न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 154, कुल 654 में से
संदर्भ में पढ़ेंअत्यन्तप्रायसाधर्म्यविकल्पादिनिबन्धनः ।
छिन्नः सूत्रकृतः साक्षादुपमानस्य विप्लवः ॥
येन सदृशप्रतीतिर्जन्यते तत्सदृशमिति किमत्यन्तसादृश्यादिविकल्पैः ।
अभिन्नप्रत्यये हेतुर्यथा सामान्यमुच्यते ।
सदृशप्रत्यये हेतुस्तथा सादृश्यमुच्यते ॥
ननूपमानलक्षणमस्मिन् मोक्षशास्त्रे कोपयुज्यते, आगमात्तावदात्मज्ञानं
मोक्षसाधनं सेतिकर्त्तव्यताकमवगम्यते, अनुमानादागमप्रामाण्यनिश्चयः, प्रत्य-
क्षादनुमानस्य व्याप्तिपरिच्छेद इति त्रयमेवोपदेष्टव्यम् , सत्यमेवम् , उपमान-
मपि क चिद्द्रव्यालम्भादिचोदनार्थानुष्ठाने सोपयोगम् , अनवगतगवयस्वरूपे
तदालम्भाभावात् , यथा मुद्गस्तम्भस्तथा मुद्गपर्णीति मुद्गपर्ण्याद्यौषधिपरि-
ज्ञाने ऽपि तदुपयोगि भवति ।
सर्वानुग्रहबुद्ध्या च करुणार्द्रमतिर्मुनिः ।
मोक्षोपयोगाभावे ऽपि तस्य लक्षणमुक्तवान् ॥
नन्वेवं सति यागौषधाद्युपयोग्यन्यदपि बहूपदेष्टव्यं स्यात् , न प्रमाणशा-
स्त्रत्वादस्य प्रमाणमेवार्थपरिच्छित्तिसाधनमिहोपदिश्यते, तच्चतुर्विधमेव न न्यू-
नमधिकं वेति निर्णीतम् , प्रमेयं तु मोक्षाङ्गमेवोपदिष्यते इत्यलं प्रसङ्गेन ।
मीमांसकाभिमतोपमानस्वरूपनिरूपणम्—
जैमिनीयास्तु अन्यथोपमानस्वरूपं वर्णयन्ति, यदा श्रुतातिदेशवाक्यस्य वने
गवयपिण्डदर्शनानन्तरं नगरं गतं गोपिण्डमनुस्मरत एतेन सदृशो गौरिति ज्ञानं
तदुपमानम् , तस्य विषयः सम्प्रत्यवगम्यमानगवयसादृश्यविशिष्टः परोक्षो गौः
तद्वृत्ति·वा गवयसादृश्यम् , अत एव तज्ज्ञानं प्रत्यक्षजन्यं परोक्षगोपिण्डवि-
षयत्वात् , अश्रुतातिदेशवाक्यस्याभावान्न शाब्दम् ।
न च स्मरणमेवेदं प्रमेयाधिक्यसम्भवात् ।
गवयेन हि सादृश्यं न पूर्वमवधारितम् ॥
भूयोऽवयवसामान्ययोगो यद्यपि मन्मते ।
सादृश्यं तस्य तु ज्ञप्तिर्गृहीते प्रतियोगिनि ॥
न चानुमानिकमिदं ज्ञानमनपेक्षितपञ्चादिधर्मादिकस्य भावात् , न च गव-
यगतं सारूप्यं तत्र लिङ्गमपक्षधर्मत्वात् , नापि गोगतमप्रसिद्धत्वात् प्रतिज्ञार्थै-
कदेशत्वाच्च, विषाणाद्यवयवजातमपि न गोगतं लिङ्गमिदानीं वनस्थस्य तद्ग्र-
हणाभावात् , अगृहीतस्य च लिङ्गत्वानुपपत्तेः, गवयगतमपि तदलिङ्गमेव पूर्व-
वदपक्षधर्मत्वात् , तस्माद् गवयसादृश्यविशेषितनगरगतपरोक्षगोपिण्डज्ञानं
काननवर्तिनः प्रमातुः प्रमाणान्तरं भवतीत्यभ्युपगन्तव्यम् ।