सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 233, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 233

तीयारम्भकत्वमपि गुणत्वसिद्धिमूलमेव, गुणत्वे सति शब्दस्याकाशाश्रितत्वा-
त्तदात्मकेन श्रोत्रेण ग्रहणं तच्च देशान्तरगतसंयोगविभागप्रभवस्य शब्दस्य
सन्तानमन्तरेण श्रोत्रदेशप्राप्त्यभावान्न सिद्धयतीति गुणत्वसिद्धिमूला सन्तान-
कल्पना सन्तानकल्पनायां च समानजात्यारम्भकत्वात्कर्मव्यवच्छेदे सति गुण-
त्वसिद्धिरितीतरेतराश्रयत्वमेव,
उच्यते, नोभयत्राप्येष दोषः श्रोत्रग्राह्यत्वादेव शब्दस्याकाशाश्रितत्वं
कल्प्यते समानजातीयारम्भकत्वं च गुणत्वात् , आकाशैकदेशो हि श्रोत्रमिति
प्रसाधितमेतत् , प्राप्यकारित्वं चेन्द्रियाणां वक्ष्यते, न चाकाशानाश्रितत्वे शब्दस्य
श्रोत्रेण प्राप्तिर्भवति न चाप्राप्तस्य ग्रहणमिति तदाश्रितत्वं कल्प्यते, एवं समा-
नजातीयारम्भकत्वमपि तत एव श्रावणत्वात् दूरवर्त्तिनः शब्दस्य श्रवणे
सति कल्प्यते न तु गुणत्वादिति नेतरेतराश्रयत्वम्, कार्यत्वादाकाशाश्रितत्वं
कल्प्यते इत्येके।
ननु कार्यत्वादप्याकाशाश्रितत्वकल्पनायां तदवस्थमेवेतरेतराश्रयं कार्यत्वा-
दाकाशाश्रितत्वमाकाशाश्रितत्वे सति नियतग्रहणपूर्वपूर्वरीत्या कार्यत्वमिति,
नैतदेवम् , भेदविनाशप्रतिभासाभ्यामेव कार्यत्वसिद्धेः, किमर्थस्तर्हि नियतग्रह-
णसमर्थनायायमियान्प्रयासः क्रियते, नियतग्रहणमपि कार्यपक्षानुगुणमिति
दर्शयितुं न पुनरेषैव कार्यत्वे युक्तिरित्यलं सूक्ष्मैक्षिकया !
अपर आह परिस्पन्दविलक्षणस्य प्रत्यक्षत्वादकर्मत्वं शब्दस्य साध्यते न
समानजात्यारम्भकत्वादितीतरेतराश्रयस्पर्शाऽपि नास्तीति, तस्मात्सर्वथा परि-
शेषानुमानाच्छब्दस्य गुणत्वसिद्धिः, कथं तर्ह्यस्य महत्त्वादियोगो निर्गुणा गुणा
इति काणादाः, अस्ति हि प्रतीतिर्महान् शब्द इति, समानजातीयगुणाभिप्रायं
तत्कणादवचनमिति न दोषः, तस्मादाकाशगुणः, शब्दः । अपि च—
यथा ऽऽत्मगुणता होच्छाद्वेषादेरुपपत्स्यते ।
शब्दो नयेन तेनैव भविष्यति नभोगुणः ॥
ये तु समानजातीयशब्दारम्भकत्वनिषेधहेतवः शब्दत्वादित्यादयः परैरुप-
न्यस्ताः तेषामप्रयोजकत्वान्न साधनत्वम् ।
इत्थं सन्तानवृत्त्या च शब्दग्रहणसम्भवे ।
कल्पना ऽल्पतरा ऽस्माकं न शब्दव्यक्तिवादिनाम् ॥
शाक्यकापिलनिर्गन्थप्रथितप्रक्रियाम्प्रति ।
यत्तु दूषणमाख्यातमस्माकं प्रियमेव तत् ॥
तस्मात्कार्यपक्षे नियतग्रहणोपपत्तेः अभिव्यक्तिपक्षे च तदभावात्कार्य एव
शब्द इति स्थितम्, तदिदमुक्तं सूत्रकृता ‘आदिमत्त्वादैन्द्रियकत्वात्कृतकवदुप-