न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 164, कुल 654 में से
संदर्भ में पढ़ें१४२ न्यायमञ्जर्याम्
नन्वावापोद्वापद्वारेण शब्दार्थसम्बन्धे निश्चीयमाने उपयुज्येते एवान्वयव्य-
तिरेकौ, यथोक्तं 'तत्र यो ऽन्वेति यं शब्दमर्थस्तस्य भवेदसौ' इति(१), सत्य-
मेतत् , किं तु समयबलेन सिद्धायामर्थबुद्धौ समयनियमार्थावन्वयव्यतिरेकौ
शब्देनान्वयव्यतिरेककृता च धूमादेरिव ततो ऽर्थबुद्धिः, अपि च—
धूमादिभ्यः प्रतीतिश्च नैवावगतिपूर्विका—
इहावगतिपूर्वैव शब्दादुत्पद्यते मतिः ॥
स्थविरव्यवहारे हि बालः शब्दात् कुतश्चन ।
दृष्ट्वा ऽर्थमवगच्छन्तं स्वयमप्यवगच्छति ॥
तत्राप्येवं समयः क्रियते एतस्माच्छब्दादयमर्थः त्वया प्रतिपत्तव्य इति
तत्रापि प्रतीतिरेव, अविनाभावो नाम सम्बन्धः अन्यश्च शब्दार्थयोः समया-
परनामा वाच्यवाचकभावः सम्बन्धः कारणत्वेन निर्दिष्टो द्रष्टव्यः तस्माद-
न्यो लिङ्गलिङ्गिनोरविनाभावाद्वाच्यवाचकभावः सम्बन्धः प्रतीत्यङ्गम् । एवंविध-
विषयभेदात्सामग्रीभेदाच्च प्रत्यक्षवदनुमानादन्यः शब्द इति सिद्धम् ।
यत्तु पूर्ववर्णक्रमापेक्षणादिवैलक्षण्यमाशङ्क्य दूषितं कस्तत्र फल्गुप्राये
निर्बन्धः ।
यत्पुनरभिहितम्(२) 'आप्तवादाविसंवादसामान्यादनुमानता' इति तदतीव
सुभाषितम्, विषयभेदात्, आप्तवादत्वहेतुना हि शब्दार्थबुद्धेः प्रामाण्यं साध्यते
न तु सैव जन्यते, यदाह(३)—
( १ ) श्लोकवार्तिके वाक्याधिकरणे श्लो. १६७ । 'अन्यथानुपपत्त्या हि शक्ति-
स्तत्रावतिष्ठते' इति उत्तरार्द्धम् अयमर्थः यं शब्दं योऽर्थोऽन्वेति तस्य शब्दस्य सोऽर्थः
इत्यन्यथानुपपत्त्या तस्य शब्दस्य तत्रार्थे शक्तिरस्तीत्यवगम्यते यथा वृक्षं वृक्षेणेत्यादौ
अमाद्यपगमे कर्मत्वं न प्रतीयते वृक्षं घटमित्यादौ अमः सत्त्वे कर्मत्वं प्रतीयते इति
अन्वयव्यतिरेकाभ्यां अमादेः कर्मत्वादौ शक्तिर्निश्चीयते इति ।
( २ ) श्लोकवार्तिके शब्दलक्षणे श्लो. २३ । 'कालाद्यपेक्षया चान्यदुक्ता चान्यैर-
भिन्नता' इति कारिकापूर्वार्द्धम् । अन्यैः शाक्यैः आप्तवादित्वाविसम्वादित्वयोर्व्याप्ति-
दर्शनात् अनुमानतः शब्दस्याभिन्नता उक्ता । शब्दानुमाने शब्दार्थयोः सम्बन्धः पुरु-
षापेक्षः अग्निधूमयोर्देशापेक्षः चन्द्रोदयसमुद्रवृद्ध्योः कालापेक्षः इतीतः पूर्वतनश्लो-
कस्याभिप्रायः ।
( ३ ) श्लोकवार्तिके वाक्याधिकरणे श्लो. २३१ । आप्तवादत्वानादरेण पदा-
र्थेभ्यो वाक्यार्थबोधे जाते अप्रमाण्यशङ्कानिवर्तनमात्रमाप्तवादत्वेन क्रियते न च बु-
द्ध्युत्पत्तिः इदमेवाह-अन्यदेवेति । आप्तवादत्वहेतुकं सत्यत्वमन्यत् वाक्यार्थज्ञान्यः
आप्तवादत्वेन सत्यत्वानुमानेऽपि वाक्यार्थस्यानुमानता नायाति इत्यर्थः ननु बुद्ध्युत्प-