न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 229, कुल 654 में से
संदर्भ में पढ़ेंभवन्त्वनाश्रिताः शब्दा यदि वा ऽऽकाशसंश्रिताः ।
सर्वथा भिन्नदेशत्वमेषां वक्तुं न शक्यते ॥
ननु यथैकत्वे ऽपि नभसः तद्भागकल्पनया प्रतिपुरुषं श्रोत्रेन्द्रियभेदः एवं
तद्भागकल्पनयैव शब्दानापि असमानदेशत्वान्नियतव्यञ्जकव्यङ्ग्यता भविष्यति
नैवमुपपद्यते यत्रैव वक्तृमुखाकाशदेशे श्रोतृश्रोत्राकाशदेशे वा गोशब्द उपलब्धः
तत्रैवाश्वशब्द इदानीमुपलभ्यते न पुनरतिमुक्तकुसुमे य उपलब्धो गन्धः स
बन्धूके मधूके वा कदा चिदुपलभ्यते इति ।
तस्मात्समानदेशत्वान्न व्यक्तौ नियमो भवेत् ।
उत्पत्तौ तु व्यवस्थायां तद्भेद उपपद्यते ॥
नादैः संस्क्रियतां शब्दः श्रोत्रं वा द्वयमेव वा ।
सर्वथा नियमो नास्ति व्यञ्जकेष्विति निश्चयः ॥
व्यवस्था व्यञ्जकानां चेदुच्यते ऽदृष्टकारिता ।
उत्पत्तौ दृश्यमानायां दृष्टमप्यविरोधकम् ॥
न च स्तिमितमारुतापनयनव्यतिरिक्तः कश्चन श्रोत्रसंस्कारो विद्यते, तत्र
चातिप्रसङ्ग उक्त एवातिरिक्तसंस्कारकल्पनायां त्वदृष्टकल्पना, स्थिरे च शब्दसं-
स्कारग्रहणमिति पुनरनभिव्यक्तस्यापि गोशब्दस्य श्रवणं स्यात्, तद्ग्रहणहेतोः
संस्कारस्य स्थिरत्वात्, तत्तक्षणिकत्वे तु शब्दक्षणिकतैव साध्वी प्रतीयमानत्वात्।
यत्तु भर्तृमित्रस्तमेव संस्कारं श्रोत्रेन्द्रियमभ्युपैति तदिदमपूर्वकं किमपि
पाण्डित्यम्, इन्द्रियस्य हि संस्कार्यस्य कल्पनमनुपपन्नम्, अनष्टनरत्वे तु
शश्वदेव शब्दकोलाहलप्रसङ्ग इति यत्किं चिदेतत्, भट्टेनैव सोपहासमेष दूषितः
पक्ष इति किमत्र विमर्देन ।
यदपि भट्ट आह—
यदि त्ववश्यं वक्तव्यस्तार्किकोक्तिविपर्ययः ।
ततो वेदानुसारेण कार्या दिक्श्रोत्रतामतिरिति(१) ॥
तदप्यसांप्रतम्—
दिशां कार्यान्तराक्षेपादागमान्यपरत्वतः ।
आहोपुरुषिकामात्रं दिगद्रव्यश्रोत्रकल्पनम् ॥
इन्द्रियाणां भौतिकत्वस्य साधयिष्यमाणत्वादिशश्चामूर्तत्वान्नेन्द्रियप्रकृति-
त्वं व्यापकत्वाविशेषे वा कालात्मनोरपि तथाभावप्रसङ्गः, तयोरन्यत्र व्यापार-
कत्वान्नेन्द्रियप्रकृतित्वमिति चेद् दिगद्रव्ये ऽपि तुल्यमेतत्, आगमस्त्वन्यपर एव,
( १ ) श्लोकवार्तिके शब्दाधिकरणे श्लो० १६० । अधिगुप्रैषे संज्ञप्यमानस्य
पशोरङ्गानां प्रकृतौ लयः सूर्य चक्षुर्गमयतादित्यादिना उक्तस्तत्रैव 'दिशः श्रोत्रम्' इति
श्रोत्रस्य दिशि लयः प्रतिपादित इतिवेदानुसारेण दिश एव श्रोत्रत्वं नाकाशस्येत्यर्थः ।