न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 221, कुल 654 में से
संदर्भ में पढ़ेंनिस्सरति समीरण इति सुस्पष्टमेतत् , प्रत्यक्षपवनवादिनां पक्षे पवनसमये
वक्तृवदननिकटनिहितहस्तस्पर्शेनैव स उपलभ्यते, अनुमेयमारुतपक्षे ऽपि
तदानीमास्यसमीपसन्निधापिततूलकर्मणा सोऽनुमीयते ।
स गच्छन्सर्वतोदिक्कः स्तिमितानिलनोदनम् ।
करोति कर्णाकाशे च प्रयाति श्रुतियोग्यताम् ॥
स च प्रयत्नतीव्रत्वमन्दत्वेन तदात्मकः ।
शब्दे तथाविधज्ञप्तिहेतुतामवलम्बते ॥
स चैष गच्छन्नुद्दामवेगयोगाहितक्रियः ।
शरवद्वेगशान्त्यैव न दूरं गन्तुमर्हति ॥
स मूर्त्तः प्रसरन्मूर्त्तैरपरैः प्रतिरुध्यते ।
कुड्यादिभिरितो नास्य श्रुतिर्व्यवहितात्मनः ॥
स वेगगतियोगित्वादागच्छति यतो यतः ।
श्रोता ततस्ततः शब्दमायान्तमभिमन्यते ॥
स तु शङ्खादिसंयोगप्रेर्यमाणः समीरणः ।
शब्दस्यावर्णरूपस्य भवति व्यक्तिकारणम् ॥
यद्वा यद्यपि वर्णात्मा श्रात्रग्राह्यो न विद्यते ।
तथा ऽपि तत्र शब्दत्वं श्रवणेन ग्रहीष्यते ॥
तदिह न का चिदस्माभिरधिका कल्पना कृता मारुतगतेरस्याः सर्वलोक-
प्रसिद्धत्वात्कर्णाकाशसंस्कारमात्रमदृष्टं कल्पितं तदपि कार्यार्थापत्तिगम्यत्वान्नापू-
र्वमिति ।
अपक्षपातिनः सभ्याः सत्यमुत्पत्यपेक्षया ।
शब्दस्य कल्पनामाहुरभिव्यक्तौ लघीयसीम् ॥
तदेवमभिव्यक्तिपक्षे नियतग्रहणोपपत्तेः प्रत्यभिज्ञाप्रत्ययप्रामाण्यान्नित्यत्व-
मेवोपगन्तव्यम् ।
या त्वनैकान्तिकत्वोक्तिः धीकर्मप्रत्यभिज्ञया ।
प्रत्यक्षे चोद्यमाना ऽसौ दर्शयत्यति मूढताम् ॥
तेनानुमानदोषेण प्रत्यक्षं न हि दूष्यते ।
सिद्धान्तान्तरचिन्ता तु भवेद्भृशमसङ्गता ॥
निर्बाधं प्रत्यभिज्ञानमस्ति चेद्बुद्धिकर्मणोः ।
तयोरप्यस्तु नित्यत्वं नो चेत्का शब्दतुल्यता ॥
शब्दनित्यत्वोपसंहारः
तस्मान्नित्यः प्रत्यभिज्ञाप्रभावात्सिद्धः शब्दः पश्यतां तार्किकाणाम् ।
अर्थापत्तिः पूर्वमुक्ता च तस्मिन्स्थायित्वे युक्तयश्च व्युदस्ताः ॥