सामग्री पर जाएँ
सर्वकोश
पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

Pashupata Sutras of Lakulisha with Panchartha Bhashya

भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा

DevanagariSanskritpublished166 पृष्ठ

पृष्ठ 24, कुल 166 में से

संदर्भ में पढ़ें
पृष्ठ 24

१८ सभाष्ये पाशुपतसूत्रे
शारीरं दृश्यते यत्र भयं कस्याश्चिदापदि ।
दुर्दिने राष्ट्रभङ्गे वा वर्षास्वपि व्यतिक्रमेत् ॥
नासूर्य्यं च व्रजेन्मार्गं नादृष्टां भूमिमाक्रमेत् ।
परिपूताभिरद्भिश्च नित्यं कुर्यात् प्रयोजनम् ॥
संवत्सरकृतं पापं मत्स्यबन्धस्य यद् भवेत् ।
एकाहात् तदवाप्नोति अपूतजलसङ्ग्रही ॥
दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् ।
सत्यपूतां वदेद् वाचं मनःपूतं समाचरेत् १ ॥
हिंसकास्तु निवर्तन्ते ब्रह्मत्वमपि ये गताः ।
तस्मादपूतमुदकं नोपयुञ्जीत योगवित् ॥
अथ नष्टे पवित्रे च गृह्णीयात् त्रिषु वै सकृत् ।
नदीप्रस्रवणे चैव गृहस्थेषु च साधुषु ॥
काण्डानि यानि गृह्यन्ते कन्दाश्चैव प्ररोहिणः ।
बीजानि चैव पक्वानि सर्वाण्येतानि वर्जयेत् ॥
यदा न कुर्याद् द्रोहं च सर्वभूतेषु दारुणम् ।
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥
यो न हिंसति भूतानि स्थावराणि चराणि च ।
आत्मानमिव सर्वाणि सोऽमृतत्वाय कल्पते ॥
न यज्ञदानैर्न तपोऽग्निहोत्रैर्न ब्रह्मचर्येर्न च सत्यवाक्यैः ।
न वेदविद्याध्ययनैर्व्रतैर्वा प्राप्यं फलं यद्यदहिंसकस्य ॥
१. See Manu VI, 46.