सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 219, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 219

प्रमाणप्रकरणम् १९७
तथा हि भवन्तो वैशेषिकाः सांख्या जैनाः सौगताश्च कार्यशब्दवादिनः,
चार्वाकास्तु वराकाः कस्यैवं विधासु गोष्ठीषु स्मृतिपथमुपयान्ति,
तत्रभवतां वैशेषिकाणां शब्दस्य श्रवणे तावदेषा तुल्यैव कल्पना, संयोगा-
द्विभागाद्वा शब्दउपजायते जातश्चासौ तिर्यगूर्ध्वमधश्च सर्वतोदिक्कानि कदम्बगो-
ळकाकारेण सजातीयनिकटदेशानि शब्दान्तराण्यारभते तान्यपि तथेत्येवं वी-
चीसन्तानवृत्त्यारम्भप्रबन्धप्राप्तो ऽन्त्यः श्रोत्राकाशजन्मा शब्दस्तत्समवेतस्तेनैव
गृह्यते इति तदियं तावदतिघर्घरा कल्पना ।
शब्दः शब्दान्तरं सूते इति तावदलौकिकम् ।
कार्यकारणभावे हि न दृष्टस्तेषु बुद्धिवत् ॥
जन्यन्ते ऽनन्तरे देशे शब्दैः स्वसदृशाश्च ते ।
तिर्यगूर्ध्वमधश्चेति केयं वा श्रद्दधानता ॥
शब्दान्तराणि कुर्वन्तः कथं च विरमन्ति ते ।
न हि वेगक्षयस्तेषां मरुतामिव कल्पते ॥
कुड्यादिव्यवधाने च शब्दस्यावरणं कथम् ।
व्योम्नः सर्वगतत्वाद्वि कुड्यमध्ये व्यवस्थितिः ॥
अथावरणात्मककुड्यादिद्रव्यसंयोगरहितमाकाशं शब्दजन्मनि समवायि-
कारणमिष्यते तदत्र प्रमाणं विशेषे वक्तव्यम् ।
तुल्यारम्भे च मन्देन तीव्रस्य जननं कथम् ।
श्रूयते चान्तिकात्तीव्रःशब्दो मन्दस्तु दूरतः ॥
वीचीसन्तानतुल्यत्वमपि शब्दे सुदुर्वचम् ।
मूर्तिमत्त्वक्रियायोगवेगविरहितात्मसु ॥
यदप्युच्यते सजातीयजनकः शब्दः गुणत्वादूपादिवदिति तदिदमसिद्धम-
सिद्धेन साध्यं गुणत्वस्यासिद्धत्वात् ।
न शब्दः पारतन्त्र्येण कदा चिदुपलभ्यते ।
द्रव्यस्थ इव रूपादेरतो ऽस्य गुणता कुतः ॥
अपि च-न शब्दान्तरारम्भकः शब्दो गुणत्वाद् रूपवत् , शब्दः शब्दं
नारभते शब्दत्वाच्छ्रोत्रशब्दवत् , न संयोगविभागौ शब्दस्य जनको संयोग
विभागत्वादन्यसंयोगविभागवद् इत्यादयः प्रतिहेतवो ऽप्यत्र सुलभा इति
यत् किं चिदेतत् ।
कापिलास्तु ब्रुवते श्रोत्रवृत्तिः शब्ददेशं गच्छति सा शब्देन विक्रियते इति
तत्र श्रोत्रस्य व्यापित्वान्नकटदेशेनेव शब्देन तद्वृत्तिर्विक्रियते न दूरदेशेने-
त्यत्र को नियमः, नियमाभावाच्च कान्यकुब्जप्रयुक्तो गोशब्दो गोरमूलके ऽपि