सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 172, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 172

अथार्थक्रियाज्ञानसंवादात्प्रथमस्य प्रवर्त्तकस्य ज्ञानस्य प्रामाण्यमिष्यते तद-
पि ह्यनवसितप्रामाण्यं कथमादिमस्य प्रामाण्यमवगमयेत् , कश्चार्थक्रियाज्ञानस्य
पूर्वस्माद्विशेषो यदेतदायत्तस्तस्य प्रामाण्याधिगमः, अर्थक्रियाज्ञानत्वमेव विशेष
इति चेत्किल सलिलज्ञानमाद्यमविद्यमाने ऽपि पयसि पूषदीधितिषु दृष्टमिति न
भवति विश्रम्भभूमिः, इदं पुनरर्थक्रियासंवेदनमम्बुमध्यवर्त्तिनः पानावगाह-
नादिविषयमपीत्यनवधारितव्यभिचारतया तत्प्रामाण्यनिश्चयाय कल्पते इति,
तदसत् , स्वप्ने पानावगाहनस्यापि व्यभिचारोपलब्धेः, किं च चरमधातुविस-
र्गो ऽपि स्वप्नसीमन्तिनीमन्तरेण भवतीति महानेष व्यभिचारः ।
अथ रागोद्रेकनिमित्तत्वेन पित्तादिधातुविकृतिनिबन्धनत्वेन वा तद्विसर्गस्य
न स्वसाधनव्यभिचार इत्युच्यते तदसमञ्जसम् , असकृदनुभूतयुवतिपरिर-
म्भाद्यन्वयव्यतिरेकानुविधायित्वेन तत्कार्यत्वावधारणात् ।
तस्मादर्थक्रियाज्ञानव्यभिचारावधारणात् ।
तत्प्रामाण्यपरीक्षायामनवस्था न शाम्यति ॥
अथ वा ऽऽफलत्वेन किं तत्प्रामाण्यचिन्तया ।
न चेदमर्थक्रियाज्ञानमप्रवृत्तस्य पुंसः समुद्भवति तत्र प्रामाण्यावधारणपूर्व-
कायां प्रवृत्तौ कारणगुणनिश्चेयप्रामाण्यचर्चाबद्धचक्रककचचोद्यप्रसङ्गस्तदवस्थ
एव, अनिश्चितप्रामाण्यस्य तु प्रवृत्तौ पश्चात्तन्निर्णयो भवन्नपि कृतचौरस्य नक्ष-
त्रपरीक्षावदफल एवेत्युक्तम् ,
तत्रैतत्स्याद् द्विविधा हि प्रवृत्तिः आद्या चाभ्यासिकी च, तत्राद्या यथा
विनिहितसलिलावसिक्तमसृणमृदि शरावे शाल्यादिबीजशक्तिपरीक्षणाय कति-
पयबीजकणवापरूपा, ततस्तत्र तेषामङ्कुरकरणकौशलमविकलमवलोकयन्तः की-
नाशा निःशङ्कं केदारेषु तानि बीजान्यावपन्तीति सेयमभ्यासिकी प्रवृत्तिः,
एवमिहापि प्रथमपरीक्षितप्रमाणभावादेव ज्ञातात्कुतश्चित्कश्चिद्विपश्चिदपि व्य-
वहरंस्तद्व्यवहारपरस्तत्फलज्ञाने तस्य प्रामाण्यमवगच्छन् पुनस्तथाविधे जाते
सति सुखमेव प्रवृत्त्यादिकं व्यवहारमशङ्कितकालुष्यः करिष्यतीति न सर्वा-
त्मना वैयर्थ्यमिति, उच्यते विषमो ऽयं दृष्टान्तः—
तज्जातीयतया बीजं शक्यते यदि वेदितुम् ।
तत्र तन्निश्चयाद्युक्तं निर्विशङ्कं प्रवर्त्तनम् ॥
ज्ञाने तथाविधत्वं तु बोधरूपाविशेषतः ।
कार्याद्वा कारणाद्वा ऽपि ज्ञातव्यं न स्वरूपत ॥ इति ।
कारणानां परोक्षत्वान्न तद्द्वारा तदा गतिः ।
कार्यात्तु नाप्रवृत्तस्य भवतीत्युपवर्णितम् ॥
तस्माद्वैय्यर्थ्यचोद्यस्य नायं परिहृतिक्रम