सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 168, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 168

१४६ न्यायमञ्जर्याम्
ऽपि शब्दस्यैव व्यापारात्पुरुषस्योच्चारणमात्रे चरितार्थत्वान्नैक़ान्ततः शब्दस्या-
र्थासंस्पर्शित्वमेव स्वभावः युक्तं चैतदेव यद्दीपवत्प्रकाशत्वमात्रमेव शब्दस्य
स्वरूपं न यथार्थत्वमयथार्थत्वं वा विपरीते ऽप्यर्थे दीपस्य प्रकाशत्वानिवृत्तेः,
अयं तु विशेषः प्रदीपे व्युत्पत्तिनिरपेक्षमेव प्रकाशत्वं शब्दे तु व्युत्पत्त्यपेक्ष-
मिति, प्रकाशात्मनस्तु शब्दस्य वक्तृगुणदोषाधीने यथार्थेतरत्वे, अत एवाङ्गु-
लिशिखराधिकरणकरेणुशतवचसि बाधिते ऽपि पुनः पुनरुच्चार्यमाणे भवति
विभ्रमः प्रकाशकत्वतद्रूपानपायात् न त्वेष शब्दस्य दोषः ।
पदार्थानां तु संसर्गमसमीक्ष्य प्रजल्पतः ।
वक्तुरेव प्रमादो ऽयं न शब्दो ऽत्रापराध्यति ॥
तदुक्तम् , प्रमाणान्तरदर्शनमत्र बाध्यते न पुनर्हस्तियूथशतमिति शब्दो
ऽन्वयः, पुरुषो हि स्वदर्शनं शब्देन परेषां प्रकाशयति तत्र तद्दर्शनं चेद् दुष्टं
दुष्टः शब्दः प्रत्ययः अदुष्टं चेददुष्ट इति गुणवतः पुरुषस्यादुष्टं दर्शनं भवति दो-
षवतो दुष्टमिति, अदृष्ट्वा ऽपि वस्तु यदुपदिश्यते सो ऽपि बुद्धिदोष एव, तस्मा-
त्पुरुषगतगुणदोषान्वयव्यतिरेकानुविधायित्वात् तत्कृते एव शब्दयथार्थत्वा-
यथार्थत्वे, तदुक्तं 'तथ्यमपि भवति वितथमपि भवति' इति(१) ।
तेनाभिधातृदौरात्म्यकृतेयमयथार्थता ।
प्रत्ययस्येति शब्दानां नार्थासंस्पर्शिता स्वतः ॥
या तु जात्यादिशब्दार्थपराकरणवर्त्मना ।
अर्थासंस्पर्शिता प्रोक्ता सा पुरस्तान्निषेत्स्यते ॥
प्रामाण्यं स्वतः परतो वेति विचारावतरणम् ।
प्रमाणत्वं तु शब्दस्य कथमित्यत्र वस्तुनि ।
जैमिनीयैरयं तावत्पीठबन्धो विधीयते ॥
प्रामाण्यमप्रामाण्यं वा सर्वविज्ञानगोचरः ।
स्वतो वा परतो वेति प्रथमं प्रविविच्यताम् ॥
ननु शब्दप्रामाण्यचिन्तावसरे सकलप्रमाणप्रामाण्यविचारस्य कः प्रसङ्गः,
न स्वातन्त्र्येण परीक्षणमपि तु तदर्थमेव समानमार्गत्वात् ,
अथान्येषां स्वतः परतो वा प्रामाण्यं तथा शब्दस्यापि भविष्यतीति
न हि तस्य स्वरूपमिव प्रामाण्यमपि तद्विसदृशमिति, तदुच्यते, किं विज्ञानानां
प्रामाण्यमप्रामाण्यं चेति द्वयमपि स्वतः(२) उत उभयमपि परतः(३) आहो
( १ ) शाबरभाष्यम् अ. १ पा. १ सू. २ ।
( २ ) इदं सांख्यमतम् । ( ३ ) इदंतार्किकमतम् ।