सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 230, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 230

यहाँ प्रस्तुत पृष्ठ का देवनागरी में अक्षरशः लिप्यन्तरण (लाइन-दर-लाइन) है:

२०८ न्यायमञ्जर्याम्
यथा हि सूर्यं चक्षुर्गमयताद् दिशः श्रोत्रमिति पठ्यते एवमन्तरिक्षमसूनीति च
पठ्यते एव, न चासवो ऽन्तरिक्षप्रकृतिकाः पवनात्मकत्वात् , तस्मात्कृतं दिशा।
आकाशदेश एव कर्णशष्कुल्यवच्छिन्नः शब्दनिमित्तोपभोगप्रापकधर्माधर्मोप-
निबद्धः श्रोत्रमित्युक्तम् ।
ननु धर्माधर्मकृतश्रोत्रनियमवदभिव्यक्तिनियमो ऽपि शब्दस्य तत्कृत एव
भविष्यति किमिति तदनियमो नित्यत्वपक्षे चोद्यते इति, नैतद्युक्तम् , चक्षुरा-
दीन्द्रियाणां वैकल्यमदृष्टनिबन्धनमन्धकारप्रभृतिषु दृश्यते न पुनः पदार्थस्थि-
तिरदृष्टवशाद्विपरिवर्त्तते, व्यञ्जकधर्मातिक्रमे हि हिममपि शैत्यं स्वधर्ममति-
क्रामेत् , व्यञ्जकेषु नियमो न दृष्ट इत्युक्तम् , दृष्टे च वर्णभेदे नियतोपलब्धिहे-
तौ सम्भवति सति किमयमदृष्टमस्तके भार आरोप्यते, कथं चाभिव्यक्तिपक्षे
तीव्रमन्दविभागः, तीव्रतादयो हि वर्णधर्मा वा स्युः ध्वनिधर्मा वा वर्णधर्मत्वे
तीव्रगकारादन्यत्वं मन्दस्येत्यस्मन्मतानुप्रवेशः ।
ध्वनिधर्मत्वपक्षे तु श्रोत्रेण ग्रहणं कथम् ।
न हि वायुगतो वेगः श्रवणेनोपलभ्यते ॥
यत्तु व्यक्तिधर्माः कृशत्वस्थूलत्वादयो जातावुपलभ्यन्ते इति दर्शितं तत्का-
ममुपपद्येतापि जातेर्व्यक्तेस्तद्धर्माणां च समानेन्द्रियग्राह्यत्वात् ।
इह तु स्पर्शनग्राह्यः पवनो ऽतीन्द्रियो ऽथ वा ।
तद्धर्माः श्रावणे शब्दे गृह्यन्त इति विस्मयः ॥
यत्तु बुद्धिरेव तीव्रमन्दवतीति तदतीव सुभाषितम् , असति विषयभेदे बु-
द्धिभेदानुपपत्तेः ।
किं च नित्यपरोक्षा ते बुद्धिरेवं च नादवत् ।
तद्ग्रहान्न तीव्रादितद्धर्मग्रहसम्भवः ॥
अहो तीव्रादयस्तोत्रे प्रपाते पतिता अमी ।
यो गृह्यते न तद्धर्मा यद्धर्माः स न गृह्यते ॥
यश्चाभिभववृत्तान्तस्त्वन्मते मरुतामसौ ।
अनिले चाभिभूते ऽपि शब्दो न श्रूयते कथम् ॥
दीपे ऽभिभूते रविणा न हि रूपं न गृह्यते ।
नियतव्यञ्जकत्वं तु प्रतिक्षिप्तमदर्शनात् ॥
यत्तु शङ्खादिशब्दानां श्रोत्रग्राह्यत्वसिद्धये ।
शब्दत्वं तत्र तद्ग्राह्यमित्यवादि तदप्यसत् ॥
सत्यं वदत दृष्टं वा श्रुतं वा क्व चिदीदृशम् ।
आश्रयस्य परोक्षत्वे तत्सामान्योपलम्भनम् ॥