सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 170, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 170

१४८ न्यायमञ्जर्याम्
तस्याः स्वरूपावस्थितमेव कारकं कारकमिति, न त्वेवमस्ति, द्विविधैव खल्व-
यमुपलब्धिः यथार्थत्वायथार्थत्वभेदेन तत्रायथार्थोपलब्धिस्तावद् दुष्टकारक-
कार्येव दृष्टा ।
दृष्टः कुटिलकुम्भादिसम्भवो दुष्टकारणात् ।
तथा मानान्तरमितात्तिमिरादेर्द्विचन्द्रधीः ।
अयथार्थोपलब्धौ च दुष्टकारककार्यत्वेन सिद्धायामिदानीं तृतीयकार्याभा-
वात् यथार्थोपलब्धिः स्वरूपावस्थितेभ्य एव कारकेभ्यो ऽवकल्पते इति न गुण-
कल्पनायै प्रभवति, अनुमाने च यैव पक्षधर्मान्वयादिसामग्री ज्ञानस्य जनिका
सैव प्रामाण्यकारणत्वेन दृष्टा, न च स्वरूपस्थितानि कारणानि कार्यजन्मन्यू-
दासत एव येन यथार्थोपलब्धिजनने तेषां गुणसहकारिता कल्प्यते इत्यतो न
सन्ति कारणगुणाः, नैर्मल्यव्यपदेशस्तु लोचनादेः काचकामलादिदोषापायनि-
बन्धन एव न स्वरूपातिरिक्तगुणकृतः अञ्जनाद्युपयोगो ऽपि दोषनिर्हरणायैव
न गुणजन्मने ।
तस्मादवितथा संवित् स्वरूपस्थितहेतुजा ।
दोषाधिकैस्तु तैरेव जन्यते विपरीतधीः ॥
अत एवाप्रमाणत्वं परतो ऽभ्युपगम्यते ।
जन्मन्यपेक्षते दोषान् बाधकं च स्वनिश्चये ॥
तस्मान्नोत्पत्तौ गुणापेक्षं प्रामाण्यम् , नापि स्वकार्यकरणे किं चिदपेक्षते
अर्थप्रकाशनस्वभावस्यैव तस्य स्वहेतोरुत्पादात् , अर्थप्रकाशनमेव च प्रमाण-
कार्यं प्रवृत्त्यादेः पुरुषेच्छानिबन्धनत्वात् ।
नैव वा जायते ज्ञानं जायते वा प्रकाशकम् ।
अर्थप्रकाशने किं चिन्न तूत्पन्नमपेक्षते ॥
तथा चोक्तम्—
मृद्दण्डचक्रसूत्रादि घटो जन्मन्यपेक्षते ।
उदकाहरणे त्वस्य तदपेक्षा न विद्यते ॥ इति ।
अथ वा—
सापेक्षत्वं घटस्यापि सलिलाहरणं प्रति ।
यत्किं चिदस्ति न त्वेवं प्रमाणस्योपपद्यते ॥
न च स्वग्रहणापेक्षं ज्ञानमर्थप्रकाशकम् ।
तस्मिन्ननवबुद्धे ऽपि तस्सिद्धेश्चक्षुरादिवत् ॥
उक्तं च 'न ह्यज्ञाते ऽर्थे कश्चिद् बुद्धिमुपलभते ज्ञाते त्वनुमानादवगच्छ-
ती'इति(१) तस्मात्स्वकार्यकरणे ऽपि न स्वग्रहणापेक्षं प्रमाणम्, नापि प्रामाण्य-
( १ ) शाबरभाष्ये अ. १ पा. १ सू. ५