सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 161, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 161

प्रमाणप्रकरणम् १३९
आह आस्तां तावदेतद् इदं तु चिन्त्यतां किमर्थमिदं पुनः शब्दस्य पृथग्ल-
क्षणमुपवर्ण्यते—
शब्दस्यानुमानान्तर्भावाक्षेपः—
शब्दस्य खलु पश्यामो नानुमानाद्विभिन्नताम् ।
अतस्तल्लक्षणाक्षेपान्न वाच्यं लक्षणान्तरम् ॥
परोक्षविषयत्वं हि तुल्यं तावद् द्वयोरपि ।
सामान्यविषयत्वं च सम्बन्धापेक्षणाद् द्वयोः ॥
अगृहीते ऽपि सम्बन्धे नैकस्यापि प्रवर्त्तनम् ।
सम्बन्धश्च विशेषाणामानन्त्यादतिदुर्गमः ॥
यथा प्रत्यक्षतो धूमं दृष्ट्वा ऽग्निरनुमीयते ।
तथैव शब्दमाकर्ण्य तदर्थो ऽप्यवगम्यते ॥
अन्वयव्यतिरेकौ च भवतो ऽत्रापि लिङ्गवत् ।
यो यत्र दृश्यते शब्दः स तस्यार्थस्य वाचकः ॥
पक्षधर्मत्वमप्यस्ति शब्दः एव यतो ऽर्थवान् ।
प्रकल्पयिष्यते पक्षो धूमो दहनवानिव ॥
तत्र धूमत्वसामान्यं तद्वदत्रापि वक्ष्यते ।
एवं विषयसामग्रीसाम्यादेकत्वनिश्चये ॥
न विलक्षणतामात्रं किं चिदन्यत्वकारणम् ।
पूर्ववर्णक्रमोद्भूतसंस्कारसहकारिता ॥
पुरुषापेक्षवृत्तित्वं विवक्षानुसृतिक्रमः ।
इत्यादिना विशेषेण न प्रमाणान्तरं भवेत् ॥
कार्यकारणधर्मादिविशेषो ऽत्रापि नास्ति किम् ।
यथेष्टविनियोज्यत्वमपि नान्यत्वकारणम् ।
हस्तसंज्ञादिलिङ्गे ऽपि तथाभावस्य दर्शनात् ॥
दृष्टान्तनिरपेक्षत्वमभ्यस्ते विषये समम् ।
अनभ्यस्ते तु सम्बन्धस्मृतिसापेक्षता द्वयोः ॥
अनेकप्रतिभोत्पत्तिहेतुत्वमपि विद्यते ।
अस्पष्टलिङ्गे कस्मिंश्चिदश्व इत्यादिशब्दवत् ॥
स्फुटार्थानवसायाश्च प्रमाणाभासतो यथा ।
लिङ्गे तथैव शब्दे ऽपि नानार्थभ्रमकारिणि ॥
अपि च प्रतिभामात्रे शब्दाज्जाते ऽपि कुत्र चित् ।
आप्तवादत्वलिङ्गेन जन्यते निश्चिता मतिः ॥