सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

अत्यन्तप्रायसाधर्म्यविकल्पादिनिबन्धनः ।
छिन्नः सूत्रकृतः साक्षादुपमानस्य विप्लवः ॥
येन सदृशप्रतीतिर्जन्यते तत्सदृशमिति किमत्यन्तसादृश्यादिविकल्पैः ।
अभिन्नप्रत्यये हेतुर्यथा सामान्यमुच्यते ।
सदृशप्रत्यये हेतुस्तथा सादृश्यमुच्यते ॥
ननूपमानलक्षणमस्मिन् मोक्षशास्त्रे कोपयुज्यते, आगमात्तावदात्मज्ञानं
मोक्षसाधनं सेतिकर्त्तव्यताकमवगम्यते, अनुमानादागमप्रामाण्यनिश्चयः, प्रत्य-
क्षादनुमानस्य व्याप्तिपरिच्छेद इति त्रयमेवोपदेष्टव्यम् , सत्यमेवम् , उपमान-
मपि क चिद्द्रव्यालम्भादिचोदनार्थानुष्ठाने सोपयोगम् , अनवगतगवयस्वरूपे
तदालम्भाभावात् , यथा मुद्गस्तम्भस्तथा मुद्गपर्णीति मुद्गपर्ण्याद्यौषधिपरि-
ज्ञाने ऽपि तदुपयोगि भवति ।
सर्वानुग्रहबुद्ध्या च करुणार्द्रमतिर्मुनिः ।
मोक्षोपयोगाभावे ऽपि तस्य लक्षणमुक्तवान् ॥
नन्वेवं सति यागौषधाद्युपयोग्यन्यदपि बहूपदेष्टव्यं स्यात् , न प्रमाणशा-
स्त्रत्वादस्य प्रमाणमेवार्थपरिच्छित्तिसाधनमिहोपदिश्यते, तच्चतुर्विधमेव न न्यू-
नमधिकं वेति निर्णीतम् , प्रमेयं तु मोक्षाङ्गमेवोपदिष्यते इत्यलं प्रसङ्गेन ।
मीमांसकाभिमतोपमानस्वरूपनिरूपणम्—
जैमिनीयास्तु अन्यथोपमानस्वरूपं वर्णयन्ति, यदा श्रुतातिदेशवाक्यस्य वने
गवयपिण्डदर्शनानन्तरं नगरं गतं गोपिण्डमनुस्मरत एतेन सदृशो गौरिति ज्ञानं
तदुपमानम् , तस्य विषयः सम्प्रत्यवगम्यमानगवयसादृश्यविशिष्टः परोक्षो गौः
तद्वृत्ति·वा गवयसादृश्यम् , अत एव तज्ज्ञानं प्रत्यक्षजन्यं परोक्षगोपिण्डवि-
षयत्वात् , अश्रुतातिदेशवाक्यस्याभावान्न शाब्दम् ।
न च स्मरणमेवेदं प्रमेयाधिक्यसम्भवात् ।
गवयेन हि सादृश्यं न पूर्वमवधारितम् ॥
भूयोऽवयवसामान्ययोगो यद्यपि मन्मते ।
सादृश्यं तस्य तु ज्ञप्तिर्गृहीते प्रतियोगिनि ॥
न चानुमानिकमिदं ज्ञानमनपेक्षितपञ्चादिधर्मादिकस्य भावात् , न च गव-
यगतं सारूप्यं तत्र लिङ्गमपक्षधर्मत्वात् , नापि गोगतमप्रसिद्धत्वात् प्रतिज्ञार्थै-
कदेशत्वाच्च, विषाणाद्यवयवजातमपि न गोगतं लिङ्गमिदानीं वनस्थस्य तद्ग्र-
हणाभावात् , अगृहीतस्य च लिङ्गत्वानुपपत्तेः, गवयगतमपि तदलिङ्गमेव पूर्व-
वदपक्षधर्मत्वात् , तस्माद् गवयसादृश्यविशेषितनगरगतपरोक्षगोपिण्डज्ञानं
काननवर्तिनः प्रमातुः प्रमाणान्तरं भवतीत्यभ्युपगन्तव्यम् ।

"ग्रामीण्यानुभवो" -> or "ग्रामीणस्यानुभवो" or "ग्राम्यस्यानुभवो"?
Let's look closely at line 20-21:
Line 20 ends with: "ग्रामी-"
Line 21 starts with: "ण्यानुभवो" or "णस्यानुभवो"?
Look at line 21:
First glyph: ण् (n) + य (ya) = ण्य? Or ण् (n) + य (ya) + स्य?
Wait! Look at line 22: "कथं ग्राम्यस्य सादृश्यग्रहणम्"
And line 20 has: "ग्रामी-"
Then line 21 has:
'ण' with something?
Wait! Look at the glyphs:
'ण' (ṇa)
'स्या' (syā)
'नु' (nu)
'भ' (bha)
'वो' (vo)
YES! Look at the ligature:
It has 'ण' then 'स्य' with 'ा' = 'स्यानुभवो'!
Wait, is the first letter 'ण'?
Yes, 'ण' (na). Then 'स्या' (sya with a-matra)!
Wait, why would it be "ग्रामी" + "णस्यानुभवो" = "ग्रामीणस्यानुभवो"!
Yes! "ग्रामीणस्य अनुभवो" = "ग्रामीणस्यानुभवो"!
Let'

१३४ न्यायमञ्जर्याम्
स च भूयोऽवयवसामान्ययोगो ऽगृहीतगवयेनापि नागरेकेण ग्रहीतुं शक्यते।
अथ तदा तद्ग्रहणे ऽपि सति न तस्य सदृशप्रत्ययः, न तर्हि भूयोऽवय-
वसामान्ययोगः सादृश्यम्, यथोक्तं सादृश्यं सदृशप्रत्ययहेतुत्वमेव सादृश्यम्,
भूयोऽवयवसामान्ययोगे च तल्लक्षणे चित्त्रादावव्याप्तिः, अतिव्याप्तिश्च प्रायन्त-
रेषु विसदृशेष्वपि तदवयवसामान्यानां खुरादीनां भावात्, भूयस्त्वं तु कियत्तेषा-
मिति न विद्मः, यावता सदृशप्रत्ययोत्पत्तिरिति चेत् तर्हि सदृशप्रत्ययहेतुत्वमेव
सादृश्यमस्त्वित्युक्तम्, तस्माद् गवयदर्शनात्पूर्वमपि गव्यनभिव्यक्तसादृश्यग्रह-
णोपपत्तेः स्मृतिरेवेयम्।
अथ मतं यथा नैयायिकानामतिदेशवाक्यवेलायां सोपप्लवा संज्ञासंज्ञि-

बालस्य वा तत्प्रत्ययानुत्पादान्न व्याप्तिनैरपेक्ष्येण सा प्रतीतिरिति वक्तव्यम् ,
तस्मादित्थमनुमानजन्यत्वात्स्मृतित्वाद्वा पूर्वोक्तादसम्भवादेव वा नेयमवगतिरुप-
मानकार्यति सिद्धम् , कश्चास्य भवदुपमानस्य स्वतन्त्रोपयोग एवं ह्याहुर्भवन्तः(१)
अपरीक्षामिषेणापि लक्षणानि वदन्नयम् ।
न स्वतन्त्रोपयोगित्वनिरपेक्षाणि जल्पति ॥
ननूक्त एवोपयोगः सौर्ये चरौ द्रव्यदेवतासारूप्यादाग्नेयविध्यन्तलाभः आ-
ग्नेयो ऽष्टकपाल इत्युपदिष्टक्लृप्तेतिकर्त्तव्यताकलापतया निराकाङ्क्षो विधिः
सौर्यं चरुं निर्वपेद् ब्रह्मवर्चसकाम इत्यत्र प्रधानमात्रोपदेशाद्विध्यादिरस्ति न तु
विध्यन्त इतिकर्त्तव्यताऽभिधानम् , न चानितिकर्त्तव्यताकं कर्म प्रयोगयोग्यम् ,
अतः किमीयमितिकर्त्तव्यताजातमिह गृह्यतामित्यपेक्षायां चरुपुरोडाशयोर्व्रीह्या-
चौषधसाधनत्वेन द्रव्यसादृश्यात्सूर्याग्न्योश्च तेजस्वितया देवतयोः सारूप्यादाग्ने-
येतिकर्त्तव्यता सौर्ये क्रियते इत्युपमानाद् गम्यते, अपि च क चिच्चोदितद्रव्या-
दावलभ्यमाने प्रतिनिध्रुपादानेन कर्मसमापनात्प्रतिनिधिमात्रोपादाने प्राप्ते व्रीहि-
सदृशनीवारोपादानमुपमानात्प्रतीयते इति, तदाह—
भिन्ना ऽनुमानादुपमेयमुक्ता
सौर्यादिवाक्यैरसहापि दृष्टम् ।
सादृश्यतोऽन्यादियुतं कथं नु
प्रत्याययेदित्युपयुज्यते नः ॥
प्रतिनिधिरपि चैवं व्रीहिसादृश्ययोगाद्
भवति तदुपचारे यत्र नीवारजातौ ।
तदपि फलमभीष्टं लक्षणस्योपमायाः
प्रकृतिरपि च गौणैर्बोध्यते यत्र चान्यैः(२) ॥
( १ ) श्लोकवार्तिके शब्दलक्षणग्रन्थे श्लो० ७ । ‘शास्त्रं शब्दविज्ञानादसन्निकृष्टेऽर्थे-
विज्ञानम्’ इति भाष्ये प्रत्यक्षादिषु शब्दमात्रस्य लक्षणे प्रतिपादनीये शास्त्रस्य लक्षणं
कथमभिहितमिति शङ्कायाः समाधानमिदम् अपरीक्षामिषेणेति । मिषेण छलेन स्वतन्त्रो
वेदः वेदं व्याख्यातुकामस्य शब्दलक्षणं नातोवोपयुक्तमिति भावः ।
( २ ) श्लोकवार्तिके उपमानग्रन्थे श्लो० ५२। कः पुनरुपमानस्य प्रमाणान्तरस्य
स्वतन्त्रोपयोग इति दर्शयति भिन्नेति । न हि सौर्यतद्वाक्ययोराग्नेयतद्वाक्याभ्यामान्वयो-
गृहीतःयेनानुमानं स्यात् निर्वापो लोकवेदसाधारणः पर्यतद्धितनिर्देशादयोऽपि प्रमाणान्त-
रेण तूपमानेन आग्नेयवाक्यसदृशेन सौर्यवाक्येनोपमितम् । अग्न्यादियुतमाग्नेयवाक्यं
स्वार्थमुपस्थापयति यस्य च त्र्यंशस्य साध्यसाधनांज्ञानपेक्षितत्वाद्भावना इत्यन्तितमांशो-
ऽपेक्षावशात्सौर्यभावनया गृह्यते एवमस्योपयोगः इति ( न्यायरत्नारकरः )

१३६ न्यायमञ्जर्याम्
मीमांसकानां स्वोक्तिविरोधः—
तदेतदसमञ्जसम्, प्रसिद्धेनाप्रसिद्धस्य सादृश्यमवगम्यते इत्येष भवद्भिरु-
त्सृष्टः पन्थाः, विपर्ययस्तु आश्रितः, यदप्यदृष्टेन नूतनेनाप्रसिद्धेन गवयेन वाक्य-
सिद्धस्य गोः सादृश्यमुपमानात्प्रतीयते इति तदिहापि निर्णीतेतिकर्त्तव्यताकेन
गोवत्प्रसिद्धेनाग्नेयेन सौर्यस्य गवयवदप्रसिद्धस्य सादृश्यमवगम्यते न तु गवयेन
गोः सौर्येणाग्नेयस्य, तदिह यस्य विध्यन्तार्थिता न तत्रोपमानात्साहश्यावगमो
यत्र वा तदवगमो न तत्रेतिकर्त्तव्यतार्थित्वम् ,
ननु सौर्ये विध्यन्तार्थिनि प्रतीयमाने द्रव्यदेवतासारूप्यादेराग्नेयः स्मरण-
पथमवतरतीति तत एवासौ विध्यन्तमधिगच्छतीति, एवमपि स्मरणमात्रात्सिद्धे
ऽर्थे किमुपमानेन, आग्नेयस्मरणादेव तदितिकर्त्तव्यता सौर्ये उपादास्यते, स्मृ-
तिविशेष एव विषयाधिक्यादुपमानमुच्यते इति चेत्प्रतिविहितमेतदित्यलं
प्रसङ्गेन ।
किं चोपमानप्रतिपादितार्थो
न चोदनालक्षणतां बिभर्त्ति ।
तस्मान्न युज्येत ततो ऽधिगन्तु-
माग्नेयविध्यन्तविशेषलाभः ॥
प्रतिनिधिरपि चैवं नास्ति नीवारजाते-
र्न हि भवदुपमानाद् व्रीहिसादृश्यबुद्धिः ।
भवति तु मतिरेषा व्रीहयस्तत्सदृक्षा
इति न च फलमस्याः किं चिदस्ति प्रतीतेः ॥
भवत्यङ्गं यागे क्व चन गवयालम्भनमतः
तदाकारज्ञाने प्रतिनिधिविवेके च कृतिनाम् ।
उपायत्वं युष्मत्कथितमुपमानं न भजते
परिग्राह्यं तस्मात्प्रवरमुनिगीतं सुमतिभिः ॥
इति द्वितीयमाह्निकम् ॥
प्रयोजनान्तरमाह--प्रतिनिधिरितिपादद्वयेण एवं व्रीह्यपचारे सदृशतया नीवारेषु
अवगतेषु तत्सदृशत्वेन च व्रीहित्वयमिति व्रीह्यवयवसामान्यावगमात्तल्लाभाय तेषां प्र-
तिनिधिः सिध्यतीति । प्रयोजनान्तरमाह प्रतिकृतिरित्यादिना । उपमानेन हि काचि-
त्प्रतिकृतिः सादृश्यं गौणैः सामान्यैरीषत्सदृशं बाध्यते इत्यर्थः ( न्यायरत्नाकरः )

प्रमाणप्रकरणम् १३७
शब्दप्रमाणलक्षणम्—
उपमानानन्तरं शब्दस्य विभागसूत्रे निर्देशात्तस्य लक्षणं प्रतिपादयितुमाह-
आप्तोपदेशः शब्दः ॥ ७ ॥
उपदेशः शब्द इत्युच्यमाने पर्यायमात्रोच्चारणादकारके शब्दमात्रे प्रसक्ति-
रिति प्रत्यक्षसूत्राज् ज्ञानपदस्य स्मृतिजनकस्य व्यवच्छेदार्थं चार्थग्रहणस्य सं-
शयविपर्ययजनकनिराकरणाय च व्यवसायात्मकाव्यभिचारपदयोरनुवृत्तिरित्ये-
वमव्यभिचारादिविशेषणार्थप्रतीतिजनक उपदेशः शब्द इत्युक्तं भवति ।
तदेवं पर्यायमेवोपदेशशब्दं शब्दलक्षणमपेक्षितपूर्वसूत्रोपात्तविशेषणपदं के
चिद्व्याचक्षते, आप्तग्रहणं च लक्षणनिश्चयार्थमाहुः, 'घ्राणरसनत्वक्चक्षुःश्रोत्रा-
णीन्द्रियाणि भूतेभ्य' (१) इत्यत्र भूतग्रहणं वक्ष्यते, एवं हि ऐतिह्यस्य न प्रमा-
णान्तरता भविष्यति उपदेशरूपत्वाविशेषादिति ।
अन्ये तु

पदेशः, उच्यते, श्रोत्रग्राह्यवस्तुकरणिका तदर्थप्रतीतिरभिधानक्रिया इत्थं लोके
व्यवहारात्, उक्तो ऽभिहितश्च स एवार्थो लोके व्यपदिश्यते, यस्तु तथाविधप्र-
तीतिविषयतां प्रतिपन्नः श्रोत्रग्राह्यस्य वर्णराशेरेवार्थप्रतीतिकरणत्वान्न तु श्रोत्र-
प्रत्ययाविषयविशेषः स्फोटात्मा शब्दः, श्रोत्रग्रहणे ह्यर्थे शब्दशब्दः प्रसिद्धः वर्णा
एव च श्रोत्रग्रहणाः, यतो ऽर्थप्रतीतिः स शब्द इति तूच्यमाने धूमादिरपि
शब्दः स्यात्, अगृहीतसम्बन्धश्च शब्दः शब्दत्वं जह्यादर्थप्रतिपत्तेरकरणात् ।
ननु प्रतीतेः संविदात्मकत्वान्नाभिधानक्रिया नाम का चिदपूर्वा सांवदन्या
विद्यते तत्करणस्य चोपदेशतायामतिप्रसङ्ग इत्युक्तम्, सत्यम्, सम्विदात्मैव
सर्वत्र प्रतीतिः सा चक्षुरादिकरणिका प्रत्यक्षफलं श्रोत्राग्राह्यकरणिका ऽनुमान-
फलम् श्रोत्रग्राह्यकरणिका शब्दफलम् , न हि दृश्यते अनुमीयते ऽभिधीयते
इति पर्यायशब्दः, तत्प्रतीतिविशेषजनने च शब्दस्योपदेशत्वमुच्यते विवक्षादौ तु
तस्य लिङ्गत्वमेवेत्यलं प्रसङ्गेन ।
आप्तो भाष्यकृता व्याख्यातः, आप्तः खलुसाक्षात्कृतधर्मा यथा दृष्टस्यार्थस्य
चिख्यापयिषया प्रयुक्तः उपदेष्टा चेति ।
धर्म इत्युपदेष्टव्यः कश्चिदर्थो विवक्षितः ।
साक्षात्करणमेतस्य यथार्थ उपलम्भनम् ॥
न तु प्रत्यक्षेणैव ग्रहणमिति नियमः अनुमानादिनिश्चितार्थोपदेशिनो ऽप्या-
प्तत्वानपायात् ।
चिख्यापयिषया युक्त इत्युक्ता वीतरागता ।
उपदेष्ट्रेत्यनेनोक्तं प्रतिपादनकौशलम् ॥
वीतरागो ऽपि मूकादिरुपदेष्टुमशक्तः किं कुर्यात् , वक्तुं शक्तो ऽपि साक्षा-
त्कृतधर्माप्यवीतरागो न वक्ति तूष्णीमास्ते इति ।
तस्य च प्रतिपाद्ये ऽर्थे वीतरागत्वमिष्यते ।
सर्वथा वीतरागस्तु पुरुषः कुत्र लभ्यते ॥
ऋष्यार्यम्लेच्छसामान्यं वक्तव्यं चाप्तलक्षणम् ।
एवं हि लोके ऽप्याप्तोक्त्या व्यवहारो न नङ्क्ष्यति ॥
येऽप्यार्षे दोषक्षयमाचक्षते तैरपि दोषक्षयः प्रतिपाद्यार्थेष्वेव वर्णनीयो ऽन्य-
था लोके दृश्यमानस्याप्तोक्तिनिबन्धनस्य व्यवहारस्य निह्नवः स्यात् , अथ वा
वेदप्रामाण्यसिद्ध्यर्थत्वाच्छास्त्रस्य तत्प्रणेतुराप्तस्येश्वरस्य यथाश्रुतमेवेदं लक्षणं
स साक्षात्कृतधर्मैव धर्मस्येश्वरप्रत्यक्षगोचरत्वात् , चिख्यापयिषया प्रयुक्त इति
कारुणिक एव भगवानिति वक्ष्यते, उपदेष्टा च वेदाद्यागमानां तत्प्रणीतत्वस्य
समर्थयिष्यमाणत्वादिति ।

द्वितीय आह्निक: प्रत्यक्ष प्रमाण विचार, निर्विकल्पक व सविकल्पक प्रत्यक्ष

प्रमाणप्रकरणम् १३९
आह आस्तां तावदेतद् इदं तु चिन्त्यतां किमर्थमिदं पुनः शब्दस्य पृथग्ल-
क्षणमुपवर्ण्यते—
शब्दस्यानुमानान्तर्भावाक्षेपः—
शब्दस्य खलु पश्यामो नानुमानाद्विभिन्नताम् ।
अतस्तल्लक्षणाक्षेपान्न वाच्यं लक्षणान्तरम् ॥
परोक्षविषयत्वं हि तुल्यं तावद् द्वयोरपि ।
सामान्यविषयत्वं च सम्बन्धापेक्षणाद् द्वयोः ॥
अगृहीते ऽपि सम्बन्धे नैकस्यापि प्रवर्त्तनम् ।
सम्बन्धश्च विशेषाणामानन्त्यादतिदुर्गमः ॥
यथा प्रत्यक्षतो धूमं दृष्ट्वा ऽग्निरनुमीयते ।
तथैव शब्दमाकर्ण्य तदर्थो ऽप्यवगम्यते ॥
अन्वयव्यतिरेकौ च भवतो ऽत्रापि लिङ्गवत् ।
यो यत्र दृश्यते शब्दः स तस्यार्थस्य वाचकः ॥
पक्षधर्मत्वमप्यस्ति शब्दः एव यतो ऽर्थवान् ।
प्रकल्पयिष्यते पक्षो धूमो दहनवानिव ॥
तत्र धूमत्वसामान्यं तद्वदत्रापि वक्ष्यते ।
एवं विषयसामग्रीसाम्यादेकत्वनिश्चये ॥
न विलक्षणतामात्रं किं चिदन्यत्वकारणम् ।
पूर्ववर्णक्रमोद्भूतसंस्कारसहकारिता ॥
पुरुषापेक्षवृत्तित्वं विवक्षानुसृतिक्रमः ।
इत्यादिना विशेषेण न प्रमाणान्तरं भवेत् ॥
कार्यकारणधर्मादिविशेषो ऽत्रापि नास्ति किम् ।
यथेष्टविनियोज्यत्वमपि नान्यत्वकारणम् ।
हस्तसंज्ञादिलिङ्गे ऽपि तथाभावस्य दर्शनात् ॥
दृष्टान्तनिरपेक्षत्वमभ्यस्ते विषये समम् ।
अनभ्यस्ते तु सम्बन्धस्मृतिसापेक्षता द्वयोः ॥
अनेकप्रतिभोत्पत्तिहेतुत्वमपि विद्यते ।
अस्पष्टलिङ्गे कस्मिंश्चिदश्व इत्यादिशब्दवत् ॥
स्फुटार्थानवसायाश्च प्रमाणाभासतो यथा ।
लिङ्गे तथैव शब्दे ऽपि नानार्थभ्रमकारिणि ॥
अपि च प्रतिभामात्रे शब्दाज्जाते ऽपि कुत्र चित् ।
आप्तवादत्वलिङ्गेन जन्यते निश्चिता मतिः ॥

१४० न्यायमञ्जर्याम्
अत एव हि मन्यन्ते शब्दस्यापि विपश्चितः ।
आप्तवादाविसंवादसामान्यादनुमानताम् ॥
किं च शब्दो विवक्षायामेव प्रामाण्यमश्नुते ।
न बाह्ये व्यभिचारित्वात्तस्यां चैतस्य लिङ्गता ॥
शब्दस्यानुमानात्पार्थक्यम्—
तत्राभिधीयते—द्विविधः शब्दः, पदात्मा वाक्यात्मा चेति, तत्र वाक्यमन-
वगतसम्बन्धमेव वाक्यार्थमवगमयितुमलम , अभिनवविरचितश्लोकश्रवणे
सति पदसंस्कृतमतीनां तदर्थावगमनदर्शनात् , अतः सम्बन्धाधिगममूलप्रवृ-
त्तिना ऽनुमानेन तस्य कथं साम्यसम्भावना, पदस्य तु सम्बन्धाधिगमसापेक्षत्वे
सत्यपि सामग्रीभेदाद् विषयभेदाच्चानुमानाद्भिन्नत्वम् , विषयस्तावद्विसदृश एव
पदलिङ्गयोः, तन्मात्रं पदस्यार्थ इति च स्थापयिष्यते, अनुमानं तु वाक्यार्थ-
विषयम् अत्राग्निरग्निमान्पर्वत इति ततः प्रतिपत्तेः, उक्तं च तत्र धर्मविशिष्टो
धर्मी साध्य इति ।
ननु पदान्यपि वाक्यार्थवृत्तीनि सन्ति गोमानौपगवः कुम्भकार इति,
सत्यम् , किं तु तेष्वपि साकाङ्क्षप्रत्ययानुत्पादात् , गोमान्क इत्याकाङ्क्षाया
अनिवृत्तेः ।
अपि च पर्वतादिविशेष्यप्रतिपत्तिपूर्विका पावकादिविशेषणावगतिर्लिङ्गादु-
देति पदात्तु विशेषणावगतिपूर्विका विशेष्यावगतिरिति विषयभेदः ।
ननूक्तं यथा ऽनुमाने धर्मविशिष्टो धर्मी साध्य एवमिहार्थविशिष्टः शब्दः
साध्यो भवतु, मैवम् , शब्दस्य हेतुत्वात् , न च हेतुरेव पक्षो भवितुमर्हति ।
ननु यथा अग्निमानयं धूमो धूमवत्त्वान्महानसधूमवदित्युकतं 'सा देशस्याग्नि-
युक्तस्य धूमस्यान्यैश्च कल्पिता' इति (१) , एवं गोशब्द एवार्थवत्त्वेन साध्यतां
गोशब्दत्वादित्यादि सामान्यं च हेतूक्रियतामिति, एतदपि दुर्घटम् , शब्दस्य
धर्मिणः किमर्थविशिष्टत्वं वा साध्यते प्रत्यायनशक्तिविशिष्टत्वं वा अर्थप्रतीति-
विशिष्टत्वं वा न तावदर्थविशिष्टत्वं साध्यं शैलज्वलनयोरिव शब्दार्थयोः धर्म-
धर्मिभावाभावात् ,
अथार्थविषयत्वाच्छब्दस्यार्थविशिष्टतेत्युच्यते तदप्ययुक्तम् , तत्प्रतीतिजन-
नमन्तरेण तद्विषयत्वानुपपत्तेः, प्रतीतौ तु सिद्धायां किं तद्विषयत्वद्वारेण
तद्धर्मत्वेन, यदि तु तद्विषयत्वमूलं तद्धर्मित्वपूर्वकार्थप्रतीतिरित्यर्थप्रतीतिमूलं
( १ ) श्लोकवार्तिके अनुमानग्रन्थे श्लो० ४८ । सा प्रमेयता ( अनुमेयता )
अग्निविशिष्टस्य प^तस्य धूमं धर्मीकृत्य अन्यैस्तार्किकैः स्वीकृतेत्यर्थः ।

प्रमाणप्रकरणम् १४१
तद्विषयत्वं वदितरेतराश्रयम् , तस्मान्नार्थविशिष्टः शब्दः साध्यः, नाप्यर्थप्रत्याय-
नशक्तिविशिष्टः तदर्थितया शब्दप्रयोगाभावात् ।
न शक्तिसिद्धये शब्दःकथ्यते श्रूयते ऽपि वा ।
अर्थगत्यर्थमेवामुं शृण्वन्ति च वदन्ति च ॥
नाप्यर्थप्रतीतिविशिष्टः शब्दः पक्षतामनुभवितुमर्हति सिद्धयसिद्धिविक-
ल्पानुपपत्तेः ।
असिद्धया ऽपि तद्वत्त्वं शब्दस्यार्थधिया कथम् ।
सिद्धायां तत्प्रतीतौ वा किमन्यदनुमीयते ॥
ज्वलनादावपि तुल्यो विकल्प इति चेद् न हि तत्राग्निर्धूमेन जन्यते अपि
तु गम्यते, इयं त्वर्थप्रतीतिर्जन्यते शब्देनेत्यस्यामेव सिद्धासिद्धित्वविकल्पावसरः,
तस्मात्त्रिधा ऽपि न शब्दस्य पक्षत्वम् ,
अपि च गोशब्दे धर्मिणि गत्वादिसामान्यात्मकस्य हेतोर्ग्रहणं ततो व्याप्ति-
स्मरणं ततः परामर्शः ततो ऽर्थप्रतिपत्तिरिति कालद्राघीयस्त्वाद्धर्मी तिरोहितो
भवेद् न पर्वतवदवस्थितिस्तस्यापि तूच्चरितप्रध्वंसित्वं शब्दस्य, न च शब्दमर्थ-
वत्त्वेन लोकः प्रतिपद्यते किं तु शब्दात्पृथगेवार्थमिति न सर्वथा शब्दः पक्षः,
अतो धर्मविशिष्टस्य धर्मिणः साध्यस्येहासम्भवाच्छब्दलिङ्गयोर्महान्विषयभेदः ।
सामग्रीभेदः खल्वपि पक्षधर्मान्वयादिरूपसापेक्षमनुमानं व्याख्यातं शब्दे
तु न तानि सन्ति रूपाणि, तथा च शब्दस्य पक्षत्वप्रतिषेधान्न तद्धर्मतया गत्वा-
दिसामान्यस्य लिङ्गता, न चार्थस्य धर्मित्वं सिद्धयसिद्धिविकल्पानुपपत्तेः, न
च तद्धर्मत्वं शब्दस्य शक्यते वक्तुं तत्र वृत्त्यभावात् , प्रतीतिजनकत्वेन तद्धर्म-
तायामुच्यमानायां पूर्ववदितरेतराश्रयम् , पक्षधर्मादिबलेन प्रतीतिः प्रतीतौ
च सत्यां पक्षधर्मादिरूपलाभः,
अपि च यद्यर्थधर्मतयाशब्दस्य पक्षधर्मत्वं भवेत्तदाऽनवगतधूमाग्निसंबन्धो
ऽपि यथा धूमस्य पर्वतधर्मतां गृह्णात्येव तथा ऽनवगतशब्दार्थसंबन्धोऽपि अर्थ-
धर्मतां शब्दस्य गृह्णीयान्न च गृह्णातीत्यतो नास्ति पक्षधर्मत्वं शब्दस्येति,
अन्वयव्यतिरेकावपि तस्य दुरुपपादौ देशे काले च शब्दार्थयोरनुगमाभावात् ,
न हि यत्र देशे शब्दः तत्रार्थः यथोक्तं श्रोत्रियैः, मुखे हि शब्दमुपलभामहे भूमा-
वर्थमिति, वयं तु कर्णाकाशे शब्दमुपलभामहे इत्यास्तामेतत् , नापि यत्र काले
शब्दः तत्रार्थः तदानीं युधिष्ठिराद्यभावेऽपि तद्बुद्धयोरन्वयो ग्रहीष्यते इत्युच्यते
तर्हि वक्तव्यं किमर्थबुद्धावुत्पन्नायामन्वयो गृह्यते अनुत्पन्नायां वा अनुत्पन्नायां
तावत्स्वरूपासत्त्वात्कुतोऽन्व

१४२ न्यायमञ्जर्याम्
नन्वावापोद्वापद्वारेण शब्दार्थसम्बन्धे निश्चीयमाने उपयुज्येते एवान्वयव्य-
तिरेकौ, यथोक्तं 'तत्र यो ऽन्वेति यं शब्दमर्थस्तस्य भवेदसौ' इति(१), सत्य-
मेतत् , किं तु समयबलेन सिद्धायामर्थबुद्धौ समयनियमार्थावन्वयव्यतिरेकौ
शब्देनान्वयव्यतिरेककृता च धूमादेरिव ततो ऽर्थबुद्धिः, अपि च—
धूमादिभ्यः प्रतीतिश्च नैवावगतिपूर्विका—
इहावगतिपूर्वैव शब्दादुत्पद्यते मतिः ॥
स्थविरव्यवहारे हि बालः शब्दात् कुतश्चन ।
दृष्ट्वा ऽर्थमवगच्छन्तं स्वयमप्यवगच्छति ॥
तत्राप्येवं समयः क्रियते एतस्माच्छब्दादयमर्थः त्वया प्रतिपत्तव्य इति
तत्रापि प्रतीतिरेव, अविनाभावो नाम सम्बन्धः अन्यश्च शब्दार्थयोः समया-
परनामा वाच्यवाचकभावः सम्बन्धः कारणत्वेन निर्दिष्टो द्रष्टव्यः तस्माद-
न्यो लिङ्गलिङ्गिनोरविनाभावाद्वाच्यवाचकभावः सम्बन्धः प्रतीत्यङ्गम् । एवंविध-
विषयभेदात्सामग्रीभेदाच्च प्रत्यक्षवदनुमानादन्यः शब्द इति सिद्धम् ।
यत्तु पूर्ववर्णक्रमापेक्षणादिवैलक्षण्यमाशङ्क्य दूषितं कस्तत्र फल्गुप्राये
निर्बन्धः ।
यत्पुनरभिहितम्(२) 'आप्तवादाविसंवादसामान्यादनुमानता' इति तदतीव
सुभाषितम्, विषयभेदात्, आप्तवादत्वहेतुना हि शब्दार्थबुद्धेः प्रामाण्यं साध्यते
न तु सैव जन्यते, यदाह(३)—
( १ ) श्लोकवार्तिके वाक्याधिकरणे श्लो. १६७ । 'अन्यथानुपपत्त्या हि शक्ति-
स्तत्रावतिष्ठते' इति उत्तरार्द्धम् अयमर्थः यं शब्दं योऽर्थोऽन्वेति तस्य शब्दस्य सोऽर्थः
इत्यन्यथानुपपत्त्या तस्य शब्दस्य तत्रार्थे शक्तिरस्तीत्यवगम्यते यथा वृक्षं वृक्षेणेत्यादौ
अमाद्यपगमे कर्मत्वं न प्रतीयते वृक्षं घटमित्यादौ अमः सत्त्वे कर्मत्वं प्रतीयते इति
अन्वयव्यतिरेकाभ्यां अमादेः कर्मत्वादौ शक्तिर्निश्चीयते इति ।
( २ ) श्लोकवार्तिके शब्दलक्षणे श्लो. २३ । 'कालाद्यपेक्षया चान्यदुक्ता चान्यैर-
भिन्नता' इति कारिकापूर्वार्द्धम् । अन्यैः शाक्यैः आप्तवादित्वाविसम्वादित्वयोर्व्याप्ति-
दर्शनात् अनुमानतः शब्दस्याभिन्नता उक्ता । शब्दानुमाने शब्दार्थयोः सम्बन्धः पुरु-
षापेक्षः अग्निधूमयोर्देशापेक्षः चन्द्रोदयसमुद्रवृद्ध्योः कालापेक्षः इतीतः पूर्वतनश्लो-
कस्याभिप्रायः ।
( ३ ) श्लोकवार्तिके वाक्याधिकरणे श्लो. २३१ । आप्तवादत्वानादरेण पदा-
र्थेभ्यो वाक्यार्थबोधे जाते अप्रमाण्यशङ्कानिवर्तनमात्रमाप्तवादत्वेन क्रियते न च बु-
द्ध्युत्पत्तिः इदमेवाह-अन्यदेवेति । आप्तवादत्वहेतुकं सत्यत्वमन्यत् वाक्यार्थज्ञान्यः
आप्तवादत्वेन सत्यत्वानुमानेऽपि वाक्यार्थस्यानुमानता नायाति इत्यर्थः ननु बुद्ध्युत्प-

प्रमाणप्रकरणम् १४३
अन्यदेव हि सत्यत्वमाप्तवादत्वहेतुकम् ।
वाक्यार्थश्चान्य एवेह ज्ञातः पूर्वतरं च सः ॥
ततश्चेदाप्तवादेन सत्यत्वमनुमीयते ।
वाक्यार्थप्रत्ययस्यात्र कथं स्यादनुमानता ॥
जन्म तुल्यं हि बुद्धीनामाप्तानाप्तगिरां श्रुतौ ।
जन्माधिकोपयोगी च नानुमायां त्रिलक्षण इति ॥
न च प्रामाण्यनिश्चयाद्विना प्रतिभामात्रं तदिति वक्तव्यं शब्दार्थसम्प्रत्यय-
स्यानुभवसिद्धत्वात् ,
एतेन विवक्षाविषयत्वमपि प्रत्युक्तम् , न हि विवक्षा नाम शब्दस्य वाच्यो
विषयः किं त्वर्थ एव तथा।
विवक्षायां हि शब्दस्य लिङ्गत्वमिह दृश्यते ।
आकाशादिव कार्यत्वान्न वाचकतया पुनः ॥
शब्दादुच्चरिताच्च वाच्यविषया तावत्समुत्पद्यते
संवित्तिस्तदनन्तरं तु गमयेत्कामं विवक्षामसौ ।
अर्थोपग्रहवर्जिता तु नियमात्सिद्धैवमाजीविता
तद्वाच्यार्थविशेषिता त्वविदिते नैषां तदर्थे भवेत् ॥
शब्दप्रामाण्याक्षेपः—
ननु सिद्धे प्रामाण्ये भेदाभेदपरीक्षणम् ।
क्रियते न तु शब्दस्य प्रामाण्यमवकल्पते ॥
अर्थप्रतीतिजनकं प्रमाणमिति वर्णितम् ।
विकल्पमात्रमूलत्वान्नार्थं शब्दाः स्पृशन्त्यमी ॥
अर्थो निरूप्यमाणश्च को वा शब्दस्य शक्यते ।
वक्तुं न जातिर्न व्यक्तिर्न तद्भाजां कश्चन ॥
सम्बन्धो ऽप्यस्य नार्थेन नित्यो ऽस्ति समयो ऽथ वा ।
शक्यः सन्नपि वा बोद्धुमर्थे कथमतीन्द्रिये ॥
वाक्यार्थो ऽपि न निर्णेतुं पार्यते पारमार्थिकः ।
त्तिरपि आप्तवादत्वलिङ्गादेव भविष्यति तथाहि आप्तस्य गोपदरचनमर्थान्तरसाधना-
दिमद्बुद्धिपूर्वकं सा चार्थव्याप्ता तज्ज्ञानं जनयति इति न शब्दस्यानुमानभिन्नत्वमत
आहजन्मेति– ( पक्षसत्त्वाबाधितत्वासत्प्रतिपक्षित्वरूप ) त्रिलक्षण लिङ्गजन्यादिधीर-
नुमानं न चेयं तज्जन्या पदार्थैरेवागृहीतसम्बन्धैरियं जन्यते इति प्रमाणान्तरमेव शब्द
इति भावः ।

नियोगभावनाभेदसंसर्गादिखभावकः ॥
तत्प्रतीत्यभ्युपायश्च किं पदार्थः पदानि वा ।
वाक्यं वा व्यतिषक्तार्थं स्फोटो वेति न लक्ष्यते ॥
सिद्धायामपि तद्बुद्धौ तस्या दृढिमकारणम् ।
नित्यत्वमाप्तोक्तत्वं वा न सम्यगवतिष्ठते ॥
पदे नित्ये ऽपि वैदिक्यो रचनाः कर्त्तृपूर्विकाः ।
नित्या वा कृतकत्वे ऽपि कृताः केनेति दुर्गमम् ॥
कर्त्ता ऽस्ति स च निर्द्वन्द्वः स चैकः स च सर्ववित् ।
स च कारुणिको वेति प्रतिपत्तुं न शक्यते ॥
परस्परविरुद्धाश्च सन्ति भूयांस आगमाः ।
तेषां कस्येश्वरः कर्त्ता कस्य नेति न मन्महे ॥
वेदे दोषाश्च विद्यन्ते व्याघातः पुनरुक्तता ।
फलस्यानुपलम्भश्च तथा फलविपर्ययः ॥
कीदृशश्चार्थवादानां विरुद्धार्थाभिधायिनाम् ।
मन्त्राणां नामधेयादिपदानां वा समन्वयः ॥
सिद्धकार्योपदेशाच्च वेदे संशेरते जनाः ।
किमस्य कार्ये प्रमाण्यं सिद्धे ऽर्थे वोभयत्र वा ॥
तेन वेदप्रमाणत्वं विषमे पथि वर्त्तते ।
जीविकोपायबुद्ध्या वा श्रद्धया वा ऽभ्युपेयताम् ॥
शब्दप्रमाणसमर्थनम्—
अत्रभिधीयते, सर्वएवैते दोषा यथाक्रमं परिहरिष्यन्ते इत्यलं समाश्वासे-
न सुप्रतिष्ठमेव वेदप्रामाण्यमवगच्छत्वायुष्मान्,
नन्वर्थासंस्पर्शित्वमेव तावत्कथं परिह्रियते न हि बाह्ये ऽर्थे शब्दाः प्रतीति-
मादधति ते हि दुर्लभवस्तुसंपर्कविकल्पमात्राधीनजन्मानः स्वमहिमानमनुवर्त्त
मानास्तिरस्कृतबाह्यार्थसमन्वयान्विकल्पप्रायानप्रत्ययानुत्पादयन्तो दृश्यन्ते अ-
ङ्गुल्यग्रे हस्तियूथशतमास्ते इति स्वभाव एव शब्दानांमर्थासंस्पर्शित्वम्, चक्षु-
रादीनामप्यलीककचक्रूचैकादिप्रतीतिकारणत्वमस्ति न च तेषामर्थासंस्पर्शित्व-
मिति चेत् तेषां हि तिमिरादिदोषकलुषितवपुषां तथाविधविभ्रमकारणत्वं न
तु स्वमहिम्नैव, इहापि पुरुषदोषाणामेष महिमा न शब्दानामिति चेद् —
मैवम् दोषवता ऽपि पुरुषस्य मूकादेरनुच्चारितशब्दस्येदृशविप्लवोत्पादनपा-
टवाभावात्, असत्यपि च पुरुषहृदयकालुष्ये यथा प्रयुज्यमानान्यङ्गुल्यग्रादि-
वाक्यानि विप्लवमावहन्त्येवेति शब्दानामेवैष स्वभावे। न वक्तृदोषाणाम् , अपि

Here is the line-by-line transcription of the page into clean Unicode Devanagari, strictly following the printed text, layout, and line breaks:

प्रमाणप्रकरणम् १४५
च न चक्षुरादिबाधकज्ञानोदये सति न विरमति विपरीतवेदनजन्मनः शुक्तिकारज-
तादिबुद्धिषु विभ्रमस्यापायदर्शनात् , शब्दस्तु शतकृत्वो ऽपि बाध्यमानो यथैवोच्च-
रितः 'करशाखादिशिखरे करेणुशतमास्ते' इति तदैव तथाभूतं भूयोऽपि विकल्प-
मयथार्थमुत्पादयत्येवेति विकल्पाधीनजन्मत्वाच्छब्दानामेवेदं रूपं यदर्थासं-
स्पर्शित्वं नामेति । तदुक्तम्—
विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः ।
तेषामन्योन्यसम्बन्धे नार्थं शब्दाः स्पृशन्त्यमी ॥ इति ।
अत्राभिधीयते—भवेदेतदेवं यदि न कदा चिदपि यथार्थ शब्दः प्रत्ययमु-
पजनयेत् , अर्थसंस्पर्शित्वमेवास्य स्वभाव इत्यवगम्यते , भवति तु गुणवत्पुरु-
[L

१४६ न्यायमञ्जर्याम्
ऽपि शब्दस्यैव व्यापारात्पुरुषस्योच्चारणमात्रे चरितार्थत्वान्नैक़ान्ततः शब्दस्या-
र्थासंस्पर्शित्वमेव स्वभावः युक्तं चैतदेव यद्दीपवत्प्रकाशत्वमात्रमेव शब्दस्य
स्वरूपं न यथार्थत्वमयथार्थत्वं वा विपरीते ऽप्यर्थे दीपस्य प्रकाशत्वानिवृत्तेः,
अयं तु विशेषः प्रदीपे व्युत्पत्तिनिरपेक्षमेव प्रकाशत्वं शब्दे तु व्युत्पत्त्यपेक्ष-
मिति, प्रकाशात्मनस्तु शब्दस्य वक्तृगुणदोषाधीने यथार्थेतरत्वे, अत एवाङ्गु-
लिशिखराधिकरणकरेणुशतवचसि बाधिते ऽपि पुनः पुनरुच्चार्यमाणे भवति
विभ्रमः प्रकाशकत्वतद्रूपानपायात् न त्वेष शब्दस्य दोषः ।
पदार्थानां तु संसर्गमसमीक्ष्य प्रजल्पतः ।
वक्तुरेव प्रमादो ऽयं न शब्दो ऽत्रापराध्यति ॥
तदुक्तम् , प्रमाणान्तरदर्शनमत्र बाध्यते न पुनर्हस्तियूथशतमिति शब्दो
ऽन्वयः, पुरुषो हि स्वदर्शनं शब्देन परेषां प्रकाशयति तत्र तद्दर्शनं चेद् दुष्टं
दुष्टः शब्दः प्रत्ययः अदुष्टं चेददुष्ट इति गुणवतः पुरुषस्यादुष्टं दर्शनं भवति दो-
षवतो दुष्टमिति, अदृष्ट्वा ऽपि वस्तु यदुपदिश्यते सो ऽपि बुद्धिदोष एव, तस्मा-
त्पुरुषगतगुणदोषान्वयव्यतिरेकानुविधायित्वात् तत्कृते एव शब्दयथार्थत्वा-
यथार्थत्वे, तदुक्तं 'तथ्यमपि भवति वितथमपि भवति' इति(१) ।
तेनाभिधातृदौरात्म्यकृतेयमयथार्थता ।
प्रत्ययस्येति शब्दानां नार्थासंस्पर्शिता स्वतः ॥
या तु जात्यादिशब्दार्थपराकरणवर्त्मना ।
अर्थासंस्पर्शिता प्रोक्ता सा पुरस्तान्निषेत्स्यते ॥
प्रामाण्यं स्वतः परतो वेति विचारावतरणम् ।
प्रमाणत्वं तु शब्दस्य कथमित्यत्र वस्तुनि ।
जैमिनीयैरयं तावत्पीठबन्धो विधीयते ॥
प्रामाण्यमप्रामाण्यं वा सर्वविज्ञानगोचरः ।
स्वतो वा परतो वेति प्रथमं प्रविविच्यताम् ॥
ननु शब्दप्रामाण्यचिन्तावसरे सकलप्रमाणप्रामाण्यविचारस्य कः प्रसङ्गः,
न स्वातन्त्र्येण परीक्षणमपि तु तदर्थमेव समानमार्गत्वात् ,
अथान्येषां स्वतः परतो वा प्रामाण्यं तथा शब्दस्यापि भविष्यतीति
न हि तस्य स्वरूपमिव प्रामाण्यमपि तद्विसदृशमिति, तदुच्यते, किं विज्ञानानां
प्रामाण्यमप्रामाण्यं चेति द्वयमपि स्वतः(२) उत उभयमपि परतः(३) आहो
( १ ) शाबरभाष्यम् अ. १ पा. १ सू. २ ।
( २ ) इदं सांख्यमतम् । ( ३ ) इदंतार्किकमतम् ।

स्विदप्रामाण्यं स्वतः प्रामाण्यं तु परतः(१) उत स्वित्प्रामाण्यं स्वतः अप्रामाण्यं
तु परतः(२) इति,
मीमांसकमतेन सर्वप्रमाणानां स्वतः प्रामाण्यनिरूपणम् ।
तत्र द्वयमपि स्वत इति तावदसांप्रतम्, प्रवृत्तस्य विसंवाददर्शनात्, यदि
हि प्रामाण्यमितरद्वा स्वत एव ज्ञानस्य गम्येते तर्हि शुक्तौ रजतज्ञानं प्रमाण-
तया वा प्रतिपन्नमन्यथा वा ।
प्रमाणत्वपरिच्छित्तौ विसंवदति तत्कथम् ।
अप्रामाण्यगृहीतो वा तस्मिन्कस्मात्प्रवर्त्तते ॥
एतेन तृतीयो ऽपि पक्षः प्रत्युक्तः यदप्रामाण्यं स्वतः प्रामाण्यं परतः इति,
स्वतो ह्यप्रामाण्ये निश्चिते प्रवृत्तिर्न प्राप्नोतीति, किं च अप्रामाण्यमुत्पत्तौ
कारणदोषापेक्षं निश्चये च बाधकज्ञानापेक्षं तत्कथं स्वतो भवितुमर्हति,
यच्च ‘अप्रामाण्यमवस्तुत्वान्न स्यात्कारणदोषतः’ इति(३) कैश्चिदुच्यते तदपि
यत्किञ्चत्, संशयविपर्ययात्मनः अप्रामाण्यस्य वस्तुत्वात्तद्गतमप्रामा-
ण्यमपि वस्त्वेवेति, परतस्तु प्रामाण्यं यथा नावकल्पते तथा विस्तरे-
णोच्यते, एवं चायं द्वयमपि परत इति द्वितीयपक्षप्रतिक्षेपे ऽपि भविष्यति,
अर्थतथात्वप्रकाशकं हि प्रमाणमित्युक्तम्, तस्य स्वप्रमेयाव्यभिचारित्वं नाम
प्रामाण्यम्, अतश्च परापेक्षायां सत्यां परत इति कथितुमुचितम्, न चास्य
परापेक्षा क चिद्विद्यते सा हि भवन्ती उत्पत्तौ वा स्यात् स्वकार्यकरणे वा प्रा-
माण्यनिश्चये वा, उत्पत्तौ कारकस्वरूपमात्रापेक्षा तदतिरिक्तद्गतगुणापेक्षा वा,
कारकस्वरूपमात्रापेक्षायां सिद्धसाध्यत्वम्, असत्सु कारकेषु कार्यस्य ज्ञानस्या-
त्मलाभाभावात् कस्य प्रामाण्यमप्रामाण्यं वा चिन्यते, कारकातिरिक्तदधि-
करणगुणापेक्षणं तु दुर्घटम्, अप्रामाणिकत्वेन कारणगुणानामाकाशकुशेशय-
सदृशवपुषामपेक्षणीयत्वाभावात् ।
न कारणगुणग्राहि प्रत्यक्षमुपपद्यते ।
चक्षुरादेः परोक्षत्वात्प्रत्यक्षास्तद्गुणाः कथम् ॥
लिङ्गं चादृष्टसंबन्धं न तेषामनुमापकम् ।
यथार्थबुद्धिसिद्धिस्तु निर्दोषादेव कारकात् ॥
यदि हि यथार्थत्वायथार्थत्वरूपद्वयरहितं किं चिदुपलब्ध्याख्यं कार्यं
भवेत्ततः कार्यत्रैविध्यात्कारणत्रैविध्यमवश्यमवसीयेत यथार्थोपलब्धेर्गुणवत्का-
रकं कारकम् अयथार्थोपलब्धेर्दोषकलुषं कारकं कारकम् उभयरूपरहितायास्तु
(१) इदं सौगतमतम् । (२) इदं मीमांसकमतम् । (३) श्लोकवार्तिके सू. २ श्लो. ३९।

१४८ न्यायमञ्जर्याम्
तस्याः स्वरूपावस्थितमेव कारकं कारकमिति, न त्वेवमस्ति, द्विविधैव खल्व-
यमुपलब्धिः यथार्थत्वायथार्थत्वभेदेन तत्रायथार्थोपलब्धिस्तावद् दुष्टकारक-
कार्येव दृष्टा ।
दृष्टः कुटिलकुम्भादिसम्भवो दुष्टकारणात् ।
तथा मानान्तरमितात्तिमिरादेर्द्विचन्द्रधीः ।
अयथार्थोपलब्धौ च दुष्टकारककार्यत्वेन सिद्धायामिदानीं तृतीयकार्याभा-
वात् यथार्थोपलब्धिः स्वरूपावस्थितेभ्य एव कारकेभ्यो ऽवकल्पते इति न गुण-
कल्पनायै प्रभवति, अनुमाने च यैव पक्षधर्मान्वयादिसामग्री ज्ञानस्य जनिका
सैव प्रामाण्यकारणत्वेन दृष्टा, न च स्वरूपस्थितानि कारणानि कार्यजन्मन्यू-
दासत एव येन यथार्थोपलब्धिजनने तेषां गुणसहकारिता कल्प्यते इत्यतो न
सन्ति कारणगुणाः, नैर्मल्यव्यपदेशस्तु लोचनादेः काचकामलादिदोषापायनि-
बन्धन एव न स्वरूपातिरिक्तगुणकृतः अञ्जनाद्युपयोगो ऽपि दोषनिर्हरणायैव
न गुणजन्मने ।
तस्मादवितथा संवित् स्वरूपस्थितहेतुजा ।
दोषाधिकैस्तु तैरेव जन्यते विपरीतधीः ॥
अत एवाप्रमाणत्वं परतो ऽभ्युपगम्यते ।
जन्मन्यपेक्षते दोषान् बाधकं च स्वनिश्चये ॥
तस्मान्नोत्पत्तौ गुणापेक्षं प्रामाण्यम् , नापि स्वकार्यकरणे किं चिदपेक्षते
अर्थप्रकाशनस्वभावस्यैव तस्य स्वहेतोरुत्पादात् , अर्थप्रकाशनमेव च प्रमाण-
कार्यं प्रवृत्त्यादेः पुरुषेच्छानिबन्धनत्वात् ।
नैव वा जायते ज्ञानं जायते वा प्रकाशकम् ।
अर्थप्रकाशने किं चिन्न तूत्पन्नमपेक्षते ॥
तथा चोक्तम्—
मृद्दण्डचक्रसूत्रादि घटो जन्मन्यपेक्षते ।
उदकाहरणे त्वस्य तदपेक्षा न विद्यते ॥ इति ।
अथ वा—
सापेक्षत्वं घटस्यापि सलिलाहरणं प्रति ।
यत्किं चिदस्ति न त्वेवं प्रमाणस्योपपद्यते ॥
न च स्वग्रहणापेक्षं ज्ञानमर्थप्रकाशकम् ।
तस्मिन्ननवबुद्धे ऽपि तस्सिद्धेश्चक्षुरादिवत् ॥
उक्तं च 'न ह्यज्ञाते ऽर्थे कश्चिद् बुद्धिमुपलभते ज्ञाते त्वनुमानादवगच्छ-
ती'इति(१) तस्मात्स्वकार्यकरणे ऽपि न स्वग्रहणापेक्षं प्रमाणम्, नापि प्रामाण्य-
( १ ) शाबरभाष्ये अ. १ पा. १ सू. ५

प्रमाणप्रकरणम् १४९
निश्चये किं चिदपेक्षते अपेक्षणीयाभावात् , तथा ह्यस्य कारणगुणज्ञानाद्वा प्रा-
माण्यनिश्चयो भवेद्वाधकाभावज्ञानाद् वा संवादाद्वा, न तावत्कारणगुणज्ञाना-
त्कारणगुणानामिदानीमेव निरस्तत्वात् ।
अपि च न कारकगुणज्ञानमिन्द्रियकारणकम् अतीन्द्रियकारकाधिक-
रणत्वेन परोक्षत्वाद्गुणानाम् , अपि तूपलब्ध्याख्यकार्यपरिशुद्धिसमधिगम्य-
गुणस्वरूपमप्रवृत्तस्य च प्रमातुर्न कार्यपरिशुद्धिर्भवति तन्नेदानीं प्रमाण्यनिश्च-
यपूर्विका प्रवृत्तिर्भवेत् , अन्यथा वा, अनिश्चितप्रामाण्यादेव ज्ञानात्प्रवृत्तिसिद्धौ
किं पश्चात्तन्निश्चयेन प्रयोजनम् निश्चितप्रामाण्यात्तु प्रवृत्तौ दुरतिक्रमः चक्र-
क्रकचपातः प्रवृत्तौ सत्यां कार्यपरिशुद्धिग्रहणं कार्यपरिशुद्धिग्रहणात्कारणगु-
णावगतिः कारणगुणावगतेः प्रामाण्यनिश्चयः प्रामाण्यनिश्चयात्प्रवृत्तिरिति,
नापि बाधकाभावपरिच्छेदात्प्रामाण्यनिश्चयः स हि तात्कालिको वा स्यात्का-
लान्तरभावी वा ।
तात्कालिको न पर्याप्तः प्रामाण्यपरिनिश्चये ।
कूटकार्षापणादौ किं चित्कालमनुत्पन्नबाधके ऽपि कालान्तरे तदुत्पाद-
दर्शनात् ।
सर्वथा तदभावस्तु नासर्वज्ञस्य गोचरः ॥
अथ संवादात्प्रामाण्यनिश्चय उच्यते तर्ह्युच्यतां को ऽयं संवादो नाम,
किमुत्तरं तद्विषयं ज्ञानमात्रम् उतार्थान्तरज्ञानम् अहो स्विद्र्थक्रियाज्ञानमिति
आद्ये पक्षे कः पूर्वोत्तरज्ञानयोर्विशेषो यदुत्तरज्ञानसंवादात्पूर्वं पूर्वं ज्ञानं प्रामा-
ण्यमश्नुवीत ।
अपि चोत्तरसंवादात्पूर्वपूर्वप्रमाणताम् ।
वदन्तो नाधिगच्छेयुरन्तं युगशतैरपि ॥
सुदूरमपि गत्वा तु प्रामाण्यं यदि कस्य चित् ।
स्वत एवाभिधीयेत को द्वेषः प्रथमं प्रति ॥
यदाह—
कस्य चित्तु यदीष्येत स्वत एव प्रमाणता ।
प्रथमस्य तथाभावे विद्वेषः किंनिबन्धन इति (१) ॥
अथान्यविषयज्ञानमप्यस्य संवाद उच्यते तदयुक्तम् अदर्शनात् , न हि
स्तम्भज्ञानं कुम्भज्ञानस्य संवादः,
( १ ) श्लोकवार्तिके सू. २ श्लो. ४७ । स्वत इति। यदि ज्ञानस्य स्वविषयतया-
त्त्वावधारणे स्वतः शक्तिर्न स्यात्तदा नान्येनापि संपादयितुं शक्यते अतो न कदाचित्
कस्य चित्क्वचिदप्यर्थोऽवधार्येतेत्यान्ध्यमेवाशेषस्य जगतः प्रसज्येतेति भावः ।

अथार्थक्रियाज्ञानसंवादात्प्रथमस्य प्रवर्त्तकस्य ज्ञानस्य प्रामाण्यमिष्यते तद-
पि ह्यनवसितप्रामाण्यं कथमादिमस्य प्रामाण्यमवगमयेत् , कश्चार्थक्रियाज्ञानस्य
पूर्वस्माद्विशेषो यदेतदायत्तस्तस्य प्रामाण्याधिगमः, अर्थक्रियाज्ञानत्वमेव विशेष
इति चेत्किल सलिलज्ञानमाद्यमविद्यमाने ऽपि पयसि पूषदीधितिषु दृष्टमिति न
भवति विश्रम्भभूमिः, इदं पुनरर्थक्रियासंवेदनमम्बुमध्यवर्त्तिनः पानावगाह-
नादिविषयमपीत्यनवधारितव्यभिचारतया तत्प्रामाण्यनिश्चयाय कल्पते इति,
तदसत् , स्वप्ने पानावगाहनस्यापि व्यभिचारोपलब्धेः, किं च चरमधातुविस-
र्गो ऽपि स्वप्नसीमन्तिनीमन्तरेण भवतीति महानेष व्यभिचारः ।
अथ रागोद्रेकनिमित्तत्वेन पित्तादिधातुविकृतिनिबन्धनत्वेन वा तद्विसर्गस्य
न स्वसाधनव्यभिचार इत्युच्यते तदसमञ्जसम् , असकृदनुभूतयुवतिपरिर-
म्भाद्यन्वयव्यतिरेकानुविधायित्वेन तत्कार्यत्वावधारणात् ।
तस्मादर्थक्रियाज्ञानव्यभिचारावधारणात् ।
तत्प्रामाण्यपरीक्षायामनवस्था न शाम्यति ॥
अथ वा ऽऽफलत्वेन किं तत्प्रामाण्यचिन्तया ।
न चेदमर्थक्रियाज्ञानमप्रवृत्तस्य पुंसः समुद्भवति तत्र प्रामाण्यावधारणपूर्व-
कायां प्रवृत्तौ कारणगुणनिश्चेयप्रामाण्यचर्चाबद्धचक्रककचचोद्यप्रसङ्गस्तदवस्थ
एव, अनिश्चितप्रामाण्यस्य तु प्रवृत्तौ पश्चात्तन्निर्णयो भवन्नपि कृतचौरस्य नक्ष-
त्रपरीक्षावदफल एवेत्युक्तम् ,
तत्रैतत्स्याद् द्विविधा हि प्रवृत्तिः आद्या चाभ्यासिकी च, तत्राद्या यथा
विनिहितसलिलावसिक्तमसृणमृदि शरावे शाल्यादिबीजशक्तिपरीक्षणाय कति-
पयबीजकणवापरूपा, ततस्तत्र तेषामङ्कुरकरणकौशलमविकलमवलोकयन्तः की-
नाशा निःशङ्कं केदारेषु तानि बीजान्यावपन्तीति सेयमभ्यासिकी प्रवृत्तिः,
एवमिहापि प्रथमपरीक्षितप्रमाणभावादेव ज्ञातात्कुतश्चित्कश्चिद्विपश्चिदपि व्य-
वहरंस्तद्व्यवहारपरस्तत्फलज्ञाने तस्य प्रामाण्यमवगच्छन् पुनस्तथाविधे जाते
सति सुखमेव प्रवृत्त्यादिकं व्यवहारमशङ्कितकालुष्यः करिष्यतीति न सर्वा-
त्मना वैयर्थ्यमिति, उच्यते विषमो ऽयं दृष्टान्तः—
तज्जातीयतया बीजं शक्यते यदि वेदितुम् ।
तत्र तन्निश्चयाद्युक्तं निर्विशङ्कं प्रवर्त्तनम् ॥
ज्ञाने तथाविधत्वं तु बोधरूपाविशेषतः ।
कार्याद्वा कारणाद्वा ऽपि ज्ञातव्यं न स्वरूपत ॥ इति ।
कारणानां परोक्षत्वान्न तद्द्वारा तदा गतिः ।
कार्यात्तु नाप्रवृत्तस्य भवतीत्युपवर्णितम् ॥
तस्माद्वैय्यर्थ्यचोद्यस्य नायं परिहृतिक्रम

प्रमाणप्रकरणम् । १८१

एवं चार्थक्रियाज्ञानात्कीदृक् प्रामाण्यनिश्चयः॥
समर्थककारणज्ञानाद्यो ऽपि प्रामाण्यनिश्चयम् ।
ब्रूते सो ऽपि कृतोद्वाहस्तत्र लग्नं परीक्षते ॥
किलातिविकसितकुसुममकरन्दपानमुदितमधुकरकुले कस्मिंश्चिदुद्याने वा-
द्यमानायां वीणायां निरन्तरलतासन्तानान्तरितवपुषि विदूरादनवलोक्यमाने
वादके वीणाध्वनिसंविदि रोलम्बनादसन्देहदूषितायां तदभिमुखमेव प्रतिष्ठ-
मानः श्रोता परिवादके दर्शनपथमवतीर्णे स्वरानुकूलकारणनिश्चयात्तत्प्र-
तीतौ संशयनिवृत्तेः प्रामाण्यं निश्चिनोतीत्येष समर्थककारणज्ञानकृतः प्रामाण्य-
निश्चयः ।
तत्रापि नाप्रवृत्तस्य हेतुसामर्थ्यदर्शनम् ।
एवमेव प्रवृत्तौ तु निश्चितेनापि तेन किम् ॥
तन्निश्चयात्प्रवृत्तौ वा पुनरन्योन्यसंश्रयम् ।
तन्निश्चयात्प्रवृत्तिः स्यात्प्रवृत्तेस्तद्विनिश्चयः ॥
तदेवं न कुतश्चिदपि प्रामाण्यनिश्चयः चक्रकेतरेतराश्रयानवस्थावैयर्थ्यादि-
दूषणातीतस्थितिरस्तीति, अतः प्रामाण्यनिश्चयेऽपि न किं चिदपेक्षते प्रमाणम्,
ततश्चोत्पत्तौ स्वकार्यकरणे स्वप्रामाण्यनिश्चये च निरपेक्षत्वादपेक्षात्रयरहित-
त्वात्स्वतः प्रामाण्यमिति सिद्धम् । तदुक्तम् ( १ ) ।
स्वतः सर्वप्रमाणानां प्रामाण्यमिति गृह्यताम् ।
न हि स्वतो ऽसती शक्तिः कर्तुमन्येन पार्यते ॥
अप्रामाण्यं तूत्पत्तौ दोषापेक्षत्वात्स्वनिर्णये बाधकप्रत्ययादिसापेक्षत्वात्परत
इत्युक्तमेव, तस्मात्पक्षत्रयस्यानुपपत्तेश्चतुर्थ एवायं पक्षः श्रेयान्, प्रामाण्यं स्वतः
अप्रामाण्यं परत इति ।
ननु चोत्पत्तिवेलायां न विशेषो ऽवधार्यते ।
प्रमाणेतरयोस्तेन बलाद्भवति संशयः ॥
परिच्छित्तिमात्रं प्रमाणकार्यं तच्च यथार्थेतरप्रमितिसाधारणं रूपं साधार-
णधर्मग्रहणं च संशयकारणमिति प्रसिद्धः पन्थाः । एवं च स्थिते—
प्रमाणान्तरसंवादविसंवादौ विना कथम् ।
प्रमाणेतरनिर्णीतिरतश्च परतो द्वयम् ।


पादटिप्पणी (Footnote)

( १ ) श्लोकवार्त्तिके सू. २ श्लो. ४७ संवृत्या तदि चेष्येत पूर्वपूर्वप्रमाणता । प्रमा-
णान्तरमिच्छन्तो न व्यवस्थां लभेमहि । इति पूर्वः श्लोकः अयमभिप्रायः संवृत्या
संवादेन यदि प्रमाणता स्वीक्रियते तदाऽव्यवस्था, कस्यचित्संवादमन्तरा स्वतः प्रामा-
ण्याङ्गीकारे तु प्रथमस्य स्वतः प्रामाण्याङ्गीकारे को द्वेष इति ।