पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)
Pashupata Sutras of Lakulisha with Panchartha Bhashya
भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा
पृष्ठ 35, कुल 166 में से
संदर्भ में पढ़ेंप्रथमोऽध्यायः । २९
८. तथा शौचं तन्त्रे सिद्धम् । कस्मात् ? । भस्मस्नानोपदेशात्
(अ० १, सू० २) । तच्च शौचं त्रिविधम् । तद्यथा—गात्रशौचं
भावशौचम् आत्मशौचं चेति । तत्र भस्मस्नानोपदेशात् प्रसिद्धं
भस्मना गात्रशौचम् । आह—यदुक्तं प्रसिद्धं भस्मना गात्रशौच-
मिति एतदेवायुक्तम् । कस्मात् ? । पूर्वोत्तरव्याघातात् । इह
पुरस्तादुक्तं प्रसिद्धा यमा अहिंसादयो भवन्ति (इति) । यदिह
भूयोऽपि अप्रसिद्धं भस्मना गात्रशौचमित्यभिधीयते । तस्मादिदं
पूर्वोत्तरं न संगच्छति । व्याहतं च भवति । एष दोष इत्यतः
पूर्वोत्तरव्याघातात् । तत्र यदुक्तं प्रसिद्धं भस्मना गात्रशौच-
मित्येतदयुक्तम् (?) । उच्यते—नायं दोषः । कस्मात् ? ।
प्रसिद्धिदर्शनात् । इहान्यत्रापि प्रसिद्धं भस्मना गात्रशौचमिति ।
एवं ह्याह—
“ संसर्गजाश्च ये दोषा ये चान्ये पितृमातृजाः ।
अन्नपानकृताश्चैव सङ्करा देहमाश्रिताः ।
सर्वांस्तान् दहते भस्म अस्थिमज्जागतानपि ॥ ”
पुनश्चाह—
“ केशकीटोपपन्नानि दुष्टान्नानि च यानि वै ।
भस्मना स्पृष्टमात्राणि भोज्यान्याहुर्मनीषिणः ॥ ”
पुनरप्युक्तम्—
मद्यं पीत्वा गुरुदारांश्च गत्वा
स्तेयं कृत्वा ब्रह्महत्यां च कृत्वा ।
भस्मोद्ध्वस्तो भस्मराशौ शयानो
रुद्राध्यायी मुच्यते पातकेभ्यः ॥