न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 163, कुल 654 में से
संदर्भ में पढ़ेंप्रमाणप्रकरणम् १४१
तद्विषयत्वं वदितरेतराश्रयम् , तस्मान्नार्थविशिष्टः शब्दः साध्यः, नाप्यर्थप्रत्याय-
नशक्तिविशिष्टः तदर्थितया शब्दप्रयोगाभावात् ।
न शक्तिसिद्धये शब्दःकथ्यते श्रूयते ऽपि वा ।
अर्थगत्यर्थमेवामुं शृण्वन्ति च वदन्ति च ॥
नाप्यर्थप्रतीतिविशिष्टः शब्दः पक्षतामनुभवितुमर्हति सिद्धयसिद्धिविक-
ल्पानुपपत्तेः ।
असिद्धया ऽपि तद्वत्त्वं शब्दस्यार्थधिया कथम् ।
सिद्धायां तत्प्रतीतौ वा किमन्यदनुमीयते ॥
ज्वलनादावपि तुल्यो विकल्प इति चेद् न हि तत्राग्निर्धूमेन जन्यते अपि
तु गम्यते, इयं त्वर्थप्रतीतिर्जन्यते शब्देनेत्यस्यामेव सिद्धासिद्धित्वविकल्पावसरः,
तस्मात्त्रिधा ऽपि न शब्दस्य पक्षत्वम् ,
अपि च गोशब्दे धर्मिणि गत्वादिसामान्यात्मकस्य हेतोर्ग्रहणं ततो व्याप्ति-
स्मरणं ततः परामर्शः ततो ऽर्थप्रतिपत्तिरिति कालद्राघीयस्त्वाद्धर्मी तिरोहितो
भवेद् न पर्वतवदवस्थितिस्तस्यापि तूच्चरितप्रध्वंसित्वं शब्दस्य, न च शब्दमर्थ-
वत्त्वेन लोकः प्रतिपद्यते किं तु शब्दात्पृथगेवार्थमिति न सर्वथा शब्दः पक्षः,
अतो धर्मविशिष्टस्य धर्मिणः साध्यस्येहासम्भवाच्छब्दलिङ्गयोर्महान्विषयभेदः ।
सामग्रीभेदः खल्वपि पक्षधर्मान्वयादिरूपसापेक्षमनुमानं व्याख्यातं शब्दे
तु न तानि सन्ति रूपाणि, तथा च शब्दस्य पक्षत्वप्रतिषेधान्न तद्धर्मतया गत्वा-
दिसामान्यस्य लिङ्गता, न चार्थस्य धर्मित्वं सिद्धयसिद्धिविकल्पानुपपत्तेः, न
च तद्धर्मत्वं शब्दस्य शक्यते वक्तुं तत्र वृत्त्यभावात् , प्रतीतिजनकत्वेन तद्धर्म-
तायामुच्यमानायां पूर्ववदितरेतराश्रयम् , पक्षधर्मादिबलेन प्रतीतिः प्रतीतौ
च सत्यां पक्षधर्मादिरूपलाभः,
अपि च यद्यर्थधर्मतयाशब्दस्य पक्षधर्मत्वं भवेत्तदाऽनवगतधूमाग्निसंबन्धो
ऽपि यथा धूमस्य पर्वतधर्मतां गृह्णात्येव तथा ऽनवगतशब्दार्थसंबन्धोऽपि अर्थ-
धर्मतां शब्दस्य गृह्णीयान्न च गृह्णातीत्यतो नास्ति पक्षधर्मत्वं शब्दस्येति,
अन्वयव्यतिरेकावपि तस्य दुरुपपादौ देशे काले च शब्दार्थयोरनुगमाभावात् ,
न हि यत्र देशे शब्दः तत्रार्थः यथोक्तं श्रोत्रियैः, मुखे हि शब्दमुपलभामहे भूमा-
वर्थमिति, वयं तु कर्णाकाशे शब्दमुपलभामहे इत्यास्तामेतत् , नापि यत्र काले
शब्दः तत्रार्थः तदानीं युधिष्ठिराद्यभावेऽपि तद्बुद्धयोरन्वयो ग्रहीष्यते इत्युच्यते
तर्हि वक्तव्यं किमर्थबुद्धावुत्पन्नायामन्वयो गृह्यते अनुत्पन्नायां वा अनुत्पन्नायां
तावत्स्वरूपासत्त्वात्कुतोऽन्व