृत्तीनां
निग्रहः कृतो भवति । उक्तं हि—
“ मनो हि मूलं सर्वेषामिन्द्रियाणां प्रवर्तने ।
शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम् ॥ ”
पुनरप्युक्तम्—
“ इन्द्रियैः प्रसृतैर्दुःखमिन्द्रियैर्निभृतैः सुखम् ।
तस्मादिन्द्रियरूपेभ्यो यच्छेदात्मानमात्मना ॥

२० सभाष्ये पाशुपतसूत्रे
इन्द्रियाणि हि तत् सर्वं यत् स्वर्गनरकावुभौ ।
निगृहीतविसृष्टानि स्वर्गाय नरकाय च ॥
अतो जन्म अतो दुःखमतो मृत्युभयं तथा ।
इन्द्रियाणां प्रसङ्गाद् वै तस्मादेतान् जयामहे ॥
ईन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम् ।
संनियम्य तु तान्येव ततः सिद्धिं नियच्छति ॥
रज्जुरेषा निबन्धाय या स्त्रीषु रमते मतिः ।
छित्त्वैनां कृतिनो यान्ति नैनां त्यजति दुष्कृती ॥
स्त्रीहेतोर्निर्गमो ग्रामात् स्त्रीकृते क्रयविक्रयः ।
स्त्रियो मूलमनर्थानां नैनां प्राज्ञः परिष्वजेत् ॥
विषमग्निरसिर्वाणः स्फुटं कृत्वा(? त्या)विभीषिका ।
माया रूपवती ह्येषा यां स्त्रियं मन्यते जनः ॥
अमेध्यपूर्णे कृमिजन्तुसङ्कुले स्वभावदुर्गन्ध अशौच अध्रुवे ।
कलेवरे मूत्रपुरीषभाजने रमन्ति मूर्खा न रमन्ति पण्डिताः ॥
माद्यतीति स्त्रियं दृष्ट्वा सुरां पीत्वा न माद्यति ।
तस्माद् दृष्टिमदां नारीं दूरतः परिवर्जयेत् ॥
अधोमुखेनादंष्ट्रेण जघनान्तरचारिणा ।
सर्वशास्त्राचिकित्स्येन जगद् दष्टं भगाहिना ॥
लोमशेन कुरूपेण दुर्गन्धेन कुधर्मणा ।
हरिणीपदमात्रेण सर्वमन्धीकृतं जगत् ॥
१. मनुस्मृतिः २-९३.

प्रथमोऽध्यायः। २१
दीप्ताङ्गारसमा नारी घृतकुम्भसमः पुमान् ।
ये प्रसक्ता विलीनास्ते ये स्थितास्ते दिवं गताः ॥
यथाग्निरेधस्संवृद्धो महाज्योतिः प्रकाशते ।
तथेन्द्रियनिरोधेन स्वात्मज्योतिः प्रकाशते ॥
ब्रह्मचर्ये स्थितं धैर्यं ब्रह्मचर्ये स्थितं तपः ।
ये स्थिता ब्रह्मचर्येण ब्राह्मणा दिवि ते स्थिताः ॥
क्षीरं पिबन्ति मधु ते पिबन्ति
सोमं पिबन्त्यमृतेन सार्धम् ।
मृत्योः पुरस्तादमरा भवन्ति
ये ब्राह्मणा ब्रह्मचर्यं चरन्ति ॥”
इत्येवं ब्रह्मचर्यं तन्त्रे सिद्धम् ।
३. तथा सत्यं तन्त्रे सिद्धम् । तच्च द्विविधम् । तद्यथा -
परदृष्टार्थभूतार्थं वचनं वाक्सत्यं चेति । तत्र परदृष्टार्थभूतार्थं
वचनं सत्यं तन्त्रे सिद्धम् । कस्मात् ? । व्याख्यानोपदेशात् (अ० १,
सू० १), विद्वदुपदेशाच्च (अ० ३, सू० १९) । तथा वाक्सत्यमपि
तन्त्रे सिद्धम् । कस्मात् ? । वाग्विशुद्ध्युपदेशात् (अ० ५, सू० २७) ।
इह स्वशास्त्रोक्तं भाषतोऽनृतमपि सत्यमापद्यते । कस्मात् ? । शुद्धिवृद्धि-
करत्वात् । यस्मादाह -
“ स्वर्गमनृतेन गच्छति दयार्थमुक्तेन सर्वभूतानाम् ।
सत्येनापि न गच्छति सतां विनाशार्थमुक्तेन ॥
सत्येनापि न गच्छति सतां विनाशार्थमुक्तेन ॥”

२२ सभाष्य पाशुपतसूत्रे
पुनस्त्वाह—
“गोब्राह्मणार्थेऽवचनं हिमस्ति (१)
न स्त्रीषु राजन् ! न विवाहकाले ।
प्राणात्यये सर्वधनापहारे
पञ्चानृतान्याहुरपातकानि ॥”
सत्यं ब्रूयात् प्रियं ब्रूयान्न ब्रूयात् सत्यमप्रियम् ।
प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥
यथा हि तेषामेव भूतानां हितमनृतमपि सत्यमापद्यते, एव-
मिहाप्यस्माकं स्वशास्त्रोक्तं भाषतामनृतमपि सत्यमापद्यते । कस्मात् ? ।
विधिविहितत्वात् । इत्येतदपि तन्त्रे सिद्धम् ।
४. तथा असंव्यवहारस्तन्त्रे सिद्धः । कस्मात् ? ।
अव्यक्त-प्रेत-(अ० ३, सू० १ & १७) उन्मत्त-मूढोपदेशात् (अ० ४,
सू० ६ & ८)। नेह लोके अव्यक्तप्रेतोन्मत्तमूढाः संव्यवहारं कुर्वन्ति
यस्माद्, अतोऽत्रासंव्यवहारस्तन्त्रे सिद्धः । संव्यवहारश्च पुनर्द्विविधः ।
तद्यथा—क्रयविक्रयसंव्यवहारो राजकुलसंव्यवहारश्चेति । अत एक-
तरेणाप्यत्राधिकृतस्यात्मपीडा परपीडा चावर्जनीये भवतः । तत्र
यद्यात्मानं पीडयति, तेनेहैवं लोके दुःखी भवति । स्यात् परं
पीडयति, तत्राप्यस्याधर्मो दुःखादिफलः प्रचीयते । तेनामुष्मिन्
लोके तीव्रं दुःखमनुभवति । तस्मादुभयथापि संव्यवहारो वर्जनीयः ।
भवति ह्यपि—
१. 'न नर्मयुक्तमनृतं हिनस्ति' इति महाभारते आपद्धर्मपर्वणि.
२. मनुस्मृतिः ४—१३८.

प्रथमोऽध्यायः । २३
“ यश्च पापं प्रकुरुते यश्च पापं प्रशंसति ।
सहायश्चोपभोक्ता च सर्वे ते समकर्मिणः ॥ ”
उक्तं हि—
“ विक्रये तु महान् दोषो विक्रयात् पतते यतः ।
एष एव क्रये दोषस्तस्मात् तं परिवर्जयेत् ॥
प्रच्छन्नं कुरुते पापं न मे जानाति कश्चन ।
मुच्यते जनवादेभ्यस्तस्मात् पापान्न मुच्यते ॥ ”
पुनरप्युक्तम्—
“ आदित्यचन्द्रावनिलोऽनलश्च
द्यौर्भूमिरापो हृदयं यमश्च ।
अहश्च रात्रिश्च उभे च सन्ध्ये
धर्मो हि जानाति नरस्य वृत्तम् ॥
नारम्भशीलो न च दम्भशीलः
शास्त्रोपदिष्टानि करोत्यदीनः ।
यमेषु युक्तो नियमेषु चैव
मुनिर्भवत्येष्वजरोऽमरश्च ॥ ”
इत्येवम् असंव्यवहारस्तन्त्रे सिद्धः ।
५. तथा अस्तेयं तन्त्रे सिद्धम् । कस्मात् ? । अवासोपदेशात्
(अ० १, सू० ११), अनुत्सृष्टान्नप्रतिषेधाच्च (अ० ४, सू० ७) । इह
विद्यमानस्याप्येकस्य वाससो मलवदवस्थितस्यावासोपदेशात् परिग्रह-
परित्याग उपदिश्यते । किञ्चान्यदपि । परित्यक्तानामन्नपानादीना-
मुपयोगो दृष्टो यस्मात् । अतोऽत्रास्तेयं तन्त्रे सिद्धम् । स्तेयं च


(दक्षिणपार्श्वे पाठान्तरटिप्पणी / Right margin note):
१. 'अनुपृक्तप्रतिषेधाच्च' इति पाठान्तरम्.

पुनः षड्विधम् । तत्र अदत्तादानम् अनतिसृष्टग्रहणम् अनभिमत-
ग्रहणम् अनधिकारप्रतिग्रहः अनुपालम्भः अनिवेदितोपयोगश्चेति ।
अदत्तस्य ग्रहणमदत्तादानम् । अनतिसृष्टग्रहणं नाम बालोन्मत्त-
प्रमत्तवृद्धदुर्बलानां वित्तापहरणम् । अनभिमतग्रहणं नाम कीटभ्रमर-
पक्षिपतङ्गादीनाम् अनभिमतद्रव्यापहरणम् । अनधिकारप्रतिग्रहो नाम
इह शास्त्रे अनभ्यनुज्ञातानामर्थानां गोभूहिरण्यद्विपदचतुष्पदादीनां
ग्रहणम् । अनुपालम्भो नाम कुहककल्कनदम्भविस्मापनवैर्धापना-
दिभिरुपायैः परेभ्यो हिरण्याच्छादनोपयोगः । अनिवेदितो-
पयोगो नाम भक्ष्यभोज्यलेह्यपेयचोष्यादीनामन्यतमं यत्किञ्चिद् गुरवे-
ऽनिवेदितमुपयुङ्क्ते स उच्यते अनिवेदितोपयोग इति । एवं
षड्विधं स्तेयम् । अस्य षड्विधस्या

:। पञ्चमोऽध्यायः । २५
मृदमापस्तथा यानं पत्रं पुष्पं फलान्यपि ।
असंवृतानि गृह्णीयात् पवित्रार्थीह कार्यवान् ॥
नद्यश्च वाप्यः कूपाश्च तटाकानि सरांसि च ।
असंवृतानि गृह्णीयात् प्राजापत्येन कर्मणा ॥ ”
इत्येवमस्तेयं तन्त्रे सिद्धम् ।
६. अक्रोधस्तन्त्रे सिद्धः । कस्मात् ? । शूद्रप्रतिषेधात्
(अ० १, सू० १३), अतितापोपदेशाच्च (अ० २, सू० १६) ।
इहाध्यात्मिकाधिभौतिकाधिदैविकानां सर्वद्वन्द्वानां मनसि शरीरे च
उपनिपतितानां सहिष्णुत्वमप्रतीकारश्चेति यस्मात् कृतो(ऽतो)ऽत्राक्रोधः
तन्त्रे सिद्धः । क्रोधश्च पुनश्चतुर्विधः । तद्यथा—भावलक्षणः कर्मलक्षणः
वैकल्यकरः उद्वेगकरश्चेति । तत्र भावलक्षणो नाम सः, यत्रासूयाद्वेष-
मदमानमात्सर्यादयो भावाः प्रवर्तन्ते । कर्मलक्षणो नाम यत्र
कलहवैरसम्प्रहरणाद्या भावाः प्रवर्तन्ते । वैकल्यकरो नाम यत्र
पाणिपादनासाक्ष्यङ्गुलिप्रहरणादयो भावाः प्रवर्तन्ते । उद्वेगकरो
नाम यत्र स्वात्मानं परात्मानं वा प्राणैर्वियोजयति । इत्येवं
चतुर्विधः क्रोधः । अस्य चतुर्विधस्यापि क्रोधस्य परिवर्जनम्
अक्रोधमाहुराचार्याः । तस्माद् देशजातिकुलकर्मसम्बन्धनिन्दायां करण-
क्रियायां कार्यनिन्दायामाहारनिन्दायां वाधिकृतेन क्रोधो न कर्तव्यः ।
तत्र देशनिन्दा तावद् भवति । तद्यथा—यत्र भवान् जातस्तत्र
देशे ब्राह्मणा एव न सन्तीति यदि कश्चिदधिक्षेपं कुर्यात्, तत्र
१. मनुस्मृतिः ४-२०२, २०३.
२. प्रायश्चित्तेनेत्यर्थः.

२२६ सभाष्ये पाशुपतसूत्रे
क्रोधो न कर्तव्यः। तत्रैतत् स्याद् एवम(भि)हिते तीव्रदुःखं मानसमभि-
व्यज्यते । कथमत्र क्रोधो न भविष्यतीति ?। उच्यते—न भविष्यति ।
कस्मात् ? । परिसङ्ख्यानसामर्थ्यात् । इह मनुष्यलोके देशोऽर्थ
नाम मातापितृहेतुकः औपचयिकः कार्यपिण्डः शरीरसञ्ज्ञः । स
तस्माद् भवः(१) । क्षेत्रज्ञस्तु चेतनः सर्वगतः शुचिः । अस्य
चास्माकं चान्तरमविदितम् । अपरिदृष्टार्थे भवानेतद् वा ब्रूयात् ।
अतः क्रोधनिमित्तासम्भवात् परिसङ्ख्यानसामर्थ्येन क्रोधो न कार्यः ।
एवं शेषेष्वपि द्रष्टव्यम् । भवति चापि—
"शृङ्गवान् नखवान् दंष्ट्री विकृतो रुधिराशनः ।
राक्षसो वा पिशाचो वा क्रोधिष्णुर्जायते नरः ॥"
पुनश्चाह—
"कङ्कगृध्रसृगालेषु दंशेषु मशकेषु च ।
पन्नगेषु च जायन्ते नराः क्रोधपरायणाः ॥
विद्विष्टः सर्वभूतानां बह्वमित्रोऽल्पबान्धवः ।
क्रूरधर्मा दुराचारः क्रोधिष्णुर्जायते नरः ॥
क्रुद्धः करोति पापानि क्रुद्धः पापानि भाषते ।
क्रुद्धो भवति निर्लज्जस्तस्मात् क्रोधं विवर्जयेत् ॥"
तथाचोक्तम्—
"यत् क्रोधनो जपति यच्च जुहोति यद्वा
यद्वा तपस्तप्यति यद्ददाति तत्सर्वम् (१) ।
वैवस्वतो हरति पूर्तममुष्य सर्वं
मिथ्या श्रुतं भवति तस्य शमोऽपि तस्य ॥
१. "क्रव्यादो " इति पाठान्तरम्‌०

प्रथमोऽध्यायः । २७
धन्यास्ते पुरुषव्याघ्रा ये बुद्ध्या क्रोधमुत्थितम् ।
शमयन्ति महात्मानो दीप्तमग्निमिवाम्भसा ॥
यतो रूपं ततो ज्ञानं यतो ज्ञानं ततस्तपः ।
यतस्तपस्ततः सिद्धिर्यतः सिद्धिस्ततः क्षमा ॥
क्षमा सर्वपरं मित्रं क्रोधः सर्वपरो रिपुः ।
क्षमावतामयं लोकः परो लोकः क्षमावताम् ॥ ”
एतस्मात् कारणात् क्षन्तव्यमित्येवमक्रोधस्तन्त्रे सिद्धः ।
७. तथा गुरुशुश्रूषा तन्त्रे सिद्धा । कस्मात् ? ।
व्याख्यानोपदेशाद् (अ० १, सू० १), विद्वदुपदेशाच्च (अ० ३, सू० १९) ।
इह चोक्तं विधिं व्याख्यास्यामः (अ० १, सू० १) इति । अत्राङिति
मर्यादायाम् । म इति प्रतिज्ञायां भवति । मयि वर्तते । मयि
तिष्ठतीति । यदि चेष्टे वत्स्यसि यदि चेष्टे स्थास्यसि ततस्ते
वक्ष्यामः । तत्रेष्टमित्यष्टाङ्गं ब्रह्मचर्यं मर्यादामधिकुरुते । तद्यथा—
उत्थानप्रत्युत्थानाभिवादनं(गुरुकार्यं १ ?)गुरुकार्यहितकारी अनुत्तरोत्तर-
वादी पूर्वोत्थायी जघन्यसंवेशी प्रेषिताप्रेषितसर्वकार्यकृतज्ञः सर्व-
निवेदितात्मा दक्षो दाक्षिण्यानुरक्तः स्नानोद्वर्तनसंवाहनादिभिः
क्रियाविशेषैः छायेवानुगतो नित्यमिदं कृतम् इदं करिष्ये किं
करवाणीति भूत्वा गुरवेऽहरहर्वर्तितव्यम् । यस्तु विद्यां गुरोरधिकृत्य
बहुभ्यः संप्रयच्छति, अनेनास्य विद्याया दानेन गुरवः शुश्रूषिता
भवन्ति । क्षीणे च ब्रह्मचर्ये नियतं गुरुषु यद् गौरवं तद्
ब्रह्मचर्यम् । भवति ह्यपि—
१. See गणकारिकाव्याख्या, प्रहृण-etc. page 17.

२८ सभाष्य पाशुपतसूत्रे
“ गुरुर्देवो गुरुः स्वामी गुरुर्माता गुरुः पिता ।
यस्यैवं निश्चितो भावः श्रेयस्तस्य न दूरतः ॥
अग्निसूर्येन्दुतारामिश्चाक्षुषोऽर्थः प्रकाशते ।
भूतं भव्यं भविष्यं च गुरुवाक्यैः प्रकाशते ॥
देशकैर्गम्यतेऽध्वानं(?) देशकैर्गम्यतेऽर्णवः ।
देशकैर्गम्यते स्वर्गो गुरुर्मोक्षस्य देशकः ॥
अमृतस्य प्रदातारं यो गुरुं ह्यवमन्यते ।
षष्टिवर्षसहस्राणि नरकं पर्युपासते ॥
¹गुरोर्यत्र परीवादो निन्दा यत्र प्रवर्तते ।
कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥
आचार्य पूजयेद् यस्तु सर्वावस्थं हि नित्यशः ।
पूजितस्तेन भवति शिवो वै नात्र संशयः ॥
आचार्यमूर्तिमास्थाय शिवो ज्ञानं प्रयच्छति ।
तस्माद् वै नावमन्तव्य आचार्यः श्रेय इच्छता ॥
ग्रन्थार्थविदुषे नित्यं योगमार्गानुदर्शिने ।
सर्वार्थेनापि कर्तव्यः परितोषो विजानता ॥
ऋचं वा यदि वार्धर्चं पादं वा यदि वाक्षरम् ।
सकाशाद् यस्य गृह्णीयान्नियतं तत्र गौरवम् ॥
लिङ्गकर्त्री यथा माता शास्त्रकर्ता यथा पिता ।
प्रबोधकृद् गुरुस्तेषां तदेवायतनं महत् ॥ ”
इत्येवं ²गुरुशुश्रूषा तन्त्रे सिद्धा ।
१. मनुस्मृतिः २-२००.
२ See गणकारिकाव्याख्या, 3rd कारिका.

प्रथमोऽध्यायः । २९
८. तथा शौचं तन्त्रे सिद्धम् । कस्मात् ? । भस्मस्नानोपदेशात्
(अ० १, सू० २) । तच्च शौचं त्रिविधम् । तद्यथा—गात्रशौचं
भावशौचम् आत्मशौचं चेति । तत्र भस्मस्नानोपदेशात् प्रसिद्धं
भस्मना गात्रशौचम् । आह—यदुक्तं प्रसिद्धं भस्मना गात्रशौच-
मिति एतदेवायुक्तम् । कस्मात् ? । पूर्वोत्तरव्याघातात् । इह
पुरस्तादुक्तं प्रसिद्धा यमा अहिंसादयो भवन्ति (इति) । यदिह
भूयोऽपि अप्रसिद्धं भस्मना गात्रशौचमित्यभिधीयते । तस्मादिदं
पूर्वोत्तरं न संगच्छति । व्याहतं च भवति । एष दोष इत्यतः
पूर्वोत्तरव्याघातात् । तत्र यदुक्तं प्रसिद्धं भस्मना गात्रशौच-
मित्येतदयुक्तम् (?) । उच्यते—नायं दोषः । कस्मात् ? ।
प्रसिद्धिदर्शनात् । इहान्यत्रापि प्रसिद्धं भस्मना गात्रशौचमिति ।
एवं ह्याह—
“ संसर्गजाश्च ये दोषा ये चान्ये पितृमातृजाः ।
अन्नपानकृताश्चैव सङ्करा देहमाश्रिताः ।
सर्वांस्तान् दहते भस्म अस्थिमज्जागतानपि ॥ ”
पुनश्चाह—
“ केशकीटोपपन्नानि दुष्टान्नानि च यानि वै ।
भस्मना स्पृष्टमात्राणि भोज्यान्याहुर्मनीषिणः ॥ ”
पुनरप्युक्तम्—
मद्यं पीत्वा गुरुदारांश्च गत्वा
स्तेयं कृत्वा ब्रह्महत्यां च कृत्वा ।
भस्मोद्ध्वस्तो भस्मराशौ शयानो
रुद्राध्यायी मुच्यते पातकेभ्यः ॥

३० सभाष्ये पाशुपतसूत्रे
यः स्नानमाचरेन्नित्यमाग्नेयं संयतेन्द्रियः ।
कुलैकविंशमुद्धृत्य स गच्छेत् परमां गतिम् ॥”
एवमन्यत्रापि प्रसिद्धं भस्मना गात्रशौचम् । तस्माद् युक्तं
वक्तुं प्रसिद्धा यमा अहिंसादय इति ।
तथोपस्पर्शनप्राणायामजप्यैः (अ० १, सू० १५-१७) अकलुष-
मतिर्भवतीति भावशौचं तन्त्रे सिद्धम् ।
“भावमन्तर्गतं दुष्टं न स्नानमपकर्षति ।
भावशुद्धिः परा शुद्धिः शेषं शृङ्गारमार्जनम् ॥
मृत्तिकानां सहस्रेण जलकुम्भशतेन च ।
न शुद्ध्यन्ति दुरात्मानः पापोपहतचेतसः ॥
सत्यं शौचं तपः शौचं शौचमिन्द्रियनिग्रहः ।
सर्वभूतदया शौचमद्भिः शौचं तु पञ्चमम् ॥
शौचमेव परं तेषां येषां नोत्पद्यते स्पृहा ।
प्रतिग्रहे तथारम्भे इन्द्रियाणां च गोचरे ॥”
यस्मादाह—
“सर्वस्वमपि यो दद्यात् कलुषेणान्तरात्मना ।
न तेन धर्मभाग् भवति भाव एवात्र कारणम् ॥
यथा यथा हि पुरुषः कल्याणीं कुरुते मतिम् ।
तथा तथास्य सिध्यन्ति सर्वार्था नात्र संशयः ॥”
इत्येवं भावशौचं तन्त्रे सिद्धम् ।
तथात्मशौचं तन्त्रे सिद्धम् । कस्मात् ? । यस्मादवमानपरिभव-
परिवादाद्यैरपहतपाप्मा भवति (अ० ३, सू० ३—७) इत्यात्मशौचं
तन्त्रे सिद्धम् । यस्मादन्यैरप्युक्तं—

प्रथमोऽध्यायः । ३१
“कृत्स्नां महीं पर्यटतः सशैलवनकाननाम् ।
अपमानात् परं नास्ति साधनं मनुरब्रवीत् ॥”
इत्येवं शौचं तन्त्रे सिद्धम् ।
९. तथा आहारलाघवं तन्त्रे सिद्धम् । कस्मात् ? ।
भैक्ष-(अ० ५, सू० १४) उत्सृष्ट-(अ० ४, सू० ७) यथालब्धोपदेशात्
(अ० ५, सू० ३२) । स्वल्पमपि अनुपायतोऽर्जितमलघु, प्रभूतमपि
उपायतोऽर्जितं लघ्वेव द्रष्टव्यम् । उक्तं हि—
“चरेन्माधुकरीं वृत्तिं वल्मीकनिचयोपमाम् ।
अक्रुद्धश्चाप्रहृष्टश्च तपस्तद्धि सनातनम् ॥
यश्चरेत् सर्वभोज्येषु भैक्ष्यं च व्यवहारतः ।
भुञ्जीत प्रतिगृह्णीयात् प्रशस्तानां स्वकर्मसु ॥
चातुर्वर्ण्यं चरेद् भैक्ष्यं पतितांस्तु विवर्जयेत् ।
पयश्चापञ्च भैक्ष्यं च सममेतन्न संशयः ॥
भैक्ष्यशेषं तु यो भिक्षुर्यदि किञ्चित् समुत्सृजेत् ।
ग्रासे ग्रासे तु कर्तव्याः प्राणायामास्त्रयस्त्रयः ॥
सन्निधानं न कुर्वीत सर्वावस्थोऽपि योगवित् ।
सन्निधानकृतैर्दोषैर्यतिः सञ्जायते कृमिः ॥
माधूकरमसङ्कल्पं प्राक्प्रवृत्तमयाचितम् ।
तत्तत्कालोपपन्नं च भैक्ष्यं पञ्चविधं स्मृतम् ॥
गृहाद् गृहं पर्यटंस्तु न गृहं परिवर्जयेत् ।
परस्य वचनं श्रुत्वा दुष्टवेश्म विवर्जयेत् ॥
१. 'यदॄच्छया चोपपन्नम्' इति पाठान्तरम्.

१२ सभाष्ये पाशुपतसूत्रे
अदुष्टापतितं साधुं भिक्षुको यो व्यतिक्रमेत् ।
स तस्य सुकृतं दत्त्वा दुष्कृतं प्रतिपद्यते ॥
तथैव च गृहस्थस्य निराशो भिक्षुको व्रजेत् ।
स तस्येष्टं च पूर्तं च भिक्षुरादाय गच्छति ॥
अकृते वैश्वदेवे तु भिक्षुके गृहमागते ।
उद्धृत्य वैश्वदेवार्थं भिक्षुकं तु विसर्जयेत् ॥
वैश्वदेवकृतान् दोषान् शक्तो भिक्षुर्व्यपोहितुम् ।
नहि भिक्षुकृतान् दोषान् वैश्वदेवो व्यपोहति ॥
दशाहं द्वादशाहं वा यत्र भिक्षा न लभ्यते ।
तद् गृहं वर्जयेद् भिक्षुरूषराणीव कर्षकः ॥
चतुरक्षरसंयुक्तां भिक्षां तु समुदाहरेत् ।
एष प्रव्रजिनां धर्मः शेषस्तु क्रयविक्रयः ॥
न हसेन्न चाभिप्रैक्षेत भिक्षामिच्छंस्तु भिक्षुकः ।
गोदोहमात्रं सन्तिष्ठेन्नोपत्तिष्ठेत् कदाचन ॥
जरामरणगर्भभ्यो भीतस्य नरकादपि ।
भयात् क्षपयते यस्मात् तस्माद् भैक्ष्यमिति स्मृतम् ॥
दधिभक्षाः पयोभक्षा येन््ये यावकभाक्षिणः ।
सर्वे ते भैक्ष्यभक्षस्य कलां नार्हन्ति षोडशीम् ॥
तप्तकाञ्चनवर्णेन गवां मूत्रेण यावकम् ।
पिबेद् द्वादश वर्षाणि न तद् भैक्ष्यसमं भवेत् ॥

प्रथमोऽध्यायः । ३३
मासि मासि कुशाग्रेण यः पिबेत् सोममग्रजः ।
भैक्ष्यं चाव्यवहारेण तुल्यं भवति वा न वा ॥
भैक्ष्यमन्नं परं श्रेयो भैक्ष्यमन्नं परं शुचि ।
भैक्ष्यं हि व्रतिनां श्रेष्ठं भैक्ष्यमेव परा गतिः ॥
यद्यज्जलं निर्धमनेष्वपेयं
नदीगतं तत् पुनरेव पेयम् ।
तथान्नपानं विधिपूर्वमागतं
द्विजातिपात्रान्तरितं न दुष्यति ॥
लवणमलवणं वा स्निग्धमस्नेहिकं वा
सहरसविरसं वा शुष्कमन्नं द्रवं वा ।
यदि इह निरवद्यं भुञ्जते भैक्ष्यमन्नं
स खलु भवति भिक्षुर्भिक्षुधर्मादलुप्तः ॥”
तथोत्सृष्टं यथालब्धं च तत्रैवावसरप्राप्तत्वात् प्रतितन्त्रसिद्धान्त-
सिद्धं, सूत्रतोऽर्थनिर्देशं करिष्यामः। इत्येवमाहारलाघवं तन्त्रे सिद्धम् ।
१०. तथा अप्रमादस्तन्त्रे सिद्धः । कस्मात् ? । अप्रमादो-
पदेशात् (अ० २, सू० १२) जप्योपदेशाच्च (अ० १, सू० ८) । इह
नित्यं यमेष्वप्रमत्तेनोपस्थितस्मृतिना भवितव्यम् । उक्तं हि -
“अप्रमादो दमस्त्यागो ब्राह्मणस्य हयाः स्मृताः ।
शीलरश्मिसमायुक्तैर्धेयात्मा मानसे रथे (?) ॥
तं ब्रह्मरथमारुह्य गर्भजन्मजरायुतान् ।
छिन्दन् मृत्युभयान् पाशान् ब्रह्मभूतोऽवतिष्ठते ॥”
इत्येवमप्रमादस्तन्त्रे सिद्धः । एवं प्रसिद्धा यमा अहिंसादयः ।
5