न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 226, कुल 654 में से
संदर्भ में पढ़ेंशब्दः शब्दो ऽयमित्येवं प्रतीतिस्त्वप्रयोजिका ।
एषा हि श्रोत्रगम्यत्वमुपाधिमनुरुध्यते ॥
तदेतन्निरनुसंधानस्याभिधानम्, अनुसंधानप्रत्ययस्य सामान्यसिद्धावप्रयो-
जकत्वात्, अनुसंधानं हि सारूप्याद्विजातीयेष्वपि भवति गवयग्रहणसमये गो-
पिण्डानुसंधानवत्, तस्मादबाधितैकरूपप्रत्ययप्रतिष्ठ एव सामान्यव्यवहारः ।
समानबुद्धिग्राह्ये ऽपि सामान्ये ऽवस्थिते क चित् ।
भवत्यस्यानुसंधानं क चिद्वा न भवत्यपि ॥
तदस्ति खण्डमुण्डादौ पिण्डसारूप्यकारितम् ।
गकारादिषु वर्णेषु तदभावात्तु नास्ति तत् ॥
न तु सामान्याभावात् , न च सारूप्यमेव सामान्यं साङ्ख्यवदभिधातुं युक्तं
विजातीयेष्वपि गोगवयादिषु तस्य दृष्टत्वात्, यदि च शब्दः शब्द इत्यनुवृत्तबुद्धेः
श्रोत्रगम्यत्वोपाधिकृतत्वमुच्यते तर्हि गवादामध्ये