सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 160, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 160

पदेशः, उच्यते, श्रोत्रग्राह्यवस्तुकरणिका तदर्थप्रतीतिरभिधानक्रिया इत्थं लोके
व्यवहारात्, उक्तो ऽभिहितश्च स एवार्थो लोके व्यपदिश्यते, यस्तु तथाविधप्र-
तीतिविषयतां प्रतिपन्नः श्रोत्रग्राह्यस्य वर्णराशेरेवार्थप्रतीतिकरणत्वान्न तु श्रोत्र-
प्रत्ययाविषयविशेषः स्फोटात्मा शब्दः, श्रोत्रग्रहणे ह्यर्थे शब्दशब्दः प्रसिद्धः वर्णा
एव च श्रोत्रग्रहणाः, यतो ऽर्थप्रतीतिः स शब्द इति तूच्यमाने धूमादिरपि
शब्दः स्यात्, अगृहीतसम्बन्धश्च शब्दः शब्दत्वं जह्यादर्थप्रतिपत्तेरकरणात् ।
ननु प्रतीतेः संविदात्मकत्वान्नाभिधानक्रिया नाम का चिदपूर्वा सांवदन्या
विद्यते तत्करणस्य चोपदेशतायामतिप्रसङ्ग इत्युक्तम्, सत्यम्, सम्विदात्मैव
सर्वत्र प्रतीतिः सा चक्षुरादिकरणिका प्रत्यक्षफलं श्रोत्राग्राह्यकरणिका ऽनुमान-
फलम् श्रोत्रग्राह्यकरणिका शब्दफलम् , न हि दृश्यते अनुमीयते ऽभिधीयते
इति पर्यायशब्दः, तत्प्रतीतिविशेषजनने च शब्दस्योपदेशत्वमुच्यते विवक्षादौ तु
तस्य लिङ्गत्वमेवेत्यलं प्रसङ्गेन ।
आप्तो भाष्यकृता व्याख्यातः, आप्तः खलुसाक्षात्कृतधर्मा यथा दृष्टस्यार्थस्य
चिख्यापयिषया प्रयुक्तः उपदेष्टा चेति ।
धर्म इत्युपदेष्टव्यः कश्चिदर्थो विवक्षितः ।
साक्षात्करणमेतस्य यथार्थ उपलम्भनम् ॥
न तु प्रत्यक्षेणैव ग्रहणमिति नियमः अनुमानादिनिश्चितार्थोपदेशिनो ऽप्या-
प्तत्वानपायात् ।
चिख्यापयिषया युक्त इत्युक्ता वीतरागता ।
उपदेष्ट्रेत्यनेनोक्तं प्रतिपादनकौशलम् ॥
वीतरागो ऽपि मूकादिरुपदेष्टुमशक्तः किं कुर्यात् , वक्तुं शक्तो ऽपि साक्षा-
त्कृतधर्माप्यवीतरागो न वक्ति तूष्णीमास्ते इति ।
तस्य च प्रतिपाद्ये ऽर्थे वीतरागत्वमिष्यते ।
सर्वथा वीतरागस्तु पुरुषः कुत्र लभ्यते ॥
ऋष्यार्यम्लेच्छसामान्यं वक्तव्यं चाप्तलक्षणम् ।
एवं हि लोके ऽप्याप्तोक्त्या व्यवहारो न नङ्क्ष्यति ॥
येऽप्यार्षे दोषक्षयमाचक्षते तैरपि दोषक्षयः प्रतिपाद्यार्थेष्वेव वर्णनीयो ऽन्य-
था लोके दृश्यमानस्याप्तोक्तिनिबन्धनस्य व्यवहारस्य निह्नवः स्यात् , अथ वा
वेदप्रामाण्यसिद्ध्यर्थत्वाच्छास्त्रस्य तत्प्रणेतुराप्तस्येश्वरस्य यथाश्रुतमेवेदं लक्षणं
स साक्षात्कृतधर्मैव धर्मस्येश्वरप्रत्यक्षगोचरत्वात् , चिख्यापयिषया प्रयुक्त इति
कारुणिक एव भगवानिति वक्ष्यते, उपदेष्टा च वेदाद्यागमानां तत्प्रणीतत्वस्य
समर्थयिष्यमाणत्वादिति ।