सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 232, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 232

२१० न्यायमञ्जर्याम्
ते देशान्तरे ऽपि सैव कार्यमारभते पथि गच्छतो देवदत्तादेरेकस्मादात्मप्रदेशा-
त्प्रदेशान्तरे बुद्ध्युत्पाददर्शनात् , कार्यारम्भविरतिरपि भवति अदृष्टाधीनसंस्-
र्गाणां सहकारिणामनवस्थानात् ।
तीव्रेणापि शनैरेवमतीव्रारम्भसम्भवः ।
सीदत्सचिवसामर्थ्यसापेक्षक्षीणवृत्तिना ॥
वीचीसंतानदृष्टान्तः किं चित्साम्यादुदाहृतः ।
न तु वेगादिसामर्थ्यं शब्दानाम्स्त्यपामिव ॥
यत्तु कुड्यादिव्यवधाने किमिति विरमति शब्दसन्तानारम्भ इति, नैष दो-
षः, निरावरणस्य हि व्योम्नः शब्दारम्भे समवायिकारणत्वं तथा दर्शनात्क-
ल्प्यते नाकाशमात्रस्येति ।
शब्दस्य गुणत्वसाधनम् ।
यदपि गुणत्वमसिद्धं शब्दस्येति तत्र के चिदाश्रितत्वाद् गुणत्वमाचक्षते,
तदयुक्तम्—
आश्रितत्वं गुणत्वे हि न प्रयोजकमिष्यते ।
षण्णामपि पदार्थानामाश्रितत्वस्य सम्भवात् ॥
दिक्कालपरमाण्वादिनित्यद्रव्यव्यतिरेकिणः ।
आश्रिताःषडपीष्यन्ते पदार्थाः कणभोजिना ॥
न च व्योमाश्रितत्वमपि शब्दस्य प्रत्यक्षम्प्रत्यक्षे नभसि तदाश्रितत्वस्या-
प्यप्रत्यक्षत्वात् ।
कथमाधारपारोक्ष्ये शब्दाप्रत्यक्षतेति चेत् ।
यथैवात्मपरोक्षत्वे बुद्ध्यादेरुपलम्भनम् ॥
एतदेवासिद्धमिति चेद् अलं वादान्तरगमनेन उपरिष्टान्निर्णेष्यमाणत्वात्,
किमेतर्हि शब्दस्य गुणत्वे प्रमाणं परिशेषानुमानमिति ब्रूमः, प्रसक्तयोर्द्रव्यक-
र्मणोः प्रतिषेधे सामान्यादावप्रसङ्गाच्च गुण एवावशिष्यते शब्दः, कथं पुनः न
द्रव्यं शब्दः एकद्रव्यत्वात् , अद्रव्यं वा भवति द्रव्यम् आकाशपरमाण्वादि
अनेकद्रव्यं वा द्यणुकादि कार्यद्रव्यम, एकद्रव्यं तु शब्दः एकाकाशाश्रित-
त्वात् तस्मान्न द्रव्यम् , नापि कर्मशब्दः शब्दान्तरजनकत्वात् , कर्मणो हि स-
मानजात्यारम्भकत्वं नास्ति सत्ताशब्दत्वादिसामान्यसम्बन्धाच्च सामान्यादित्र-
यप्रसङ्गो ऽस्य नास्तीति परिशेष्याद् गुण एव शब्दः ।
ननु गुणत्वासिद्धौ सत्यामाकाशाश्रितत्वं शब्दस्य भविष्यति गुणस्य द्रव्या-
नाश्रितस्यादर्शनात् पृथिव्यादीनां च शब्दाश्रयत्वानुपपत्तेः, ततश्च गुणत्वे साध्ये-
कद्रव्यत्वम् एकद्रव्यत्वे सति गुणत्वमितीतरेतराश्रयत्वम् , तथा च समानजा-