सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 228, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 228

२०६ न्यायमञ्जर्याम्
निर्बन्धस्त्विह नास्माकं सा यथा ऽस्तु तथास्तु वा ।
शब्दे विनाशज्ञानात्तु न सा नित्यत्वसाधिका ॥
बाध्यबाधकभावे तु नियमो ननु किंकृतः ।
शब्दस्य प्रत्यभिज्ञानविनाशप्रतिभासयोः ॥
उच्यते प्रत्यभिज्ञानमन्यथा ऽप्युपपद्यते ।
गत्वादिजातिविषयं यद्वा सादृश्यहेतुकम् ॥
न त्वभिव्यञ्जकध्वंसान्नाशाधीरपि सेत्स्यति ।
तदसावपि बाध्या ऽस्तु यद्वा भवतु संशयः ॥
मैवं विनाशिताबुद्धिर्भेदबुद्ध्युपबृंहिता ।
सा चेयं चान्यथासिद्धे इति वक्तुमसाम्प्रतम् ॥
प्रत्यभिज्ञा च सापेक्षा निरपेक्षा त्वभावधीः ।
तेनैवमादौ विषये प्रत्यभिज्ञैव बाध्यते ॥
शब्दाभावस्य ग्रहणात्प्रत्यभिज्ञायाश्च पूर्वानुसन्धानादिसव्यपेक्षत्वात् , अपि
च प्रत्यभिज्ञा व्यभिचरति कर्मादिषु गृह्यते तेनास्यां शब्दे ऽप्यभावप्रत्ययोपह-
तवपुषि कः समाश्वासः, न चेदं प्रत्यक्षे ऽप्यनैकान्तिकत्वोद्भावनम् अपि तु
विनाशप्रत्ययप्रतिहतप्रभावा प्रत्यभिज्ञा नित्यत्वं कर्मादिष्विव शब्देपि न साध-
यितुं प्रभवति इति दृष्टान्तस्य को ऽवसरः, सत्यम् ग्राहिकास्तु भवादृशाः स्व-
यमनवबुध्यमाना एवं बुद्ध्यन्ते ।
यत्तु प्रवृद्धरभसतया बुद्धिकर्मादावपि नित्यत्वसमर्थनं तदत्यन्तमलौकिक-
मित्युकम् ।
किं नाम शब्दनित्यत्वसमर्थनतृषातुरः ।
जङ्गमं स्थावरं चैव सकलं पातुमिच्छसि ॥
तस्मादलमतिरभसप्रवृत्ताभिराभिर्बुद्धिकर्मादिनित्यत्वसमर्थनकथाभिः ।
शब्दाभिव्यक्तिपक्षखण्डनम्
यत्पुनरभिव्यक्तिपक्षे शब्दस्य ग्रहणे नियमाभावमाशङ्क्य श्रोत्रसंस्कारेण
विषयसंस्कारेणोभयसंस्कारेण वा नियतं ग्रहणमुपवर्णितं तद्वञ्चनामात्त्रम्, समान-
देशानां समानेन्द्रियग्राह्याणां प्रतिनियतव्यञ्जकव्यङ्ग्यत्वादर्शनात् , ये पुनरत्र
गन्धा उदाहृताः ते समानेन्द्रियग्राह्या भवन्ति न समानदेशाः ।
एकभूम्याश्रितत्वेन तुल्यदेशत्वकल्पने ।
भवेत्समानदेशत्वं हिमवद्विन्ध्ययोरपि ॥
एकत्वे ऽपि भुवो भान्ति पदार्थाः पार्थिवाः पृथक् ।
व्यज्यन्ते तदधिष्ठाना गन्धास्तैस्तैर्निबन्धनैः ॥