न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
प्रमाणप्रकरणम् १९७
तथा हि भवन्तो वैशेषिकाः सांख्या जैनाः सौगताश्च कार्यशब्दवादिनः,
चार्वाकास्तु वराकाः कस्यैवं विधासु गोष्ठीषु स्मृतिपथमुपयान्ति,
तत्रभवतां वैशेषिकाणां शब्दस्य श्रवणे तावदेषा तुल्यैव कल्पना, संयोगा-
द्विभागाद्वा शब्दउपजायते जातश्चासौ तिर्यगूर्ध्वमधश्च सर्वतोदिक्कानि कदम्बगो-
ळकाकारेण सजातीयनिकटदेशानि शब्दान्तराण्यारभते तान्यपि तथेत्येवं वी-
चीसन्तानवृत्त्यारम्भप्रबन्धप्राप्तो ऽन्त्यः श्रोत्राकाशजन्मा शब्दस्तत्समवेतस्तेनैव
गृह्यते इति तदियं तावदतिघर्घरा कल्पना ।
शब्दः शब्दान्तरं सूते इति तावदलौकिकम् ।
कार्यकारणभावे हि न दृष्टस्तेषु बुद्धिवत् ॥
जन्यन्ते ऽनन्तरे देशे शब्दैः स्वसदृशाश्च ते ।
तिर्यगूर्ध्वमधश्चेति केयं वा श्रद्दधानता ॥
शब्दान्तराणि कुर्वन्तः कथं च विरमन्ति ते ।
न हि वेगक्षयस्तेषां मरुतामिव कल्पते ॥
कुड्यादिव्यवधाने च शब्दस्यावरणं कथम् ।
व्योम्नः सर्वगतत्वाद्वि कुड्यमध्ये व्यवस्थितिः ॥
अथावरणात्मककुड्यादिद्रव्यसंयोगरहितमाकाशं शब्दजन्मनि समवायि-
कारणमिष्यते तदत्र प्रमाणं विशेषे वक्तव्यम् ।
तुल्यारम्भे च मन्देन तीव्रस्य जननं कथम् ।
श्रूयते चान्तिकात्तीव्रःशब्दो मन्दस्तु दूरतः ॥
वीचीसन्तानतुल्यत्वमपि शब्दे सुदुर्वचम् ।
मूर्तिमत्त्वक्रियायोगवेगविरहितात्मसु ॥
यदप्युच्यते सजातीयजनकः शब्दः गुणत्वादूपादिवदिति तदिदमसिद्धम-
सिद्धेन साध्यं गुणत्वस्यासिद्धत्वात् ।
न शब्दः पारतन्त्र्येण कदा चिदुपलभ्यते ।
द्रव्यस्थ इव रूपादेरतो ऽस्य गुणता कुतः ॥
अपि च-न शब्दान्तरारम्भकः शब्दो गुणत्वाद् रूपवत् , शब्दः शब्दं
नारभते शब्दत्वाच्छ्रोत्रशब्दवत् , न संयोगविभागौ शब्दस्य जनको संयोग
विभागत्वादन्यसंयोगविभागवद् इत्यादयः प्रतिहेतवो ऽप्यत्र सुलभा इति
यत् किं चिदेतत् ।
कापिलास्तु ब्रुवते श्रोत्रवृत्तिः शब्ददेशं गच्छति सा शब्देन विक्रियते इति
तत्र श्रोत्रस्य व्यापित्वान्नकटदेशेनेव शब्देन तद्वृत्तिर्विक्रियते न दूरदेशेने-
त्यत्र को नियमः, नियमाभावाच्च कान्यकुब्जप्रयुक्तो गोशब्दो गोरमूलके ऽपि
१९८ न्यायमञ्जर्याम्
श्रूयेत, अमूर्त्ता च श्रोत्रवृत्तिः प्रसरन्ती न मूर्त्तैः कुड्यादिभिरभिहन्तुं शक्यते
इति व्यवहितस्यापि शब्दस्य श्रवणं स्यात् ।
वायौ शब्दानुकूले च न तस्य श्रवणं भवेत् ।
गच्छन्त्याः प्रतिकूलो हि श्रोत्रवृत्तेः स मारुतः ॥
दूरे ऽपि शब्दस्य श्रवणं यद्दृष्टं प्रतिवातं च निकटे ऽपि यदश्रवणं तद-
स्मिन् पक्षे विपरीतं स्यात् ।
वृत्तिवृत्तिमतोर्भेदो नास्तीतीन्द्रियवद्भवेत् ।
व्यापिका वृत्तिरित्येवं कथं सर्वत्र न श्रुतिः ॥
आर्हतास्त्वाहुः सूक्ष्मैः शब्दपुद्गलैरारब्धशरीरः शब्दः स्वप्रभवभूमेः निष्क्र-
म्य प्रतिपुरुषं कर्णमूलमुपसर्पतीति तदेतदतिसुभाषितम् ।
वर्णस्यावयवाः सूक्ष्माः सन्ति के चन पुद्गलाः ।
तैर्वर्णो ऽवयवी नाम जन्यते पश्य कौतुकम् ॥
तेषामदृश्यमानानां कीदृशो रचनाक्रमः ।
केन तत्संनिवेशेन कः शब्द उपजायताम् ॥
लघवो ऽवयवाश्चैते निबद्धा न च केन चित् ।
न चैनं कठिनं कर्तुं वर्णावयविनं क्षमाः ॥
कृशश्च गच्छन्स कथं न विक्षिप्येत मारुतैः ।
दलशो वा न भज्येत वृक्षाद्यभिहतः कथम् ॥
प्रयाणकावधिः कश्च गच्छतो ऽस्य तपस्विनः ।
एकश्रोत्रप्रविष्टो वा स श्रूयेतापरैः कथम् ॥
निष्क्रम्य कर्णादेकस्मात्प्रवेशः श्रवणान्तरे ।
यदीष्येत कथं तस्य युगपद्बहुभिः श्रुतिः ॥
श्रोतृसंख्यानुसारेण न नानावर्णसंभवः ।
वक्तुस्तुल्यप्रयत्नत्वाच्छ्रोतृभेदे तदत्यये ॥
तदलं परिहासस्य महतो हेतुभूतया ।
नग्नक्षपणकाचार्यप्रज्ञाचातुर्यचर्चया ॥
शाक्यप्रायास्त्वाचक्षते अप्राप्त एव शब्दः श्रोत्रशक्त्या गृह्यते इति तदेतद-
तिब्यामूढभाषितम , अप्राप्त्या तुल्यतायां दूरव्यवहितानामश्रवणकारणाभा-
वात् , प्राप्यकारिताख्यकर्मधर्मप्रसङ्गाच्च, न च चार्वाकवदपरीक्षित एवायमर्थ
उपेक्षितुं युक्तः ।
इति कार्यत्वपक्षे ऽमूः श्रुतास्तार्किककल्पनाः ।
अथाभिव्यक्तिपक्षे ऽस्य शृणु श्रोत्रियकल्पनाम् ॥
विवक्षापूर्वकप्रयत्नप्रेर्यमाणस्तावद्वेगवत्तया क्रियावत्तया च कोष्ठ्यो बहि-
निस्सरति समीरण इति सुस्पष्टमेतत् , प्रत्यक्षपवनवादिनां पक्षे पवनसमये
वक्तृवदननिकटनिहितहस्तस्पर्शेनैव स उपलभ्यते, अनुमेयमारुतपक्षे ऽपि
तदानीमास्यसमीपसन्निधापिततूलकर्मणा सोऽनुमीयते ।
स गच्छन्सर्वतोदिक्कः स्तिमितानिलनोदनम् ।
करोति कर्णाकाशे च प्रयाति श्रुतियोग्यताम् ॥
स च प्रयत्नतीव्रत्वमन्दत्वेन तदात्मकः ।
शब्दे तथाविधज्ञप्तिहेतुतामवलम्बते ॥
स चैष गच्छन्नुद्दामवेगयोगाहितक्रियः ।
शरवद्वेगशान्त्यैव न दूरं गन्तुमर्हति ॥
स मूर्त्तः प्रसरन्मूर्त्तैरपरैः प्रतिरुध्यते ।
कुड्यादिभिरितो नास्य श्रुतिर्व्यवहितात्मनः ॥
स वेगगतियोगित्वादागच्छति यतो यतः ।
श्रोता ततस्ततः शब्दमायान्तमभिमन्यते ॥
स तु शङ्खादिसंयोगप्रेर्यमाणः समीरणः ।
शब्दस्यावर्णरूपस्य भवति व्यक्तिकारणम् ॥
यद्वा यद्यपि वर्णात्मा श्रात्रग्राह्यो न विद्यते ।
तथा ऽपि तत्र शब्दत्वं श्रवणेन ग्रहीष्यते ॥
तदिह न का चिदस्माभिरधिका कल्पना कृता मारुतगतेरस्याः सर्वलोक-
प्रसिद्धत्वात्कर्णाकाशसंस्कारमात्रमदृष्टं कल्पितं तदपि कार्यार्थापत्तिगम्यत्वान्नापू-
र्वमिति ।
अपक्षपातिनः सभ्याः सत्यमुत्पत्यपेक्षया ।
शब्दस्य कल्पनामाहुरभिव्यक्तौ लघीयसीम् ॥
तदेवमभिव्यक्तिपक्षे नियतग्रहणोपपत्तेः प्रत्यभिज्ञाप्रत्ययप्रामाण्यान्नित्यत्व-
मेवोपगन्तव्यम् ।
या त्वनैकान्तिकत्वोक्तिः धीकर्मप्रत्यभिज्ञया ।
प्रत्यक्षे चोद्यमाना ऽसौ दर्शयत्यति मूढताम् ॥
तेनानुमानदोषेण प्रत्यक्षं न हि दूष्यते ।
सिद्धान्तान्तरचिन्ता तु भवेद्भृशमसङ्गता ॥
निर्बाधं प्रत्यभिज्ञानमस्ति चेद्बुद्धिकर्मणोः ।
तयोरप्यस्तु नित्यत्वं नो चेत्का शब्दतुल्यता ॥
शब्दनित्यत्वोपसंहारः
तस्मान्नित्यः प्रत्यभिज्ञाप्रभावात्सिद्धः शब्दः पश्यतां तार्किकाणाम् ।
अर्थापत्तिः पूर्वमुक्ता च तस्मिन्स्थायित्वे युक्तयश्च व्युदस्ताः ॥
२०० न्यायमञ्जर्याम्
अस्ति च वेदे वचनं सिद्धामनुवदति यद् ध्रुवां वाचम् ।
तल्लिङ्गदर्शनादपि नित्यः शब्दो ऽभिमन्तव्यः ॥
शिक्षाविदस्तु पवनात्मकमेव शब्दमाचक्षते तदसमञ्जसमप्रतीतेः ।
अर्हन्मतप्रथितपुद्गलपर्युदासनीत्या च वायवयवा अपि वारणीयाः ॥
ये ऽपि स्थूलविनाशदर्शनवशाद् ब्रूयुः क्षणध्वंसिनो
भावांस्ते ऽपि न शक्नुवन्ति गदितुं शब्दस्य विध्वंसिताम् ।
अन्ते हि क्षयदर्शनात् किल तथा तेषां भ्रमो ऽस्मिन्पुनः
शब्देनान्तपरिच्छित्ताविति कथं कुम्भादिवद्भङ्गिता ॥
शब्दानित्यत्वखण्डनोपक्रमः ।
अत्र ब्रूमहे—न खलु भवदभिहितमेतत्प्रमाणद्वयमपि शब्दनित्यतां प्रसाध-
यितुमर्हति, यावता यदर्थापत्तिर्वादि दर्शनस्य परार्थत्वादिति सा क्षीणैवार्थप्र-
तीतेरन्यथा ऽप्युपपन्नत्वात् , तत्र सादृश्यमप्यनभ्युपगतमेव दूषितमित्यस्थाने
क्लिष्टा भवन्तः ।
गत्वादिजातीराश्रित्य सम्बन्धग्रहणादिकः ।
अर्थावगतिपर्यन्तो व्यवहारः प्रसेत्स्यति ॥
ननु गत्वं प्रतिक्षिप्तमेतदेव परीक्ष्यताम् ।
अस्मिन्समाप्यते वादो मर्मस्थानमिदं च नः ॥
प्रतिक्षिप्ते च गत्वादौ नार्थसम्प्रत्ययो ऽन्यथा ।
प्रत्यभिज्ञानभूमिश्च नान्या ऽस्तीति वयं जिताः ॥
सिद्धे तु गत्वसामान्ये तत एवार्थवेदनम् ।
तदेव प्रत्यभिज्ञेयमिति यूयं पराजिताः ॥
तेनान्यत्सर्वमुत्सृज्य वादस्थानकडम्बरम् ।
गत्वादिजातिसिद्धयर्थमथातः प्रयतामहे ॥
प्रत्यभिज्ञोपपादकगत्वादिजातिसमर्थनाय वर्णभेदोपपादनम् ।
तत्रेदं विचार्यताम्—य एव गकारभेदप्रतिभासः स किं व्यञ्जकभेदकृत
उत वर्णभेदविषय इति, व्यञ्जकभेदकृते तस्मिन्नेकत्वाद्गकारस्य किंवृत्ति
गत्वसामान्यं स्यात् , वर्णभेदविषयत्वे तु तद्भेदसिद्धेरभेदप्रत्ययस्य विषयो मृग
अथ मनुषे यरलवादीनामितरेतरविभक्तस्वरूपप्रतिभासात् शुकसारिकाम-
नुष्येषु हि वक्तृभेदे सति व्यञ्जकनानात्वसम्भावनया वर्णभेदप्रत्ययस्य वक्तृतत्वं
काममाशङ्क्येतापि वक्त्रेकत्वे तु गगनादौ कुतस्तत्कृतो भेदः ।
ननु तत्रापि मरुतो भिन्ना एव व्यञ्जकाः मुखं त्वेकं भवतु किं तेन तदपि
वा भिन्नमित्येके, उच्यते स तर्हि मरुतां भेदो यरलवादिष्वपि तुल्य इति मा
भूत्तेषामपि भेदः ।
ननु यरलवानां विशेषप्रतीतिरस्ति गकारे तु सा नास्तीत्युक्तं उच्चारणस्यैव
तत्र भेदो नोचार्यस्येति, नैतत्सारम् , मा भूदेष विशेष इति प्रतीतिर्भेदबुद्धिस्तु
विद्यते एव, अन्या च विशेषबुद्धिरुच्यते अन्या च भेदबुद्धिरिति, विशेषाप्रति-
भासे ऽपि क चिद्विच्छेदप्रतीतिदर्शनात् ।
नन्वत्रोच्यते—
दृश्यते शाबलेयादिव्यक्त्यन्तरविलक्षणा ।
बाहुलेयादिगोव्यक्तिस्तेन भेदो ऽस्ति वास्तवः ॥
न तु द्रुतादिभेदेन निष्पन्ना सम्प्रतीयते ।
गव्यक्त्यन्तरविच्छिन्ना गव्यक्तिरपरा स्फुटा ॥
इति नैतद्युक्तम् , शाबलेयादौ प्रतिव्यक्ति सास्नाखुरककुदाद्यवयववर्त्तिनो
विशेषाः प्रतिभासन्ते ते च स्थूलत्वात्सुगमा भवन्ति, यत्र तु तिलतण्डुलकुलत्था-
दौ प्रतिसिक्थं विशेषा न प्रतिभासन्ते तत्र विशेषप्रतीत्यभावे ऽपि विच्छेदप्रति-
भासो विद्यते एव सिक्थात् सिक्थान्तरत्वेन प्रतिभासात् , एवमिहाप्येष गकार-
विशेष इति प्रतिभासाभावे ऽपि विच्छेदग्रहणाद् गकारनानात्वम् ,
ननु तण्डुलादावपि सिक्थात्सिक्थान्तरे विशेषाः प्रतिभासन्ते एव तद्-
प्रतिभासे भेदस्यापि ग्रहीतुमशक्यत्वात् , मैवं वादीः-यत्ने सति चतुरश्रत्रिको-
णवर्त्तुलत्वादिविशेषा अप्यमुत्र प्रतिभासिष्यन्ते, प्रयत्नं विना ऽपि तु प्रथमाक्ष-
निपात एव विच्छेदबुद्धिरुत्पद्यते इति तयैव नानात्वसिद्धिः ।
ननु नैवानधिगतविशेषस्य विच्छेदबुद्धिरुत्पत्तुमर्हति इति विशेषबुद्धिरेव
विच्छेदबुद्धिः, नैतदेवम्, भ्रमणादिकर्मक्षणानां सूक्ष्मविशेषाप्रतिभासे ऽपि
विच्छेदप्रतिभासात्, ननु तत्रापि विशेषग्रहणं कल्प्यते अन्यथा विच्छेदप्रतीत्य-
नुपपत्तेः, यद्येवं वर्णेष्वपि गगनादौ विच्छेदप्रतीतिदर्शनात्कल्प्यतां विशेष-
ग्रहणम्, नन्वस्त्येव तत् किं त्वौपाधिकः स्फटिके रक्तताप्रत्ययवत् , विष-
मो दृष्टान्तः स्फटिकस्य शुद्धस्य दृष्टत्वाल्लाक्षाद्युपाधिनिमित्तको रक्तताप्रत्ययः
वर्णानां तु नित्यमेवोदात्तादिविशेषवतां प्रतिभासात्तद्रहितानामनुपलब्धेश्च नैस-
र्गिक एवायं भेदः, तथा बुद्धीनां घटपटादिविषयविशेषशून्यानामसंवेदनात्प्रति-
विषयं नानात्वं तथा वर्णानामपि प्रत्युदात्तादिविशेषं नानात्वम् , न च बुद्धिरेकैव
२६ न्या०
१०२ न्यायमञ्जर्याम्
नित्या च विषयभेदोपाधिनिबन्धनस्तद्भेद इति साम्प्रतम्, स्वयमेव बुद्धिजन्म-
प्रत्यक्षमित्यभिधानात्, अस्माभिश्च बुद्धिनित्यताया उपरिष्टान्निराकरिष्यमाण-
त्वात्, विषयभेदाच्च तद्भेदाभिधाने विषयस्यापि कुत इदानीं भेदः, बुद्धिभेदादिति
चेद् इतरेतराश्रयप्रसङ्गः, तदिमाः स्वत एव भेदवत्यो बुद्धयः विषयाणामपि स्व-
त इव भेदो भवति स च बुद्धिभिर्ज्ञायते इत्यलमर्थान्तरगमनेन, यथा च शुक्ल-
गुणस्य भास्वरधूसरादिभेदवतो नानात्वं तथा वर्णस्याप्युदात्तादिभेदवतः, शुक्ल-
गुणो ऽप्येक एव आश्रयभेदात् तद्भेद इति चेद् अहो रससमारूढो भट्टः ।
कर्मैकं बुद्धिरप्येका जगत्येकस्सितो गुणः ।
तैश्च तन्नित्यमित्येताः स्त्रीगृहे कामुकोक्तयः ॥
अपि चैकात्मवादो ऽप्येवमेवावतरेत्सुखदुःखादिभेदस्य शरीरभेदेनाप्युप-
पत्तेः, अद्वैतस्य च नातिदवीयानेष पन्था इत्यलमलीकविकत्थनेन, तस्माद् बु-
द्ध्यादिवत्सर्वदा सविशेषाणामेव वर्णानां ग्रहणान्नानात्वम्, तत्रैतत्स्याद् गगना-
दावकारोपश्लेषकृत एव भेदप्रत्ययो न स्वरूपभेद इति, तदयुक्तम्, अकारस्या-
पि भवन्मते भेदाभावात्, अविद्यमाने च तदुपश्लेषे दिगजो दिग्गज इति भे-
देन प्रतिभासो भवत्येव, तथा च समदः सम्मदः पटः पट्टः आसनम् आसन्नं
मलः मल्लः अविकः अविक्कः पतिः पत्तिः पतनं पत्तनमित्यादावपि वर्णभेदप्रती-
तिः, अर्थप्रतीतिभेदो ऽपि च दिगजदिग्गजादौ शब्दान्तरनिमित्तको भवि-
तुमर्हति न द्विरुच्चारणकृतः, ग्रन्थाधिक्यादर्थाधिक्यं नोच्चारणभेदात्, शतकृत्वो
ऽपि प्रयुक्ते गोशब्दे सास्नादिमदर्थव्यतिरिक्तवाच्यसंप्रत्ययाभावात्, तथा च
दिग्गज इति द्विगकारको निर्देश इत्याचक्षते शब्दविदो न द्विर्गकार उच्चारित इति।
ननु गोगुरुगिरिगेहादावज्भेदे ऽपि गकारप्रत्ययानुवृत्तेरेक एवायं गकारः,
मैवं वोचः, एष एव हि भेदप्रत्ययो ऽस्माभिरुपदर्शितः, विना ऽपि च अजुप-
श्लेषं दिग्गजादौ भेदप्रत्ययो वर्णितः, न च वयमभेदप्रत्ययमपह्नुमहे किं तु भे-
दप्रत्ययस्याप्यबाधितस्य भावादनन्यथासिद्धत्वाच्च गवादिवत्सामान्यविशेषरूपतां
ब्रूमः, व्यञ्जकभेदनिबन्धनत्वं तु यरलवादावपि वक्तुं शक्यमित्युक्तमेव ।
अपि च शाबलेयादिभेदप्रत्ययस्यापि व्यञ्जकभेदनिबन्धनत्वादेक एवासौ
स्यात् ।
ननु तत्र को व्यञ्जको यद्भेदकृतः पिण्डभेदप्रत्यय इष्यते, आह च—
न पिण्डव्यतिरेकेण व्यञ्जको ऽत्र ध्वनिर्यथा ।
पिण्डव्यङ्ग्यैव गोत्वादौ जातिर्नित्यं प्रतीयते(१) इति ॥
( १ ) श्लोकवार्तिके स्फोटग्रन्थे श्लो० ३६ । अत्र शब्दे यथा शब्दव्यतिरेकेण
व्यञ्जको ध्वनिर्वर्तते इति तद्भेदकृत एव शब्दभेदव्यवहारस्तथा गवादौ पिण्डव्यतिरे-
तदयुक्तम्, गोत्वजातेर्गववदिदानीं विवादास्पदीभूतत्वात् पिण्डभेदप्रत्य-
क्षस्य चक्षुर्व्यापारभेदादप्युपपत्तेः ।
ननु सकृदपि व्यापृतलोचनस्य परस्परविभक्तपिण्डप्रतिभासो भवति, मै-
वम्, तदानीं गोमात्रप्रतीतिरेष शाबलेय एष बाहुलेय इति तु विशेषग्रहणे चक्षु-
र्व्यापारभेदो ऽपरिहार्यः, यदि चाद्यगोपिण्डभेदे प्रथमाक्षसन्निपातजा बुद्धिः सुभ-
गतां गता गकारभेदे तर्हि किंकृतमस्या दौर्भाग्यम्, तत्रापि प्रथमश्रोत्रव्यापारवे-
लायामनवगतव्यञ्जकविभागस्यापि गगनगङ्गादौ गकारभेदः प्रतिभासते एवेत्य-
लं प्रसङ्गेन ।
गत्वादिजातिसमर्थनम्—
तदयं वस्तुसंक्षेपः, उपेद्यतां वा सर्वत्र सामान्यविशेषव्यवहारः, इष्यतां वा
गोत्वादिवद्गकारभेदवृत्ति गत्वसामान्यम् ।
अत्वमपि गत्ववदप्रत्याख्येयम् इतरेतरविलक्षणानामकाराणां ह्रस्वदीर्घ-
प्लुतादिभेदेन प्रतिभासात्, यः पुनरकारेऽप्यकारप्रत्यभिज्ञानं ब्रूयात्तस्येकारो-
कारप्रतीतिष्वप्यकारस्यैव ग्रहणप्रसक्तिरवूत्वाविशेषात्, अथ तद्विशेषे ऽपि
अवर्णादिवर्णस्य भेद इष्यते स तर्ह्याकारस्य न निह्नोतव्यः, एवं च सत्यरणयार-
णयशब्दभ्यां भिन्नार्थप्रतीतिरूपपत्स्यते, उदात्तानुदात्तस्वरितसंवृतविवृतादिभेदे।
ऽपि शब्दविदां प्रत्यक्ष एव गीतज्ञानामिव स्वरग्रामभाषाविभागः, तस्मादष्टाद-
शभेदमकारमाचक्षते, अत्वं च तत्सामान्यमवर्णकुलशब्देन व्यवहरन्तीति
प्रतिपद्यन्ते लोका न मरुद्भूयः, अथ मरुतामपि तथा व्युत्पत्तेरर्थप्रतीतिहेतुत्वं
तर्हि व्युत्पत्तिरेव प्रमाणं स्याद् न शब्दः, व्युत्पत्तेरव्यभिचारात् शब्दस्य च
व्यभिचारादित्यास्तामेतत् ।
तस्माद्गत्वादिसामान्यैरर्थसंप्रत्ययात्मनः ।
कार्यस्य परिनिष्पत्तेर्न वर्णव्यक्तिनित्यता ॥
अपर आह, तिष्ठतु तावद् दूरत एव गत्वाद्यपरसामान्यं महासामान्यमपि
शब्दत्वं वर्णेषु नोपपद्यते ।
व्यक्त्यन्तरानुसंधानं यत्रैकव्यक्तिदर्शने ।
तत्रैकरूपसामान्यमिष्यते तत्कृतं च तत् ॥
गकारश्रुतिवेलायां न वकारामर्शनम् ।
बाहुलेयपरामर्शः शाबलेयग्रहे यथा ॥
केण व्यञ्जकः नास्ति इति कि भेदकृतः पिण्डभेदव्यवहारः स्यात् तथा च प्रत्यभि-
ज्ञावशात बावलेयादिषु गोत्वादिसामान्यमभ्युपगन्तव्यं गत्वादिसामान्ये तु माना-
भाव इत्यर्थः ।
शब्दः शब्दो ऽयमित्येवं प्रतीतिस्त्वप्रयोजिका ।
एषा हि श्रोत्रगम्यत्वमुपाधिमनुरुध्यते ॥
तदेतन्निरनुसंधानस्याभिधानम्, अनुसंधानप्रत्ययस्य सामान्यसिद्धावप्रयो-
जकत्वात्, अनुसंधानं हि सारूप्याद्विजातीयेष्वपि भवति गवयग्रहणसमये गो-
पिण्डानुसंधानवत्, तस्मादबाधितैकरूपप्रत्ययप्रतिष्ठ एव सामान्यव्यवहारः ।
समानबुद्धिग्राह्ये ऽपि सामान्ये ऽवस्थिते क चित् ।
भवत्यस्यानुसंधानं क चिद्वा न भवत्यपि ॥
तदस्ति खण्डमुण्डादौ पिण्डसारूप्यकारितम् ।
गकारादिषु वर्णेषु तदभावात्तु नास्ति तत् ॥
न तु सामान्याभावात् , न च सारूप्यमेव सामान्यं साङ्ख्यवदभिधातुं युक्तं
विजातीयेष्वपि गोगवयादिषु तस्य दृष्टत्वात्, यदि च शब्दः शब्द इत्यनुवृत्तबुद्धेः
श्रोत्रगम्यत्वोपाधिकृतत्वमुच्यते तर्हि गवादामध्ये
प्रमाणप्रकरणम् २०५
तद्भेदे ऽपि दर्शनात् , अथ तत्र स्त्रीपुंसयोरभेदे चुम्बनादिक्रियामात्रभेद
एवेत्युच्यते तथा ऽप्यपूर्वेषु ब्राह्मणेषु भुक्तवत्सु पञ्चकृत्वो ब्राह्मणा भुक्तवन्त
इति व्यवहारो दृश्यते ।
कविना सदनुप्रासे निबद्धे ऽक्षरडम्बरे ।
गकारा बहवो दृष्टा इति व्यवहरन्ति हि ॥
यदपि प्रत्यभिज्ञानं तद्द्वारकमुदाहृतम् ।
तस्यापि सिद्धे प्रामाण्ये जात्यालम्बनता भवेत् ॥
नृत्ताभिनयचेष्टादिप्रत्यभिज्ञानतो वयम् ।
विशेषं प्रत्यभिज्ञाने न पश्यामो मनागपि ॥
शब्दस्य प्रत्यभिज्ञानवेलायामेव दृश्यते ।
शब्दरूपस्य विध्वंस इति तन्नित्यता कुतः ॥
यद्यपि च क्षणभङ्गभङ्गे प्रत्यभिज्ञाप्रामाण्यमस्माभिरपि समर्थयिष्यते तथा
ऽपि स्तम्भादिप्रत्यभिज्ञायाः शब्दप्रत्यभिज्ञाया एष एव विशेषः यदत्र ध्वस्तः
शब्द इति तदैव प्रत्ययो जायते अत एव तिरोहिते ऽपि भावादियमप्रमाणं
प्रत्यभिज्ञेत्याहुः ।
यद्यपि ध्रियते ऽस्माकं शब्दो द्वित्रानपि क्षणान् ।
प्रत्यभिज्ञा तु कालेन तावता नावकल्पते ॥
तथा हि शब्द उत्पद्यते तावत्ततः स्वविषयं ज्ञानं जनयति अजनकस्य प्र-
तिभासायोगात् ततस्तेन ज्ञानेन शब्दो गृह्यते ततः संस्कारबोधः ततः पूर्वज्ञात-
शब्दस्मरणं ततस्तत्सचिवं श्रोत्रं मनो वा शब्दप्रत्यभिज्ञानं जनयिष्यति तथा
शब्दो ग्रहीष्यते इतीयत्कृत्वो ऽस्य दीर्घमायुः, प्रत्यभिज्ञाप्रामाण्यादेव तावदायु-
स्तस्य कल्प्यते इति चेत्सत्यं कल्प्येत यदि विनाशप्रत्ययस्तदैव न स्यात् , अपि
च गोशब्दो ऽयमश्वशब्दो ऽयमिति तदभिधानविशेषोल्लेखात् ।
नानानुस्मरणं तस्य तदैवावश्यमापतेत् ।
विज्ञानयौगपद्याच्च कालो दीर्घतरो भवेत् ॥
यदप्युदितमुद्दाममेघश्यामासु रात्रिषु ।
साम्यं सौदामिनीधामजन्यया प्रत्यभिज्ञया ॥
तदसत्कालदैर्घ्येण तदवस्थितिसम्भवात् ।
विद्युद्दृष्टे च वृक्षादौ नाशसंविद्यसम्भवात् ॥
प्रत्यभिज्ञा नाम स्मर्यमाणानुभूयमानसामानाधिकरण्यग्राहिणी संस्कारस-
चिवेन्द्रियजन्या प्रतीतिरिति के चित् ।
अन्ये मन्यन्ते स्मर्यमाणपूर्वज्ञानविशेषितार्थग्राहित्वात्प्रत्यभिज्ञायास्तद्विशे-
षणस्य चार्थस्य बाह्येन्द्रियग्राह्यत्वानुपपत्तेः स्तम्भादावपि मानसी प्रत्यभिज्ञेति ।
२०६ न्यायमञ्जर्याम्
निर्बन्धस्त्विह नास्माकं सा यथा ऽस्तु तथास्तु वा ।
शब्दे विनाशज्ञानात्तु न सा नित्यत्वसाधिका ॥
बाध्यबाधकभावे तु नियमो ननु किंकृतः ।
शब्दस्य प्रत्यभिज्ञानविनाशप्रतिभासयोः ॥
उच्यते प्रत्यभिज्ञानमन्यथा ऽप्युपपद्यते ।
गत्वादिजातिविषयं यद्वा सादृश्यहेतुकम् ॥
न त्वभिव्यञ्जकध्वंसान्नाशाधीरपि सेत्स्यति ।
तदसावपि बाध्या ऽस्तु यद्वा भवतु संशयः ॥
मैवं विनाशिताबुद्धिर्भेदबुद्ध्युपबृंहिता ।
सा चेयं चान्यथासिद्धे इति वक्तुमसाम्प्रतम् ॥
प्रत्यभिज्ञा च सापेक्षा निरपेक्षा त्वभावधीः ।
तेनैवमादौ विषये प्रत्यभिज्ञैव बाध्यते ॥
शब्दाभावस्य ग्रहणात्प्रत्यभिज्ञायाश्च पूर्वानुसन्धानादिसव्यपेक्षत्वात् , अपि
च प्रत्यभिज्ञा व्यभिचरति कर्मादिषु गृह्यते तेनास्यां शब्दे ऽप्यभावप्रत्ययोपह-
तवपुषि कः समाश्वासः, न चेदं प्रत्यक्षे ऽप्यनैकान्तिकत्वोद्भावनम् अपि तु
विनाशप्रत्ययप्रतिहतप्रभावा प्रत्यभिज्ञा नित्यत्वं कर्मादिष्विव शब्देपि न साध-
यितुं प्रभवति इति दृष्टान्तस्य को ऽवसरः, सत्यम् ग्राहिकास्तु भवादृशाः स्व-
यमनवबुध्यमाना एवं बुद्ध्यन्ते ।
यत्तु प्रवृद्धरभसतया बुद्धिकर्मादावपि नित्यत्वसमर्थनं तदत्यन्तमलौकिक-
मित्युकम् ।
किं नाम शब्दनित्यत्वसमर्थनतृषातुरः ।
जङ्गमं स्थावरं चैव सकलं पातुमिच्छसि ॥
तस्मादलमतिरभसप्रवृत्ताभिराभिर्बुद्धिकर्मादिनित्यत्वसमर्थनकथाभिः ।
शब्दाभिव्यक्तिपक्षखण्डनम्
यत्पुनरभिव्यक्तिपक्षे शब्दस्य ग्रहणे नियमाभावमाशङ्क्य श्रोत्रसंस्कारेण
विषयसंस्कारेणोभयसंस्कारेण वा नियतं ग्रहणमुपवर्णितं तद्वञ्चनामात्त्रम्, समान-
देशानां समानेन्द्रियग्राह्याणां प्रतिनियतव्यञ्जकव्यङ्ग्यत्वादर्शनात् , ये पुनरत्र
गन्धा उदाहृताः ते समानेन्द्रियग्राह्या भवन्ति न समानदेशाः ।
एकभूम्याश्रितत्वेन तुल्यदेशत्वकल्पने ।
भवेत्समानदेशत्वं हिमवद्विन्ध्ययोरपि ॥
एकत्वे ऽपि भुवो भान्ति पदार्थाः पार्थिवाः पृथक् ।
व्यज्यन्ते तदधिष्ठाना गन्धास्तैस्तैर्निबन्धनैः ॥
भवन्त्वनाश्रिताः शब्दा यदि वा ऽऽकाशसंश्रिताः ।
सर्वथा भिन्नदेशत्वमेषां वक्तुं न शक्यते ॥
ननु यथैकत्वे ऽपि नभसः तद्भागकल्पनया प्रतिपुरुषं श्रोत्रेन्द्रियभेदः एवं
तद्भागकल्पनयैव शब्दानापि असमानदेशत्वान्नियतव्यञ्जकव्यङ्ग्यता भविष्यति
नैवमुपपद्यते यत्रैव वक्तृमुखाकाशदेशे श्रोतृश्रोत्राकाशदेशे वा गोशब्द उपलब्धः
तत्रैवाश्वशब्द इदानीमुपलभ्यते न पुनरतिमुक्तकुसुमे य उपलब्धो गन्धः स
बन्धूके मधूके वा कदा चिदुपलभ्यते इति ।
तस्मात्समानदेशत्वान्न व्यक्तौ नियमो भवेत् ।
उत्पत्तौ तु व्यवस्थायां तद्भेद उपपद्यते ॥
नादैः संस्क्रियतां शब्दः श्रोत्रं वा द्वयमेव वा ।
सर्वथा नियमो नास्ति व्यञ्जकेष्विति निश्चयः ॥
व्यवस्था व्यञ्जकानां चेदुच्यते ऽदृष्टकारिता ।
उत्पत्तौ दृश्यमानायां दृष्टमप्यविरोधकम् ॥
न च स्तिमितमारुतापनयनव्यतिरिक्तः कश्चन श्रोत्रसंस्कारो विद्यते, तत्र
चातिप्रसङ्ग उक्त एवातिरिक्तसंस्कारकल्पनायां त्वदृष्टकल्पना, स्थिरे च शब्दसं-
स्कारग्रहणमिति पुनरनभिव्यक्तस्यापि गोशब्दस्य श्रवणं स्यात्, तद्ग्रहणहेतोः
संस्कारस्य स्थिरत्वात्, तत्तक्षणिकत्वे तु शब्दक्षणिकतैव साध्वी प्रतीयमानत्वात्।
यत्तु भर्तृमित्रस्तमेव संस्कारं श्रोत्रेन्द्रियमभ्युपैति तदिदमपूर्वकं किमपि
पाण्डित्यम्, इन्द्रियस्य हि संस्कार्यस्य कल्पनमनुपपन्नम्, अनष्टनरत्वे तु
शश्वदेव शब्दकोलाहलप्रसङ्ग इति यत्किं चिदेतत्, भट्टेनैव सोपहासमेष दूषितः
पक्ष इति किमत्र विमर्देन ।
यदपि भट्ट आह—
यदि त्ववश्यं वक्तव्यस्तार्किकोक्तिविपर्ययः ।
ततो वेदानुसारेण कार्या दिक्श्रोत्रतामतिरिति(१) ॥
तदप्यसांप्रतम्—
दिशां कार्यान्तराक्षेपादागमान्यपरत्वतः ।
आहोपुरुषिकामात्रं दिगद्रव्यश्रोत्रकल्पनम् ॥
इन्द्रियाणां भौतिकत्वस्य साधयिष्यमाणत्वादिशश्चामूर्तत्वान्नेन्द्रियप्रकृति-
त्वं व्यापकत्वाविशेषे वा कालात्मनोरपि तथाभावप्रसङ्गः, तयोरन्यत्र व्यापार-
कत्वान्नेन्द्रियप्रकृतित्वमिति चेद् दिगद्रव्ये ऽपि तुल्यमेतत्, आगमस्त्वन्यपर एव,
( १ ) श्लोकवार्तिके शब्दाधिकरणे श्लो० १६० । अधिगुप्रैषे संज्ञप्यमानस्य
पशोरङ्गानां प्रकृतौ लयः सूर्य चक्षुर्गमयतादित्यादिना उक्तस्तत्रैव 'दिशः श्रोत्रम्' इति
श्रोत्रस्य दिशि लयः प्रतिपादित इतिवेदानुसारेण दिश एव श्रोत्रत्वं नाकाशस्येत्यर्थः ।
यहाँ प्रस्तुत पृष्ठ का देवनागरी में अक्षरशः लिप्यन्तरण (लाइन-दर-लाइन) है:
२०८ न्यायमञ्जर्याम्
यथा हि सूर्यं चक्षुर्गमयताद् दिशः श्रोत्रमिति पठ्यते एवमन्तरिक्षमसूनीति च
पठ्यते एव, न चासवो ऽन्तरिक्षप्रकृतिकाः पवनात्मकत्वात् , तस्मात्कृतं दिशा।
आकाशदेश एव कर्णशष्कुल्यवच्छिन्नः शब्दनिमित्तोपभोगप्रापकधर्माधर्मोप-
निबद्धः श्रोत्रमित्युक्तम् ।
ननु धर्माधर्मकृतश्रोत्रनियमवदभिव्यक्तिनियमो ऽपि शब्दस्य तत्कृत एव
भविष्यति किमिति तदनियमो नित्यत्वपक्षे चोद्यते इति, नैतद्युक्तम् , चक्षुरा-
दीन्द्रियाणां वैकल्यमदृष्टनिबन्धनमन्धकारप्रभृतिषु दृश्यते न पुनः पदार्थस्थि-
तिरदृष्टवशाद्विपरिवर्त्तते, व्यञ्जकधर्मातिक्रमे हि हिममपि शैत्यं स्वधर्ममति-
क्रामेत् , व्यञ्जकेषु नियमो न दृष्ट इत्युक्तम् , दृष्टे च वर्णभेदे नियतोपलब्धिहे-
तौ सम्भवति सति किमयमदृष्टमस्तके भार आरोप्यते, कथं चाभिव्यक्तिपक्षे
तीव्रमन्दविभागः, तीव्रतादयो हि वर्णधर्मा वा स्युः ध्वनिधर्मा वा वर्णधर्मत्वे
तीव्रगकारादन्यत्वं मन्दस्येत्यस्मन्मतानुप्रवेशः ।
ध्वनिधर्मत्वपक्षे तु श्रोत्रेण ग्रहणं कथम् ।
न हि वायुगतो वेगः श्रवणेनोपलभ्यते ॥
यत्तु व्यक्तिधर्माः कृशत्वस्थूलत्वादयो जातावुपलभ्यन्ते इति दर्शितं तत्का-
ममुपपद्येतापि जातेर्व्यक्तेस्तद्धर्माणां च समानेन्द्रियग्राह्यत्वात् ।
इह तु स्पर्शनग्राह्यः पवनो ऽतीन्द्रियो ऽथ वा ।
तद्धर्माः श्रावणे शब्दे गृह्यन्त इति विस्मयः ॥
यत्तु बुद्धिरेव तीव्रमन्दवतीति तदतीव सुभाषितम् , असति विषयभेदे बु-
द्धिभेदानुपपत्तेः ।
किं च नित्यपरोक्षा ते बुद्धिरेवं च नादवत् ।
तद्ग्रहान्न तीव्रादितद्धर्मग्रहसम्भवः ॥
अहो तीव्रादयस्तोत्रे प्रपाते पतिता अमी ।
यो गृह्यते न तद्धर्मा यद्धर्माः स न गृह्यते ॥
यश्चाभिभववृत्तान्तस्त्वन्मते मरुतामसौ ।
अनिले चाभिभूते ऽपि शब्दो न श्रूयते कथम् ॥
दीपे ऽभिभूते रविणा न हि रूपं न गृह्यते ।
नियतव्यञ्जकत्वं तु प्रतिक्षिप्तमदर्शनात् ॥
यत्तु शङ्खादिशब्दानां श्रोत्रग्राह्यत्वसिद्धये ।
शब्दत्वं तत्र तद्ग्राह्यमित्यवादि तदप्यसत् ॥
सत्यं वदत दृष्टं वा श्रुतं वा क्व चिदीदृशम् ।
आश्रयस्य परोक्षत्वे तत्सामान्योपलम्भनम् ॥
प्रमाणप्रकरणम् २०९
शब्दो न ते ऽस्त्य(स्ति)वर्णात्मा न शङ्खो(ब्दो)वर्णसम्भवः ।
न नादवृत्ति शब्दत्वमिति तद्ग्रहणं कथम् ॥
अभिव्यङ्ग्यशब्दपक्षापेक्षया कार्यशब्दपक्षे लाघवम् ।
यत्पुनरिदं सन्धारितं व्यञ्जककार्यपक्षयोः क शब्दग्रहणे गुर्वी कल्पना भ-
वति क वा लघ्वीति तदपि मौलप्रमाणविचारसापेक्षत्वादप्रयोजकम् ।
यदि मौलप्रमाणेन साधिता नित्यशब्दता ।
त्वदुक्ता कल्पना साध्वा मदुक्ता तु विपर्यये ॥
कोष्ठ्येन च बहिः प्रसरता समीरणेन सर्वतः स्तिमितमारुतापसरणं
क्रियते इत्येतदेव तावदलौकिकं कल्पितम् , “अग्नेरूर्ध्वज्वलनं वायोस्तिर्यग्ग-
मनमणुमनसोश्चाद्यं कर्मेत्यदृष्टकारितानि”इति(१) मरुतां तिर्यग्गमनस्वभावत्वा-
दूर्ध्वमधश्च शब्दश्रवणं न भवेत् ।
यावन्न वेगेना
२१० न्यायमञ्जर्याम्
ते देशान्तरे ऽपि सैव कार्यमारभते पथि गच्छतो देवदत्तादेरेकस्मादात्मप्रदेशा-
त्प्रदेशान्तरे बुद्ध्युत्पाददर्शनात् , कार्यारम्भविरतिरपि भवति अदृष्टाधीनसंस्-
र्गाणां सहकारिणामनवस्थानात् ।
तीव्रेणापि शनैरेवमतीव्रारम्भसम्भवः ।
सीदत्सचिवसामर्थ्यसापेक्षक्षीणवृत्तिना ॥
वीचीसंतानदृष्टान्तः किं चित्साम्यादुदाहृतः ।
न तु वेगादिसामर्थ्यं शब्दानाम्स्त्यपामिव ॥
यत्तु कुड्यादिव्यवधाने किमिति विरमति शब्दसन्तानारम्भ इति, नैष दो-
षः, निरावरणस्य हि व्योम्नः शब्दारम्भे समवायिकारणत्वं तथा दर्शनात्क-
ल्प्यते नाकाशमात्रस्येति ।
शब्दस्य गुणत्वसाधनम् ।
यदपि गुणत्वमसिद्धं शब्दस्येति तत्र के चिदाश्रितत्वाद् गुणत्वमाचक्षते,
तदयुक्तम्—
आश्रितत्वं गुणत्वे हि न प्रयोजकमिष्यते ।
षण्णामपि पदार्थानामाश्रितत्वस्य सम्भवात् ॥
दिक्कालपरमाण्वादिनित्यद्रव्यव्यतिरेकिणः ।
आश्रिताःषडपीष्यन्ते पदार्थाः कणभोजिना ॥
न च व्योमाश्रितत्वमपि शब्दस्य प्रत्यक्षम्प्रत्यक्षे नभसि तदाश्रितत्वस्या-
प्यप्रत्यक्षत्वात् ।
कथमाधारपारोक्ष्ये शब्दाप्रत्यक्षतेति चेत् ।
यथैवात्मपरोक्षत्वे बुद्ध्यादेरुपलम्भनम् ॥
एतदेवासिद्धमिति चेद् अलं वादान्तरगमनेन उपरिष्टान्निर्णेष्यमाणत्वात्,
किमेतर्हि शब्दस्य गुणत्वे प्रमाणं परिशेषानुमानमिति ब्रूमः, प्रसक्तयोर्द्रव्यक-
र्मणोः प्रतिषेधे सामान्यादावप्रसङ्गाच्च गुण एवावशिष्यते शब्दः, कथं पुनः न
द्रव्यं शब्दः एकद्रव्यत्वात् , अद्रव्यं वा भवति द्रव्यम् आकाशपरमाण्वादि
अनेकद्रव्यं वा द्यणुकादि कार्यद्रव्यम, एकद्रव्यं तु शब्दः एकाकाशाश्रित-
त्वात् तस्मान्न द्रव्यम् , नापि कर्मशब्दः शब्दान्तरजनकत्वात् , कर्मणो हि स-
मानजात्यारम्भकत्वं नास्ति सत्ताशब्दत्वादिसामान्यसम्बन्धाच्च सामान्यादित्र-
यप्रसङ्गो ऽस्य नास्तीति परिशेष्याद् गुण एव शब्दः ।
ननु गुणत्वासिद्धौ सत्यामाकाशाश्रितत्वं शब्दस्य भविष्यति गुणस्य द्रव्या-
नाश्रितस्यादर्शनात् पृथिव्यादीनां च शब्दाश्रयत्वानुपपत्तेः, ततश्च गुणत्वे साध्ये-
कद्रव्यत्वम् एकद्रव्यत्वे सति गुणत्वमितीतरेतराश्रयत्वम् , तथा च समानजा-
तीयारम्भकत्वमपि गुणत्वसिद्धिमूलमेव, गुणत्वे सति शब्दस्याकाशाश्रितत्वा-
त्तदात्मकेन श्रोत्रेण ग्रहणं तच्च देशान्तरगतसंयोगविभागप्रभवस्य शब्दस्य
सन्तानमन्तरेण श्रोत्रदेशप्राप्त्यभावान्न सिद्धयतीति गुणत्वसिद्धिमूला सन्तान-
कल्पना सन्तानकल्पनायां च समानजात्यारम्भकत्वात्कर्मव्यवच्छेदे सति गुण-
त्वसिद्धिरितीतरेतराश्रयत्वमेव,
उच्यते, नोभयत्राप्येष दोषः श्रोत्रग्राह्यत्वादेव शब्दस्याकाशाश्रितत्वं
कल्प्यते समानजातीयारम्भकत्वं च गुणत्वात् , आकाशैकदेशो हि श्रोत्रमिति
प्रसाधितमेतत् , प्राप्यकारित्वं चेन्द्रियाणां वक्ष्यते, न चाकाशानाश्रितत्वे शब्दस्य
श्रोत्रेण प्राप्तिर्भवति न चाप्राप्तस्य ग्रहणमिति तदाश्रितत्वं कल्प्यते, एवं समा-
नजातीयारम्भकत्वमपि तत एव श्रावणत्वात् दूरवर्त्तिनः शब्दस्य श्रवणे
सति कल्प्यते न तु गुणत्वादिति नेतरेतराश्रयत्वम्, कार्यत्वादाकाशाश्रितत्वं
कल्प्यते इत्येके।
ननु कार्यत्वादप्याकाशाश्रितत्वकल्पनायां तदवस्थमेवेतरेतराश्रयं कार्यत्वा-
दाकाशाश्रितत्वमाकाशाश्रितत्वे सति नियतग्रहणपूर्वपूर्वरीत्या कार्यत्वमिति,
नैतदेवम् , भेदविनाशप्रतिभासाभ्यामेव कार्यत्वसिद्धेः, किमर्थस्तर्हि नियतग्रह-
णसमर्थनायायमियान्प्रयासः क्रियते, नियतग्रहणमपि कार्यपक्षानुगुणमिति
दर्शयितुं न पुनरेषैव कार्यत्वे युक्तिरित्यलं सूक्ष्मैक्षिकया !
अपर आह परिस्पन्दविलक्षणस्य प्रत्यक्षत्वादकर्मत्वं शब्दस्य साध्यते न
समानजात्यारम्भकत्वादितीतरेतराश्रयस्पर्शाऽपि नास्तीति, तस्मात्सर्वथा परि-
शेषानुमानाच्छब्दस्य गुणत्वसिद्धिः, कथं तर्ह्यस्य महत्त्वादियोगो निर्गुणा गुणा
इति काणादाः, अस्ति हि प्रतीतिर्महान् शब्द इति, समानजातीयगुणाभिप्रायं
तत्कणादवचनमिति न दोषः, तस्मादाकाशगुणः, शब्दः । अपि च—
यथा ऽऽत्मगुणता होच्छाद्वेषादेरुपपत्स्यते ।
शब्दो नयेन तेनैव भविष्यति नभोगुणः ॥
ये तु समानजातीयशब्दारम्भकत्वनिषेधहेतवः शब्दत्वादित्यादयः परैरुप-
न्यस्ताः तेषामप्रयोजकत्वान्न साधनत्वम् ।
इत्थं सन्तानवृत्त्या च शब्दग्रहणसम्भवे ।
कल्पना ऽल्पतरा ऽस्माकं न शब्दव्यक्तिवादिनाम् ॥
शाक्यकापिलनिर्गन्थप्रथितप्रक्रियाम्प्रति ।
यत्तु दूषणमाख्यातमस्माकं प्रियमेव तत् ॥
तस्मात्कार्यपक्षे नियतग्रहणोपपत्तेः अभिव्यक्तिपक्षे च तदभावात्कार्य एव
शब्द इति स्थितम्, तदिदमुक्तं सूत्रकृता ‘आदिमत्त्वादैन्द्रियकत्वात्कृतकवदुप-
Here is the complete and line-by-line transcription of the Sanskrit page in clean Markdown format with Devanagari script:
२१२ न्यायमञ्जर्याम्
चाराच्चानित्यः शब्द' इति(१)। आदिमत्वादिति संयोगविभागादीनां शब्दे कार-
कत्वं न व्यञ्जकत्वमिति दर्शितम्, अतश्च न प्रयत्ननानन्तरीय कत्वमनकान्तिकम्,
ऐन्द्रियकत्वादिति, कार्यपक्ष एव शब्दस्य नियतं ग्रहणमित्युक्तम्, प्रतिपुरुषं
प्रत्युच्चारणं च शब्दभेदस्यैन्द्रियकत्वादिति वा हेत्वर्थः, तेन प्रत्यभिज्ञादुराशा
श्रोत्रियाणामपाकृता भवति, कृतकवदुपचारादिति तीव्रमन्दविभागाभिभवादि-
व्यवहारदर्शनात्सुखदुःखादिवदनित्यः शब्द इति दर्शितम्, तथा "प्रागुच्चा-
रणादनुपलब्धेः आवरणाद्यनुपलब्धेश्च" इत्यनेन(२) सूत्रेण शब्दाभावकृतमेव
तद्ग्रहणमिति, न हि स्तिमिता वायवः शब्दमावरीतुमर्हन्ति मूर्त्त हि मूर्त्तेन
व्यवधीयते नामूर्त्तमाकाशादिवत्, न च प्रकृत्यैवाकाशादिवदतीन्द्रियः शब्दः,
तस्मात्क्षणिकप्रतीतेस्तत्कालमेव शब्दस्यावस्थानमित्यस्थानहेतो(३)रपि नान्यथा-
सिद्धत्वम्, वार्त्तिककृता(४) शब्दानित्यत्वे साधनमभिहितम् अनित्यः शब्दो
जातिमत्वे सत्यस्मदादिबाह्यकरणप्रत्यक्षत्वाद् घटवदिति ।
यत्त्वत्र जातीनामपि जातिमत्त्वादनैकान्तिकत्वमुद्भावितम् 'एकार्थसमवायेन
जातिर्जातिमती यत' इति तदत्यन्तमनुपपन्नम्, निस्सामान्यानि सामान्यादीनीति
सुप्रसिद्धत्वात्, न हि घटे घटत्वपार्थिवत्वे स्त इति घटत्वसामान्ये ऽपि पार्थिवत्व
सामान्यमस्तीति शक्यते वक्तुम्, अतो निरवद्य एवायं हेतुः, तेन यदुच्यते-
जातिमत्त्वैन्द्रियकत्वादिवस्तुसन्मात्रबन्धनम् ।
शब्दानित्यत्वसिद्ध्यर्थं को वदेद्यो न तार्किक इति ॥
तदविदिततार्किकपरिपन्दस्य व्याहृतम्, इह त्वप्रयोजका हेतवो भवन्ति ।
ह्यस्तनोच्चारितस्तस्माद्गोशब्दो ऽद्यापि वर्त्तते ।
गोशब्दज्ञानगम्यत्वाद्यथोक्तो ऽद्यैष गौरिति(५) ॥
विज्ञानग्राह्यता नाम वस्तुस्वाभाव्यबन्धना ।
नित्यत्वे कृतकत्वे वा न खल्वेषा प्रयोजिका ॥
अप्रयोजकता चैवं प्रायाणां चैवमुच्यते ।
स्वयं चैते प्रयुज्यन्ते हेतुत्वेनेति किं त्विदम् ॥
(१) गौतमसूत्रम् अ २ आ. २ सू. १४ ।
(२) गौतमसूत्रम् । अ. २ आ. २ सू. १९ ।
(३) कूपपूरणयत्नेन रुं तिरोधीयते यदः। अस्थानादित्ययं हेतुस्तदानेका-
न्तिको भवेत् । आकाशधीप्रबन्धो हि तदा तस्मिन् तिष्ठति ॥३४॥ तिरोहितान-
भिव्यक्तेः शब्दबुद्धिप्रबन्धवत । इतिश्लोकवार्तिके शब्दनित्यताप्रकरणे ।
(४) उद्योतकरे न्यायवार्तिके अ. २ आ. २ सू. १४ शब्ददृष्टे व्यभिचारवा-
रणाय सत्यन्तम् । आत्मनिष्ठव्यभिचारवारणाय बाह्येति ।
(५) श्लोकवार्तिके शब्दनित्यताप्रकरणे ४१६ श्लो० ।
->,(comma) हेत्वाभासः,->,(comma) वर्तमानत्वात् ,-> space comma विद्यमानत्वात् ,-> space comma अदृष्टत्वात् ,-> space comma कालात्ययापदिष्टः,->,comma निश्चयानुत्पादात्,->,` comma
- Let's check line 6 again very carefully:
क्षणिकभङ्गिभावस्याभावादपिvsक्षणभङ्गिभावस्याभावादपि?
Let's look at the first two letters of line 6:
Character 1:क्ष
Character 2:णि
Wait, does it have an 'i' matra?
Look at the top of line 6:
क्षणिभङ्गिभावस्याभावादपि
Wait, why is there an 'i' matra?
Look atणि: there is clearly an arc going to the left!
Wait, could it beक्षणिकत्व-? No, there isभ,ङ्गि.
Wait, is itक्षणिभङ्गि?
Could it be a misprint in the book forक्षणभङ्गि? Yes, Indian prints often have small typos, but let's see if it'sक्षणिभङ्गिor `क्षणभङ्ग
२१४ न्यायमञ्जर्याम्
लब्धेरिव हेतुत्वेनानभिधानात्, नापि परमाण्वनित्यतायामिव मूर्त्तत्वमप्रयोज-
कमिदं साधनं रचनाविशेषाणां कर्तृव्यापारसाध्यत्वावधारणात्, यथा धूमस्य
ज्वलनाधीन आत्मलाभो ज्ञप्तिस्तु धूमादग्नेः तथेह कर्त्रधीना रचनानामभिनिर्वृ-
त्तिः प्रतीतिस्तु ताभ्यः कर्तुरिति, तस्मादप्रयोजक एवायं हेतुः ।
वेदापौरुषेयत्वहेतुनिरासः
ननु सत्प्रतिपक्षत्वे विवदन्ते च तथा च मीमांसकैः प्रतिहेतुरिह गीयते ।
वेदाध्ययनं सर्वं गुर्वध्ययनपूर्वकम् ।
वेदाध्ययनवाच्यत्वादधुना ऽध्ययनं यथा ॥ इति ।
नैतद्युक्तम्, एवंप्रायाणां प्रयोगाणामप्रयोजकत्वात्, न हि तच्छब्दवाच्यत्व-
कृतमनादित्वमुपपद्यते, अनैकान्तिकश्चायं हेतुर्भारते ऽप्येवमभिधातुं शक्यत्वात्,
भारताध्ययनं सर्वं गुर्वध्ययनपूर्वकं भारताध्ययनवाच्यत्वाद्विदानींतनभारताध्य-
यनवदिति,
ननु भारते कर्तृस्मृतिरविगीता विद्यते यद्येवं वेदे ऽपि प्रजापतिः कर्त्ता
स्मर्य्यत एव, अथ वैदिकमन्त्रार्थवादमूलैयं प्रजापतिस्मृतिः प्रजापतिना चत्वारो
वेदा असृज्यन्त चत्वारो वर्णाश्चत्वार आश्रमा इति तत्र पाठादिति,
उच्यते, हन्त तर्हि भारते ऽपि
दृष्टे ऽस्मिंस्तदा संशेरते जनाः ।
किमेष रचयेद्वेदमुत वा ऽन्यकृतं पठेत् ॥
यत्कृतं वा पठेदेष तस्मिन्नपि हि संशयः ।
भङ्गा चेदमनादित्वमुन्मीलदिव दृश्यते ॥
असत्याऽपिप्रमाणे च कर्तृताऽनुभवं प्रति ।
स्मृतिः प्रबन्धसिद्धा ऽपि स्पृशत्यन्धपरम्पराम् ॥
योगिभिर्ग्रहणं कर्तुरित्येतदपि दुर्वचम् ।
कर्तृता हृदि दुर्बोधा कथं गृह्येत तैरपि ॥
योगिभिः सा गृहीतेति वयमेतन्न मन्महे ।
अमन्वानाश्च गच्छेम विस्रब्धास्तत्पथं कथम् ॥
वेदात्कर्तृवबोधे तु स्पष्टमन्योन्यसंश्रयम् ।
ततो वेदप्रमाणत्वं वेदात्कर्तुश्च निश्चयः ॥
तस्मात्पौर्वापर्यपर्यालोचनारहितयथाश्रुतमन्त्रार्थवादमूला भ्रान्तिरेषा न
पुनः परमार्थतः कश्चित्कं चिद्वेदस्य
[२१६] न्यायमञ्जर्याम्
वादिना तद्गतसपक्षवृत्तित्वादिधर्मपरीक्षणे मनः खेदनीयम्, न हि प्रतिहेतुत्वा-
न्वेषिणा वृथाऽटाट्या कर्त्तव्या ।
ननु कतरदनयोः साधनयोरप्रयोजकं रचनात्वादस्मर्यमाणकर्तृकत्वादिति च,
उच्यते, रचनात्वमेव प्रयोजकं न हि पुरुषमन्तरेण क चिदक्षरविन्यासो दृष्टः ।
भो भगवन्तः सभ्याः केदं दृष्टं क वा श्रुतं लोके ।
यद्वाक्येषु पदानां रचना नैसर्गिकी भवति ॥
यदि स्वाभाविकी वेदे पदानां रचना भवेत् ।
पटे हि हन्त तन्तूनां कथं नैसर्गिकी न सा ॥
शन्नो देवीरभिष्टये, नारायणं नमस्कृत्य, अस्त्युत्तरस्यां दिशि देवतात्मा, इति
तुल्ये रचनात्वे क चित्कर्तृपूर्वकत्वमपरत्र तद्विपर्यय इति महान् व्यामोह एवं
धूमोपि कश्चिदग्निमान् कश्चिदनग्निक इत्यपि स्यात्, किमिदानीं कुमारसम्भव-
तुल्यो ऽसौ वेदः सम्पन्नः, अहो सर्वास्तिकधुर्येण वेदप्रामाण्यं साधितं नैया-
यिकेन, अलमुपहासेन रचनामात्रमेव तुल्यं वेदस्य कुमारसम्भवेन नान्यत्, न
चेयतोपहसितुं युक्तम्, किमस्य शब्दत्वं सामान्यं शङ्खशब्दसाधारणं नास्ति
सत्तासामान्यं वा सर्वसाधारणमिति ।
ननु याः कालिदासादिरचनाः कर्तृपूर्विकाः ।
ताभ्यो विलक्षणैवेयं रचना भाति वैदिकी ॥
इहाध्ययनवेलायां रूपादेव प्रतीयते ।
अकृत्रिमत्वं वेदस्य भेदैस्तैस्तैरनन्यगैः ॥
नामाख्यातोपसर्गादिप्रयोगगतयो नवाः ।
स्तुतिनिन्दापुराकल्पपरकृत्यादिनीतयः ॥
शाखान्तरोक्तसापेक्षविचित्रार्थोपवर्णनम् ।
इत्यादयो न दृश्यन्ते लौकिके सन्निबन्धने ॥
तेनाध्येतृगणाः सर्वं रूपाद्भेदमकृत्रिमम् ।
मन्यन्ते एव लोके तु पीतं मीमांसकैर्यशः ॥
वेदा न पठिता यैस्तु त्वादृशैः कुण्ठबुद्धिभिः ।
कार्यत्वं ब्रुवते तेऽस्य रचनासाम्यमोहिताः ॥
उच्यते, मीमांसका यशः पिबन्तु पयो वा पिबन्तु बुद्धिजाड्यापनयनाय
ब्राह्मीघृतं वा पिबन्तु वेदस्तु पुरुषप्रणीत एव नात्र भ्रान्तिः ।
यथा घटादिसंस्थानाद्भिन्नमप्यवलादिषु ।
संस्थानं कर्तृमत्सिद्धं वेदे ऽपि रचना तथा ॥
यच्चात्र किंचिद्वक्तव्यं तत्पूर्वमेव सविस्तरमुक्तम्, अपि च यद्विलक्षणेयं
रचना तद्विलक्षण एव कर्ता ऽनुमीयतां न पुनस्तदपलापो युक्त इत्यप्युक्तम्,