न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 223, कुल 654 में से
संदर्भ में पढ़ेंअथ मनुषे यरलवादीनामितरेतरविभक्तस्वरूपप्रतिभासात् शुकसारिकाम-
नुष्येषु हि वक्तृभेदे सति व्यञ्जकनानात्वसम्भावनया वर्णभेदप्रत्ययस्य वक्तृतत्वं
काममाशङ्क्येतापि वक्त्रेकत्वे तु गगनादौ कुतस्तत्कृतो भेदः ।
ननु तत्रापि मरुतो भिन्ना एव व्यञ्जकाः मुखं त्वेकं भवतु किं तेन तदपि
वा भिन्नमित्येके, उच्यते स तर्हि मरुतां भेदो यरलवादिष्वपि तुल्य इति मा
भूत्तेषामपि भेदः ।
ननु यरलवानां विशेषप्रतीतिरस्ति गकारे तु सा नास्तीत्युक्तं उच्चारणस्यैव
तत्र भेदो नोचार्यस्येति, नैतत्सारम् , मा भूदेष विशेष इति प्रतीतिर्भेदबुद्धिस्तु
विद्यते एव, अन्या च विशेषबुद्धिरुच्यते अन्या च भेदबुद्धिरिति, विशेषाप्रति-
भासे ऽपि क चिद्विच्छेदप्रतीतिदर्शनात् ।
नन्वत्रोच्यते—
दृश्यते शाबलेयादिव्यक्त्यन्तरविलक्षणा ।
बाहुलेयादिगोव्यक्तिस्तेन भेदो ऽस्ति वास्तवः ॥
न तु द्रुतादिभेदेन निष्पन्ना सम्प्रतीयते ।
गव्यक्त्यन्तरविच्छिन्ना गव्यक्तिरपरा स्फुटा ॥
इति नैतद्युक्तम् , शाबलेयादौ प्रतिव्यक्ति सास्नाखुरककुदाद्यवयववर्त्तिनो
विशेषाः प्रतिभासन्ते ते च स्थूलत्वात्सुगमा भवन्ति, यत्र तु तिलतण्डुलकुलत्था-
दौ प्रतिसिक्थं विशेषा न प्रतिभासन्ते तत्र विशेषप्रतीत्यभावे ऽपि विच्छेदप्रति-
भासो विद्यते एव सिक्थात् सिक्थान्तरत्वेन प्रतिभासात् , एवमिहाप्येष गकार-
विशेष इति प्रतिभासाभावे ऽपि विच्छेदग्रहणाद् गकारनानात्वम् ,
ननु तण्डुलादावपि सिक्थात्सिक्थान्तरे विशेषाः प्रतिभासन्ते एव तद्-
प्रतिभासे भेदस्यापि ग्रहीतुमशक्यत्वात् , मैवं वादीः-यत्ने सति चतुरश्रत्रिको-
णवर्त्तुलत्वादिविशेषा अप्यमुत्र प्रतिभासिष्यन्ते, प्रयत्नं विना ऽपि तु प्रथमाक्ष-
निपात एव विच्छेदबुद्धिरुत्पद्यते इति तयैव नानात्वसिद्धिः ।
ननु नैवानधिगतविशेषस्य विच्छेदबुद्धिरुत्पत्तुमर्हति इति विशेषबुद्धिरेव
विच्छेदबुद्धिः, नैतदेवम्, भ्रमणादिकर्मक्षणानां सूक्ष्मविशेषाप्रतिभासे ऽपि
विच्छेदप्रतिभासात्, ननु तत्रापि विशेषग्रहणं कल्प्यते अन्यथा विच्छेदप्रतीत्य-
नुपपत्तेः, यद्येवं वर्णेष्वपि गगनादौ विच्छेदप्रतीतिदर्शनात्कल्प्यतां विशेष-
ग्रहणम्, नन्वस्त्येव तत् किं त्वौपाधिकः स्फटिके रक्तताप्रत्ययवत् , विष-
मो दृष्टान्तः स्फटिकस्य शुद्धस्य दृष्टत्वाल्लाक्षाद्युपाधिनिमित्तको रक्तताप्रत्ययः
वर्णानां तु नित्यमेवोदात्तादिविशेषवतां प्रतिभासात्तद्रहितानामनुपलब्धेश्च नैस-
र्गिक एवायं भेदः, तथा बुद्धीनां घटपटादिविषयविशेषशून्यानामसंवेदनात्प्रति-
विषयं नानात्वं तथा वर्णानामपि प्रत्युदात्तादिविशेषं नानात्वम् , न च बुद्धिरेकैव
२६ न्या०